शतदूषणी संविन्निर्विकारत्वानुमानभङ्गवादः(22)

शतदूषणी ।।अथ संविन्निर्विकारत्वानुमानभङ्गवादः द्वाविंशः ।।22।। परिणमयति विश्वं यस्स्वयं निर्विकारः परिणमति च योऽसौ तत्तदर्थान्तरात्मा । विषमविषयतृष्णाधन्वकान्तारजातं व्यपनयतु भयं मे विश्वजिष्णुस्स विष्णुः ।। यदुच्यते – अनुभूतिर्निर्विकारा, अनुत्पन्नत्वात्, यदुक्तसाध्यं न भवति तदुक्तसाधनमपि न भवति, यथा घटादिरिति । तत्र संविदुत्पत्त्यादिसमर्थनादसिद्धिबाधौ सुगमौ । किंच किमिदं निर्विकारत्वं नाम? किमुत्तारवधिराहित्यम्? उत घटादिवन्नामान्तरव्यपदेशार्हावस्थाविशेषराहित्यम्? उतावस्थामात्रराहित्य मिति । नाद्यः, अनुत्पन्नेन प्रागभावेनोत्तरावधिमता व्यभिचारात् । भावरूपाज्ञानेन न […]

शतदूषणी संविदनुत्पत्तिदूषणवादः(21)

शतदूषणी ।।अथ संविदनुत्पत्तिदूषणवादः एकविंशः ।। 21।। विविधविषयाकृष्टैर्वागादिभिस्सुलभागसां स्वयमुपनतं स्वान्तर्घ्वान्तं चिरस्य निरस्य नः । भगवति हरौ प्रत्यक्तत्वान्तरात्मनि निर्भरप्रसृमरसुधाधाराकारा प्रसीदतु शेमुषी ।। ये तु स्ववचनविरोधजालमप्यवधीरयन्तः सर्वसाक्षिकामपि संविदुत्पत्तिं प्रतिक्षिपन्ति, तान्प्रति ब्रूमः । किं घटादिविषयप्रकाशात्मिकाया एव संविद उत्पत्तिः प्रतिक्षिप्यते? उत सकलविषयविरक्तायाः कस्याश्चिदन्यस्याः? नाद्यः, घटादीनामप्यनुत्पत्तिमत्त्वप्रसंगात् । नहि तदुत्पत्तेः प्रागेव तद्विषया प्रत्यक्षसंविदस्मदादीनां सम्भवति । अन्यथाऽस्मदादीनामपि सर्वदा सर्वज्ञत्वप्रसङ्गात् । ननु पूर्वं स्वरूपेणावतिष्ठते, […]

शतदूषणी अवेद्यत्वभङ्गवादः(20)

शतदूषणी ।।अथ अवेद्यत्वभङ्गवादः विंशः ।। 20 ।। श्रुतिगणशिरोनिष्णातानां स्वसत्त्वमभीप्सतां श्रवणमननध्यानैरध्यक्षतश्च चकास्ति यत् । अमतमिति यद्भूम्ना मन्तव्यतामवगाहते भवभयतमःप्रत्यासेधं भजेमहि तन्महः ।। यदाहुः – अनुभूतिस्स्वयंप्रकाशा, अनुभूतित्वात्, “अनुभूतेरनुभाव्यत्वे घटादिवदननु भूतित्वप्रसङ्ग” – तत्र तावदनुभूतिशब्दस्यार्थावगतिहेतुत्वे व्याघातःअहेतुत्वेऽपि पुनर्व्याधात इत्याबालगोपालमुपलभ्यम् । स्वयं प्रकाशे इत्यनेन किं स्वव्यवहारे स्वाश्रयस्य कदाचित्स्वगोचरानु भूत्यन्तरनैरपेक्ष्यमात्रं साध्यते? उत सर्वदा सर्वस्य स्वगोचरानुभूतिविरहः? नाद्यः, सिद्धसाधनात् । वयमपि संविदो विषयप्रकाशनवेलायां स्वाश्रयं प्रति […]

शतदूषणी ब्रह्माश्रयाज्ञाननिरासवादः(19)

शतदूषणी ।। अथ ब्रह्माश्रयाज्ञाननिरासवादः एकोनविंशः ।।19।। अनन्यचेतसां पुंसामज्ञानमवधून्वते । निरस्ताज्ञानगन्धाय नित्यं सर्वविदे नमः ।। अहङ्काराभिव्यङ्ग्यत्वं दूषयद्भिर्भाष्यकारैरज्ञानाश्रयत्वमपि संविदो निरस्तम् “न च संविदाश्रयत्वमज्ञानस्ये”त्यादिना । अविद्याश्रयविकल्पे चोक्तम् – “नापि ब्रह्माश्रित्य, तस्य स्वप्रकाशज्ञानरूपत्वेनाविद्याविरोधित्वात् इत्यादिना” । प्रदेशान्तरेषु च सर्वज्ञत्वनिर्दोषत्वादि श्रुतिशतैर्विरोधो दर्शितः तत्सर्वं सङ्कलस्य व्याकुर्मः । यद्यसौ परमात्मा त्वदुक्तप्रकारेण संविन्मात्रस्वरूपः, यदि वा यथाश्रुति सर्वज्ञः, नोभयधाऽपि तस्याज्ञानाश्रयत्वं संभवति । तथा हि – […]

शतदूषणी बाह्यप्रकाशानुपपत्तिवादः(18)

शतदूषणी ।।अथ बाह्यप्रकाशानुपपत्तिवादः अष्टादशः।।18।। अज्ञानसन्तमसमाश्रयणोन्मुखानां संवित्प्रदीपमहसा सहसा निरुन्धन् । विद्यास्वयंवरपतिर्व्यपहन्त्वविद्यां सर्वानुभूस्स भगवान्पुरुषोत्तमो नः ।। यत्तद्भावरूपाज्ञानदूषणसमये “नित्यमुक्तस्वप्रकाशचैतन्यैकस्वरूपस्य ब्रह्मणोऽज्ञानानुभवश्च न संभवतीत्या”दिभाष्यम्, तत्र बाह्यप्रकाश एव सर्वः परपक्षे न संभवतीत्यभिप्रेतम् । तद्धाकुर्मः । यदुच्यते – “नित्यमुक्तं ब्रह्मैव स्वगतानाद्यविद्यामनुभवती”ति,कथमिदमुपपद्यते? बन्ध (न) स्यानाद्यविद्यातत्कार्यानुभवात्मकत्वान्मोक्षस्य च तन्निवृत्तिरूपत्वात् । – “नित्यमुक्तस्य बन्धश्चेन्नित्यमुक्तिर्न संभवेत् । बन्धस्यापि च नित्यत्वाद्बन्धाभावे त्वमुक्तता” । ननु भवन्मतेऽप्य ज्ञानमस्त्येव, तच्च सर्वज्ञेनानुभूयते, […]

शतदूषणी दृश्यसम्बन्धानुपपत्तिपरिहारवादः(17)

शतदूषणी ।। अथ दृश्यसम्बन्धानुपपत्तिपरिहारवादः सप्तदशः ।।17।। बिभ्राणमात्मनि सदा महतीं विभूतिं देहेन तन्मयनिदर्शितभूषणास्त्रम् । आलिङ्गितं कमलया मम चित्तवृत्तेरालम्बनं भवतु दैवतमद्वितीयम् ।। यत्तु – आत्मख्यातिवादिभिरार्जितं ग्राह्यलक्षणायोगाख्यं तर्कं भिक्षित्वा दृग्दृश्ययोस्सम्बन्धानुप पत्तिरिति नामान्तरेण पठन्ति; तदपि सम्बन्धस्याबाधितप्रत्यक्षसिद्धत्वादेव निरस्तम् । आहुश्च – “उक्तं तु सौगतैर्ग्राह्यलक्षणाभावलक्षणम् । अन्ये दृग्दृश्यसम्बन्धाभावमाहुर्निरासि तत्” । इति । ननु कोऽसौ सम्बन्धः? न तावत्संयोगःदृशेरद्रव्यत्वात् । द्रव्यत्वाभ्युपगमेऽपि गुणादिभिस्सह तत्सम्बन्धस्य […]

शतदूषणी व्यावर्तमानत्वानुमानभङ्गवादः(16)

शतदूषणी ।।अथ व्यावर्तमानत्वानुमानभङ्गवादःषोडशः ।।16।। विश्वं व्यावर्तमानत्वान्निवर्तयितुमिच्छतः । निवर्तयामः कुमतीन् कथासंग्रामसीमतः ।। यत् तावत् घटादयोऽपरमार्थाः; व्यावर्तमानत्वात्; यदुक्तसाधनं तदुक्तसाध्यम्, यथा रज्जवाद्यधिष्ठानसर्पभूदलनाम्बुधारादि; यत्सत्, न तद्व्यावर्तते, यथा सर्पाद्यधिष्ठानभूता रज्जुः; यद्वा सर्वाधिष्ठानं ब्रह्म । यदि व्यावर्तमानस्यापि सत्त्वम्, तदा सत्यमिथ्यार्थविभागाभावप्रसङ्ग इति तर्कानुग्रहः इति । तत्र किमिदं व्यावर्तमानत्वम्? किं यतःकुत श्चिदन्यत्वम्? अथ यत्र कुत्रचिद्देशादावसत्त्वम्? यद्वा प्रध्वंसवत्त्वम्? उत प्रतिपन्नोपाधौ निषेधप्रतियोगित्वम्? किं वा कदाचित्क्वचिदेव […]

शतदूषणी दृश्यत्वानुमाननिरासवादः(15)

शतदूषणी ।।अथ दृश्यत्वानुमाननिरासवादः पञ्चदशः ।। 15।। अबाधादध्यक्षप्रभृतिमितिवर्गेष्ववधृतं शरीरं यस्येदं जगदखिलमन्तर्यमयितुः । स मे तर्कैरतैर्निजविभवल्लुण्टाकमथनैः प्रसीदत्वासीदन्निगमशतसीमा हयमुखः ।। यदेतत् सन्मात्रग्राहिप्रत्यक्षदूषणान्ते भाष्यम् – “सन्मात्रब्रह्मणः प्रमेयभावश्च । ततो जडत्व नाशित्वादयस्त्वयैवोक्ताः” इति । अनेन पश्यतोहराणां दृश्यत्वानुमानस्यानैकान्तिकत्वमपि सूचितम् । उत्तरत्रापि क्वचित् परमतव्याप्त्या प्रसङ्गं प्रायुङ्तः “ब्रह्म मिथ्या ज्ञानविषयत्वात्” इति । सांख्याधि करणे च व्याघातमसूचयत् – “दृश्यत्वबाध्यत्वाभ्युपगमात् सुतरामसङ्गतम्” इति । योगाचारोक्त संवेदनहेतुनिरासेन […]

शतदूषणी वेदप्रामाण्यपरिग्रहानुपपत्तिवादः(14)

शतदूषणी ।।अथ वेदप्रामाण्यपरिग्रहानुपपत्तिवादः चतुर्दशः ।।14।। यदात्मानो वेदा यदनुगुणवर्णाकृतिजुषः । प्रमाणं यत्रैते नियतमपरिच्छेद्यविभवे । य एषामाहर्ता दनुजमथनो वाजिवदनः । स मे देवः श्रीमान् विदलयतु संमोहमखिलम् ।। वेदप्रामाण्यवाङ्मात्रकञ्चुकच्छन्नमर्मणाम् । बुद्धसिद्धान्तसुहृदां सन्तः पश्यन्तु बाध्यताम् ।।2।। अतीन्द्रिये हि धर्मादौ वेदाः प्रमाणमिति साधितं प्रथमकाण्डे । तदुपजीवनेन सिद्धेऽपि प्रामाण्यं शारीरके । अतस्तथागताद्यागमस्तत्त्वानुष्ठानयोरप्रमाणमिति सर्वमीमांसकसम्मतम् । तदेतत् संविन्मात्रव्यतिरिक्तमिथ्यात्ववादे न संगच्छते । तदुक्तमभियुक्तैः – […]

शतदूषणी भेददूषणनिस्तारवादः(13)

शतदूषणी ।। अथ भेददूषणनिस्तारवादः त्रयोदशः ।। 13 ।। श्रीमल्लक्ष्मणयोगीन्द्रसिद्धान्तेष्वासनिर्गतः । भेदं बिभित्सतां चित्तं भिन्ते तर्कात्मकः शरः ।। यदेतत्स्वमर्मघट्टनम् – भेदः स्वरूपं धर्मोवा । न तावत् स्वरूपम्शुक्तिरजतादिभ्रमानुत्पत्तिप्रसङ्गात् । इदमित्यधिष्ठानतया हि शुक्तिस्वरूपमवगम्यते; अन्यथा निरधिष्ठानभ्रमप्रसङ्गात् । अवगते शुक्तिस्वरूपे तस्यैव रजताद्भेदत्वेन कथं शुक्तिरजतयोर्भेदाग्रहः? कथंतरां च तन्मूलः शुक्तौ रजताध्यासः कथंतमां च तदधीनाः कलधौताभिलाषिणः करतलप्रसारण – ग्रहण – चेलाञ्चलनिबन्धन – तद्रक्षणप्रभृतयः?। […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.