शतदूषणी सन्मात्रग्राहिप्रत्यक्षभङ्गवादः(12)
शतदूषणी ।। अथ सन्मात्रग्राहिप्रत्यक्षभङ्गवादः द्वादशः ।।12।। यस्य सत्त्वेन विश्वस्य सत्ता सदसदात्मनः । प्रत्यक्षाद्यपरिच्छेद्यं तत्सदैकमुपास्महे ।। यत्तु प्रत्यक्षादिविरुद्धं शास्त्रार्थमुपपाद्य पुनस्सानुशयैरुक्तम् – प्रत्यक्षादिविरोधे सत्येव हि शास्त्रस्यबलीयस्त्वं वक्तव्यम् । विरोधमेव न पश्यामः; प्रत्युतैकरस्यम्; प्रत्यक्षस्यापि शास्त्रस्येव निर्विशेषसन्मात्र ग्राहित्वात् । ननु यदि सन्मात्रं प्रत्यक्षेण गृह्यते, तदा घटोऽस्ति पटोऽस्ति इत्यादिनानाकारवस्तु विषयोपलम्भव्यवहारयोर्विरोधः । न हि सत्सदित्येव प्रतीतिव्यवहाराविति चेत् – मैवम्; यथा इदं […]
शतदूषणी निर्विशेषविषयकनिर्विकल्पकभङ्गवादः(11)
शतदूषणी ।।अथ निर्विशेषविषयकनिर्विकल्पकभङ्गवादः एकादशः ।।11।। संप्रज्ञातस्थितिमधिगते निर्विकल्पे समाधौ शान्तावद्यं स्तिमितबहुलानन्दसन्दोहमन्तः । यत्तत् ब्रह्म स्फुरति यमिनां पूर्णषाड्गुण्यरूपं सा मे नित्यं हृदि हयमुखी देवता सन्निधत्ताम् ।। यदेतदाहुः अस्ति तावन्निर्विकल्पकं नाम प्रत्यक्षम्; प्रथमाक्षसन्निपातसमनन्तरमविशिष्ट विषयापरोक्षाभासस्य दुरपह्नवत्वात् । अभ्युपेतं चैतत् सर्वैर्वादिभिः । ननु शाब्दास्तत्रापि शब्दानुवेधमिच्छन्ति, यथाऽऽहुः – “न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते । अनुविद्धमिव ज्ञानं सर्वं शब्देन गृह्यते ।।” […]
शतदूषणी निर्विशेषस्वप्रकाशभङ्गवादः(10)
शतदूषणी ।। अथ निर्विशेषस्वप्रकाशभङ्गवादः दशमः ।।10।। विचित्रं यत् स्वेन स्फुरति विषयाधारभिदुरं । तदेव ब्रह्मैकं विगुणमपि साक्षात्कृतमिति ।। वदन्तो वैयात्यात् बहुविहतिवात्याहतधियो । विधूयन्ते हन्त श्रुतिशतशिरश्शूलवचसः ।। य एष मन्त्रवादः-यद्यपि प्रमाणानि सर्वाण्यपि सविशेषमर्थमभिनिविशन्ते, तथाऽपि नस्वप्रकाशाध्यक्षसिद्धनिर्विशेषसंवित्सद्भावेन विमन्तव्यम्, अन्यथा धार्ष्ट्यात् सर्वापह्नवस्यापि दुर्निवारत्वात् । किंच संवित्स्वप्रकाशत्वं तावत् त्रय्यन्तविदां सर्वेषामविगीतम् । तत्र प्रकाशात्मतामात्रेण स्वतस्सिद्धायां संविदि न जडरूपधर्मानुप्रवेशावकाशः; प्रकाशात्मकास्तु न तत्वतो विवेक्तुं […]
शतदूषणी कथानधिकारवादः(9)
शतदूषणी ।।अथ कथानधिकारवादः नवमः ।।9।। हयग्रीवसुधासिन्धुहर्षहेषारवोर्मयः । जयन्ति वादवेलान्तक्षिप्तबाह्यकुदृष्टयः ।। विस्तरेण कुदृष्टिमतमनुभाष्य, “तदिदम्”इत्यादिना, “न्यायानुगृहीतवाक्यप्रत्यक्षादिसकल प्रमाणवृत्तयाथात्म्यविद्भिरनादरणीयम्” (श्रीभाष्यं-जिज्ञा) इत्यन्तेन शिष्यान् प्रत्युपदिशतो भाष्यकारस्यायं भावः, सौगतानामिव प्रच्छन्नसौगतानामपि कथायामनधिकार इति । वेदार्थसंग्रहे च स्पष्टमाह, “सर्वशून्यवादिनो, ब्रह्मव्यतिरिक्तसर्ववस्तुमिथ्यात्ववादिनश्च स्वपक्षस्थापकप्रमाण पारमार्थ्यानभ्युपगमात् अभियुक्तैर्वादानधिकार एव प्रतिपादितः, “अधिकारोऽनुपायत्वान्न वादे शून्यवादिनः” (श्लोकवार्तिके निरालंबनवादः125) इति । अयमाशयः, “यदि प्रपञ्चमिथ्यात्ववादी वादाधिकारिताम् । भजेन्माध्यमिकस्यापि भवेत् वादाधिकारिता” ।। “तथाच ब्रह्मतत्त्वं ते […]
शतदूषणी साधनचतुष्टयपूर्ववृत्तत्वभङ्गवादः(8)
शतदूषणी ।।अथ साधनचतुष्टयपूर्ववृत्तत्वभङ्गवादः अष्टमः ।।8।। शास्त्रैक्ये विषयाद्यभेदनियते सङ्गत्यधीन क्रमे कर्माऽऽलोच्य तदङ्गिकामथ परां विद्यामुपादित्सुभिः। यस्तद्वेद्यतया स्वयंफलतयाऽप्यारोहति ज्ञेयतां कुर्वीतैष विभुः श्रिया सह मम स्वान्तं निजान्तः पुरम् ।। इह तावत् आनन्तर्यार्थे प्रचुरप्रसिद्धिकं अथशब्दमादौ प्रयुञ्जानस्य सूत्रकारस्य तत्सम्भवे तदर्थतैवाभिमतेत्यङ्गीकार्यम् । तत्सम्भवश्च यदि नियतपूर्ववृत्तमसाधारणं तथात्वज्ञापने स प्रयोजनं चकिमपि स्यात्, तदा स्यात् । अन्यथा न स्यात्। यथा”अथ योगानुशासनम्”(पा.योग.सू.1.1) इत्यादौ । न हि […]
शतदूषणी शब्दजन्यप्रत्यक्षभङ्गवादः(7)
शतदूषणी ।।अथ शब्दजन्यप्रत्यक्षभंगवादः सप्तमः ।।7 ।। विभूत्यंशे यस्य स्फुरति जगतामक्षमखिलं । श्रुतिर्जात्यन्धानामुपदिशति यं रूपमिव नः । निजाध्यक्षप्रेक्षाचुलकितसमस्तः स्वयमसौ । हृषीकेशो दिव्यं दिशतु मम चक्षुः स्वविषयम् ।। यदूचिरे यद्यपि तत्त्वमस्यादिवाक्यश्रवणसमयसम्भवं परोक्षं ज्ञानमविद्यां न निवर्तयति, तथाऽपि श्रवणादिभिर्निरस्तसमस्तभेदवासनामूलासम्भावनाविपरीतसम्भावनाख्यचित्तविक्षेपलक्षणप्रतिबन्धस्य तदेव वाक्यमविद्यानिवर्तकमपरोक्षं ज्ञानं जनयति । न च शब्दस्य कथमपरोक्षधीहेतुत्वमिति वाच्यम्, इन्द्रियस्यापि कथमिति प्रसङ्गात् । दर्शनादिति चेत्, तुल्यम् । क्व तद्दर्शनमिति […]
शतदूषणी विविदिषासाधनत्वभङ्गवादः(6)
शतदूषणी ।।अथ विविदिषासाधनत्वभङ्गवादः षष्ठः ।।6।। दृष्टानुश्रविकार्थजातविमुखान् पुंसोऽधिकृत्य श्रुतौ यज्ञादिर्यदुपास्तिसाधनतया साक्षाद्विधिं प्राप्नुते । लीलाभोगविभूतियुग्मभरितस्वात्मप्रदानोन्मुखः श्रीमानस्तु स मे समस्तदुरितोत्ताराय नारायणः ।। यदुच्यते, “तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन” (बृह-6-4-22) इत्यत्र यज्ञादिकं विविदिषासाधनत्वेन विधीयते, न तु वेदनसाधनत्वेन, वस्तुविरोधात्; श्रुत्यक्षरपर्यालोचनाच्च । विविदिषन्तीति हि श्रूयते; न पुनः विदन्तीति । तत्र ब्रूमः,कोऽसौ वस्तुविरोधस्तावत्? किं ज्ञानस्य यज्ञादिभिस्साधयितुमशक्यत्वम्? उत तेषां ज्ञानाङ्गभूतशमादिप्रत्यनीकात्मत्वम्? यद्वा […]
शतदूषणी बाधितानुवृत्तिभङ्गवादः(5)
शतदूषणी ।।अथ बाधितानुवृत्तिभङ्गवादः पञ्चमः ।। 5 ।। नानुवर्तेत संसारो यत्प्रसादैकबाधितः । प्रसीदतु स मे देवः प्रथमाञ्जलिकिङ्करः ।। यदुच्यते तत्त्वमस्यादि (छां-6-8-7)वाक्यात्तत्त्वज्ञाने जातेऽपि ब्रह्मविदां बाधितानुवृत्त्या भेदप्रतिभासादेराशरीरमनुवृत्तिः, तदनुवृत्तावपि छिन्नमूलतया दग्धपटादिवदबन्धकत्वं चेति; तत्र पृच्छामः, बाधितत्वे कथमनुवृत्तिर्भवता वक्तव्या । तस्यां वा तत् कथम्। प्रमाणबलात् मिथ्यात्वाध्यवसायेऽपि द्विचन्द्रादिष्विव दोषमहिम्ना प्रतिभासानुवृत्तिरिति न विरोध इति चेत् समस्तद्वैतकुक्षिम्भरिणाऽप्यद्वैतज्ञानेनाबाधितः कोऽसौ दोषः । अविद्यैवेति चेत् कथं तर्ह्यविद्यानिवृत्तिः? […]
सददर्शन सुदर्शन चंपूः
NOTE: This is unpublished till date and brought out from a manuscript, here Page # are kept the same as in the manuscript for easy checking. There are few missing words and words that are not clear in the original, kindly request learned community to highlight the same and write to me at ayeenarasimhan @ […]
सिद्धधर्मविजयमङ्गलदीपिका
NOTE: This is unpublished till date and brought out from a manuscript, here Page # are kept the same as in the manuscript for easy checking. There are few missing words and words that are not clear in the original, kindly request learned community to highlight the same and write to me at ayeenarasimhan @ […]