अद्रव्यपरिच्छेदः

अद्रव्यपरिच्छेदः *अद्रव्यलक्षणविभागनिरूपणम्* अथाद्रव्यम् । सम्योगरहितमद्रव्यम् । तत्र च त्रिगुणे सदृश- विसदृशरूपोऽवस्थासन्तानः, कालेऽपि क्षणलवनिमेषत्वादिपरार्धपर्यन्तः, बुद्धौ प्रत्यक्षत्वानुमितित्व श्रौतत्वादिरूपः, शुद्धसत्त्वेऽपि केचित् त्रिगुणसमा इत्यनन्तप्रकारो यथाप्रमाणमनुसन्धेयः । एतदपेक्षया च वरदविष्णु-मिश्रैरुक्तम् – *गुणाश्चानन्ताः* इति । तेषाञ्च अनन्तवैषम्यस्य विविच्य निर्देष्टुमशक्यत्वात् शक्याम्शस्य च द्रव्यनिरूपणेनैव निरूपितप्रायत्वात् तथाऽतिरिक्तनिरूपणस्य च लोकव्यवहारादृष्टाद्युपयोगाभावात् अन्यानि स्फुटपरिगणनीयानि अद्रव्याणि निरूप्यन्ते । तानि – सत्त्वरजस्तमाम्सि, शब्दादयः पञ्च, सम्योगः, शक्तिः, इति दशैव । […]

बुद्धिपरिच्छेदः

श्रीः श्रीमते रामानुजाय नमः बुद्धिपरिच्छेदः *बुद्धेः लक्षणम् स्वयम्प्रकाशत्वम् च*   अथ मतिर्निरूप्यते । सकर्मकावभासत्वम्, सकर्तृकावभासत्वम्, इत्यादितल्लक्षणम् । न्यायतत्त्वे तु प्रथमाधिकरणे लक्षणान्तराणि बहूनि दूषयित्वा, *अत्यन्तवेगिताऽत्यन्तसौक्ष्म्यम् निर्भरता तथा । स्वसत्ताकालभाव्याप्तिर्ज्ञाने लक्ष्मचतुष्टयम् ॥ इति स्वोक्तलक्षणोपसम्हारः कृतः । अत्र यावदपेक्षितम् विशेषण-मूह्यम् । सा च विषयप्रकाशवेलायाम् स्वाश्रयस्यैव आत्मनः स्वयम्प्रभा । अन्यकालान्यपुरुषगता तु स्मृत्यनुमानादिविषयः सम्सारिणाम् । इतरेषाम् तु सर्वज्ञतया अन्यकालान्यपुरुषनिष्ठाऽपि स्वकीयेन […]

नित्यविभूतिपरिच्छेदः

नित्यविभूतिपरिच्छेदः *नित्यविभूतेर्लक्षणप्रमाणयोर्निरूपणम्*      अथास्य नित्यविभूतिरुच्यते । त्रिगुणद्रव्यव्यतिरिक्तत्वे सति सत्त्व-वत्त्वम् , स्वयम्प्रकाशत्वे सति सत्त्ववत्त्वम्, तमोरहितत्वे सति सत्त्व-वत्त्वम्, निश्शेषाविद्यानिवृत्तिदेशविजातीयान्यत्वम्, इत्यादि तल्लक्षणम् । *आदित्यवर्णम् तमसः परस्तात्*, *तेह नाकम्* *क्षयन्तमस्य रजसः पराके* *यो अस्याध्यक्षः परमे व्योमन्* *तदक्षरे परमे व्योमन्* *सहस्रस्थूणे विमिते दृढ उग्रे* इत्यादिभिस्तत्सिद्धिः । एवञ्च सति *तद्विष्णोः परमम् पदम् सदापश्यन्ति सूरयः* इत्यत्रापि व्यतिरेक-निर्देशबलात् स्वरूपाद्भेदे सिद्धे पदशब्दस्वारस्यात्, सदादृश्यत्वबलाच्च सदापश्यदनेकद्रष्टृविशिष्टस्थानविशेषसिद्धिः […]

ईश्वरपरिच्छेदः

श्रीः श्रीमते रामानुजाय नमः ईश्वरपरिच्छेदः *ईश्वरलक्षणनिरूपणम्* अथ ईश्वरश्चिन्त्यते । सर्वेश्वरत्वम्, व्यापकत्वे सति चेतनत्वम्, सर्वशेषित्वम्, सर्वकर्मसमाराध्यत्वम्, सर्वफलप्रदत्वम्, सर्वाधारत्वम्,  सर्वकार्योत्पादकत्वम्, स्वज्ञानस्वेतरसमस्तद्रव्यशरीरकत्वम्, स्वतस्सत्य-सङ्कल्पत्वादिकञ्च ईश्वरलक्षणम् । यत्तु जन्मादिसूत्रे जन्मादित्रितयसमाहारो लक्षणमुक्तम्;  तत्र एकैकस्य लक्षणत्वे सम्भवत्यपि त्रयाणाम् त्रयः कर्तार इति कुमतिशङ्काव्यावर्तनाय तदिति मन्तव्यम् । सत्यादिवाक्येऽपि अनन्तपदेनैव सर्वव्यवच्छेदसिद्धौ शङ्कितक्रमेण व्यवच्छेदात् पूर्वविशेषणद्वयम् । एवमन्यत्रापि भाव्यम् ॥ *प्रधानादेरब्रह्मत्वनिरूपणम्* अद्वितीयसमाभ्यधिकदरिद्रत्वश्रवणादसावेकः । स एव ब्रह्म । […]

जीवपरिच्छेदः

॥श्रीः॥ श्रीमते रामानुजाय नमः जीवपरिच्छेदः श्रीन्यायसिद्धाञ्जने द्वितीयो जीवपरिच्छेदः ॥  *जीवस्य लक्षणम् देहव्यतिरेकश्च* अथ जीवः । अल्पपरिमाणत्वे सति ज्ञातृत्वम्, शेषत्वे सति ज्ञातृत्वम्, इत्यादि तल्लक्षणम् । स तावत् न देहः; प्रत्येकसमुदायचैतन्यादिविकल्पा-नुपपत्तेः, शरीरभेद इव अभिप्रायभेदप्रसङ्गात्, ममेति व्यतिरेकप्रत्ययात्  सङ्घातत्वादिहेतुभिश्च । अवयविनश्च दूषितत्वात् । सिद्धावपि तद्गुणस्य कारणगुणपूर्वकत्वप्रसङ्गात् । पाकजगुणवत् परिणामविशेषाभ्युपगमेऽपि प्रत्यवयवम् चैतन्यप्रसङ्गो दुष्परिहरः । अत एव *तेभ्यः चैतन्यम् किण्वादिभ्यो मदशक्तिवत्* […]

जडद्रव्यपरिच्छेदः

न्यायसिद्धाञ्जनम् जडद्रव्यपरिच्छेदः ॥ श्रीः ॥ श्रीमते हयवदनपरब्रह्मणे नमः । श्रीमते रामानुजाय नमः । श्रीमते निगमान्तमहादेशिकाय नमः । श्रीमद्वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे सन्निधत्ताम् सदा हृदि ॥ श्रीमन्निगमान्तमहादेशिकैरनुगृहीतम् ॥ श्रीन्यायसिद्धाञ्जनम् ॥ ॥ जडद्रव्यपरिच्छेदः ॥ श्रीमद्वेङ्कटनायकः श्रुतिशिरस्तात्पर्यपर्याप्तधी- र्लब्धार्थो वरदार्यपादरसिकाद्रामानुजाचार्यतः । बालानामतिवेलमोहपटलावष्टम्भसीदद्द्दृशाम् सम्यक्तत्त्वनिरीक्षणाय तनुते सत्तर्कसिद्धाञ्जनम् ॥ सदसद्भूमिकाभेदैस्तत्तत्सिद्धान्तनाटकैः । उपप्लुतस्य तत्त्वस्य शुद्ध्यर्थोऽयमुपक्रमः ॥ यन्न्यायपरिशुद्ध्यन्ते सङ्ग्रहेण प्रदर्शितम् । पुनस्तद्विस्तरेणात्र प्रमेयमभिदध्महे […]

वचस्सुधाविचारः

॥ श्रियै नमः ॥ ॥ श्रीमते रामानुजाय नमः ॥ पण्डितरत्नम् कुप्पण्णैय्यङ्गार्येण विरचितः वचस्सुधाविचारः अव्यादव्याजकारुण्यनिधिरम्बुजलोचनः । श्रीयादवाद्रिनिलयः श्रीमान्नारायणस्सदा ॥ श्रीभाष्यकारो जयतादपारकरुणानिधिः । यम् भागधेयम् भविनामवतीर्णम् प्रचक्षते ॥ यस्य सूक्तिसुधासार: पायम् पायम् बुधा भुवि । तुष्यन्ति तम् कृपासिन्धुम् भाष्यकारम् भजाम्यहम् ॥ श्रीशैललक्ष्मणमुनेः प्रणम्य चरणद्वयम् । वचस्सुधाविचारोऽयम् क्रियते विदुषाम् मुदे ॥ तत्र तावत् भगवता भाष्यकृता श्रीभाष्ये *पाराशर्यवचस्सुधाम्* इत्यादि […]

பூகோளககோள விஷயம்

ஶ்ரீமதே ராமாநுஜாய நம: அஸ்மத்குருப்யோ நம: (மதுரமங்கலம் எம்பார் திருவேங்கட ராமாநுஜ ஜீயர் அருளிச்செய்தது) பூகோளககோள விஷயம்   ஶ்ரிய:பதியாய் லீலாபோக ஸாதநங்களான விபூதித்வயநாயகனாய், அத்வாரக ஸத்வாரகங்களாலே ஸகல ஜகத்ஸர்கஸ்திதிஸம்ஹாரகர்தாவாய் , ஸர்வாந்தர்யாமியாய், ஸர்வவ்யாபகனாய் ஸர்வஜ்ஞத்வ ஸர்வஶக்தித்வாத்யநந்த கல்யாணகுணங்களுடையனாய் எழுந்தருளியிருக்கும் ஶ்ரீமன்நாராயணன், தந்நோடவிபக்தமாய்க்கிடந்த சித்விஶிஷ்டாசித்தை விபக்தமாக்கி, அண்டகாரணங்களான மஹதாதிகளாக பரிணமிப்பித்து, அண்டத்தைநிர்மித்து, அதில் பத்தாத்மஸமஷ்டி பூதநான ப்ரஹ்மாவைப்படைத்து, அவனுக்கு பூதங்களுடைய நாமரூபக்ருத்யங்களையறிவிக்கிற அநாதியான வேதங்களையுபதேஶித்து, ஸூர்யசந்த்ராதிகளையும், அவர்களுக்கு வாஸஸ்தாநங்களான சதுர்தஶ புவநங்களையும், பூர்வகல்பத்திலிருந்தபடி ஸ்ருஷ்டிக்கும்படி நியமிக்க, அந்நியமநப்படி […]

आनन्दतारतम्यखण्डनम्

श्रीः श्रीमते रामानुजाय नमः श्रीश्रीनिवासविरचितम् आनन्दतारतम्यखण्डनम् शेषाशेषाय निर्दोषगुणभूषाय शेषिणे । निर्मलानन्दनिर्माणधर्मिणे ब्रह्मणे नमः ॥ [आनन्दतारतम्ये युक्तिप्रदर्शनम्]      इह केचिद्देवमनुष्यादीनाम् मुक्तानाम् परस्परमानन्दे तारतम्यम् आचक्षते । तद्धि साधनतारतम्यायत्तम् दुरपह्नवम् । मुक्तिसाधनम् हि ज्ञानम् । तत्तारतम्यम् च लोकत एवावगतम् । देवानाम् च ऋषीणाञ्च बहुतरतपश्चर्याप्रतिपादकपुराणावगतम् च प्रयत्नाधिक्यम्, फलाधिक्य-गमकम् । अन्यथा प्रयत्नानर्थक्यप्रसङ्गात् । फलवता नाम प्रयत्नेन भवितव्यम् । न च […]

ब्रह्मपदशक्तिवादः

॥ श्रीमते रामानुजाय नमः ॥ ॥ श्रीमते रम्यजामातृमुनये नमः ॥ ॥ श्रीमद्वेङकटलक्ष्मणार्यसम्यमिने नमः ॥ श्रीशैललक्ष्मणयतीन्द्रैः विरचितः ब्रह्मपदशक्तिवादः अखिलभुवनबन्धोन्मोचने बद्धदीक्षः प्रकृतिमनपहाय स्वेच्छयेहावतीर्णम्‌। वृषगिरिशिखरस्थैस्सर्वधा भुज्यमानम्‌ कमपि पुरुषमीडे कान्तया नित्यजुष्टम्‌॥ नत्व च यतिवरचरणौ स्मृत्वाऽनन्तार्यपादकाधूलीः। ब्रह्मपदशक्तिवादम्‌ तनुते श्रीशैलयोगिराजसुधीः॥ श्रुतिस्मृतिपुराणज्ञास्सम्प्रदाये सुशिक्षिताः। श्रीशादनन्यागम्‌ प्राहुः ब्रह्मशब्दम्‌ निमित्ततः॥ तदेतदपरिज्ञाय शब्दजालम्‌ प्रयुञ्जताम्‌। मौनमुद्राविधानेन जयत्वेषा कृतिर्मम॥ ब्रह्मशब्दो हि बृहबृहि वृद्धाविति धातोरौणादिककर्त्रर्थकमनिन्प्र-त्ययान्तः। तत्र घातूक्ता वृद्धिर्नाम सूक्ष्मावस्थाप्रहाण-पूर्वकस्थूलावस्थायोग […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.