सारनिष्कर्षटिप्पणी

।। श्री ।। श्रीमते रामानुजाय नमः ॥ सारनिष्कर्षटिप्पणी ॥ सारोक्तसारनिष्कर्षटिप्पणी रच्यते मया । वागाभरणमीमांसाभाष्यसिद्धाञ्जनात्मिका ॥ अथातस्तत्र भगवान्निगमान्तगुरुः सारनिष्कर्षाधिकारे पूर्वाधिकारप्रकृतं रहस्यत्रयस्य सकलनिगमान्तशब्दराशिसारतमत्वं प्रतिष्ठापयितुं तस्य रहस्यत्रयव्यतिरिक्तसर्ववेदान्तभागानामसारत्वादिसिद्ध्यधीनत्वेन, प्रमाणमुखेन तदेतत्सर्वं व्यवस्थापयिष्यन् वक्ष्यमाणार्थं सङ्गृह्णाति – श्रुतिपथविपरीतं क्ष्वेलकल्पं श्रुतौ च प्रकृतिपुरुषभोगप्रापकांशो न पथ्यः । तदिह विबुधगुप्तं मृत्युगीता विचिन्व– न्त्वुपनिषदमृताब्धेरुत्तमं सारमार्याः ॥ इति । अत्रायं वक्ष्यमाणसंग्रहः – अलौकिकार्थानां प्रत्यक्षाद्यपरिच्छेद्यत्वात् शब्दैकसमधिगम्यत्वं सम्प्रतिपन्नं, स […]

कैवल्यशतदूषणी

॥ श्रीः॥ ॥ अथ कैवल्यशतदूषणी ॥ यत्पादपद्मरसिका परिषद्गुरूणा- मात्मानुभूतिमतिदूरतराज्जहाति- तन्नौमि दिव्यपुरुषं वननानराद्यै- र्विस्मारिताभिजनमञ्जनशैललोलम् ॥ यद्गाथया विनिद्रा हेतिवाराद्याः परावनेव्यग्रतं भट्टनाथमीडे केवलकरुणापराधीनम् ॥ लोके समस्तमुनिमानसपद्मकोशा यद्भाष्यभानुपरिरम्भणः स्फुटन्ति । यस्यैवते विकसिताश्च विहारभूमि स्तौ भावये परमहंसवराननन्यौ ॥ कमलनयनकान्ताकामनाकल्पवल्ली परिणतिफलभूतार्यगोष्ठीं विभाव्य। प्रतिमतशतदूषण्युग्रकैवल्यचिन्तां कलयति कुतुकाच्छीशैलयोगीशदासः  ॥ तत्र तावद् भवदहनदन्दह्यमानसकल जीवसंजीवनोपदेशा भट्टनाथपराङ्कुशादयः कैवल्यमेव प्रथमत स्त्याजयन्ति। तत्र च निदानं तन्नित्यानिबन्धनं निरतिशयक्रौर्यमेव । तत्र […]

शरणशब्दार्थविचारः

श्रीमते रामानुजाय नमः शरणशब्दार्थविचारः आचार्यं वेङ्कटार्यं परमगुरु मथाचार्यवर्या नशेषान् सौम्यं जामातृसूरिं भुवनगुरुवरं भट्टरामानुजार्यौ। श्रीमन्तं यामुनार्यं तदनुमुनिवरं नाथसंज्ञं शठारिं सेनेशश्रीतदीशा ननवरत महं चेतसा चिन्तयामि॥१॥ श्रुत्वा जगद्देशिकसम्प्रदायं बुद्ध्वा च वेदान्तगुरोः प्रबन्धान्। द्वयाद्यखण्डेशरणाख्यशब्दे विचार्यतेऽर्थो विदुषां मुदेऽद्य॥२॥ तत्र भवन्तो लोकाचार्याः मुमुक्षुप्पडिसमाख्याने रहस्यत्रयव्याख्याने द्वयस्थशरणशब्दम्, “इष्टप्राप्तिक्कु मनिष्टनिवारणत्तुक्कुम् तप्पात उपायमाक” (मुमुक्षुप्पडि-२-३४) इति व्याचख्युः। तत्र विचार्यते – किमत्र शरणशब्दप्रवृत्तिनिमित्ततयाऽभिप्रेत मुपायत्वम्; – न तावद्रक्षकत्वम्; […]

தஶமத தர்ஶிநீ

ஶ்ரீமதே ராமாநுஜாய நம: ஶ்ரீமதே வரவரமுநயே நம: அஸ்மத்குருப்யோ நம: (மதுரமங்கலம் எம்பார் திருவேங்கட ராமாநுஜ ஜீயர் அருளிச்செய்தது) || தஶமத தர்ஶிநீ || பகவதவதாரமான ஶ்ரீவேதவ்யாஸ பகவான் வேதஸம்ப்ரதாயத்தை ப்ரவர்திப்பித்து வேதார்த நிர்ணயார்தமாஹ ஸ்வஶிஷ்ய ஜைமினிமுகத்தாலே கர்மகாண்ட, தேவதாகாண்டங்களையும், ஸ்வயமேவ ப்ரஹ்மகாண்டத்தையும் நிர்மித்தான். அதில் ஸகலதேவதாந்தர்யாமியாய் ப்ரஹ்மஶப்தவாச்யனான விஷ்ணுவே ஸாக்ஷாத்வா ப்ரம்பரயா வா ஸர்வகர்மஸமாராத்யனென்ரும் கர்மஸ்வரூபபேதததங்காதிகளின்னதென்றும் தேவதாஸ்வரூபபேத ததுபாஸநாதிகளின்னதென்றும் கர்மகாண்ட, தேவதாகாண்டங்களில் சொல்லித்து. கர்மான்வித தேவதைகளுக்கு சைதந்யவிக்ரஹாதிகளில்லையென்ரும், ஜீவாதிரிக்த பரமாத்மாவில்லையென்ரும் கர்மஜன்யாபூர்வமே பலஸாதனமென்ரும் ஜகத்து ப்ரவாஹரூபேண […]

नायमात्मा भाष्यम्

श्रीः श्रीमते रामानुजाय नमः मोर्‌मुन्नारय्यपरनामधेय वरदाचार्येण कृता नायमात्मेति श्रुतिव्याख्या नायमात्मा भाष्यम् “नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन। यमेवैष वृणुते तेन लभ्य स्तस्यैष आत्मा विवृणुते तनूं स्वाम्” (कठोपनिषत्-२-२३) इति श्रुतिः। अस्या स्त्वर्थोद्वेधा भाष्यकारै रभिहितः। साधनलक्षणस्य द्वितीयचरणे “परमतस्सेतून्मान” (शा-मी-३-२-३०) इत्याद्यधिकरणे “उपपत्तेश्च” (शा-मी-३-२-३४) इति सूत्रस्य विषयत्वेन इमां श्रुतिमुदाहृत्य अस्या अर्थ स्सङ्ग्रहेण “अनन्योपायत्व श्रवणात्” इत्युक्तः; प्रथमसूत्रे परमपुरुषवरणीयताहेतुगुणविशेषपरत्वेन […]

सिद्धान्ततूलिका

॥ श्रीः ॥ ॥ श्रीमते रामानुजाय नमः ॥ ॥ श्रीमते रम्यजामातृमनये नमः ॥ ॥ श्रीमन्महागुरवे नमः ॥ ॥ श्रीमद्वेङ्कटलक्ष्मणार्य सम्यमिने नमः ॥ श्रीमद्वेङ्कटलक्ष्मणार्यसम्यमीन्द्रैः अनुगृहीता सिद्धान्ततूलिका प्रथमः परिच्छेदः वरवरमुनिवरचरणो तरुणसरोजातजठरकमनीयौ । अपि मम शिरस्यकस्मात् करुणापरिणामदापितौ कलये ॥ मुमुक्षोः मोक्षार्थ प्रमाणसारेण प्रमेयसारनिर्णयः कर्तव्यः । तत्र धर्मज्ञसमय एव सारभूतम् प्रमाणम् । स्वतः प्रमाणस्य वेदस्यापि तत्सापेक्षत्वात् । तदुक्त-मापस्तम्बेन – *धर्मज्ञसमयः […]

मुक्तिपदशक्तिवादः

श्रीः श्रीमते रामानुजाय नमः श्रीमते रम्यजामातृमुनये नमः श्रीमद्वेङ्कटलक्ष्मणार्यसंयमिने नमः श्रीमद्वेङ्कटलक्ष्मणार्यसंयमीन्द्रैः अनुगृहीतः मुक्तिपदशक्तिवादः अञ्जनघनमदभञ्जनमपि च कयाचित्सुरञ्जितं कलया। अञ्जनविधुरदृगञ्जनमञ्जनगिरिरञ्जनं भजे भावुकम्।। (1) निजगळवकुळगळन्मधुललितकलालापनिगळितश्रीशम्। करकलितबोधमुद्रं किमपि विनिद्रं समाश्रये भद्रम्।। (2) निगमयुगलसारौ श्रावितौ येन धाम्ना परमपि परतन्त्रं पात्रमेवोपकल्प्य। तदिह निखिलरक्षादीक्षितं नौमि नत्वा वरवरयतिवर्येत्यादिनामाभिलापैः।। (3) कलशजलधिकन्याकान्तवीक्षामृतौघैः अनुकलमभिषिक्तामार्यगोष्ठी विभाव्य। विपुलमिह विचारं मुक्तिशब्दस्य शक्तेः कलयति कुतुकाच्छ्रीशैलयोगीशदासः ॥ (४)       अत्र तावन्मुक्तिशब्दशक्तिः विचार्यते। […]

प्रपत्त्यनुपायत्व विचारः

श्रीमते रामानुजाय नमः श्रीमद्वेदमार्ग प्रतिष्टापनाचार्योभयवेदान्त प्रवर्तन धुरीणराय् . श्रीमत्परमहंस परिव्राजकाचार्य वर्यरान ऎम्बार् जीयर् स्वामि ऎन्नुम् . तिरुवेङ्गडरामानुजस्वामि अरुळिच्चॆय्त प्रपत्त्यनुपायत्व विचारः आत्मना मात्मरक्षार्थ मस्थानभयवारकः। अव्या दव्याजबन्धोर्न स्सेव्य स्सेव्येतरः करः॥ स्थितंताव दनालोचित विशेषाशेषलोकशरण्य श्श्रीनिधिरेव सकलजीव सञ्जीवनोपाय इति निखिल निगम तात्पर्य पर्यवसान भूमिरिति; अथ तन्निष्ठानां तच्चरणशरणवरणमधिकारि विशेषणमात्र मित्यभिधीयते। तदिद मगायि गीताचार्येण-([1]१ गी-१८-६६) “अहंत्वा सर्वपापेभ्यो मोक्षयिष्यामि माशुचः” इति। अस्य […]

यतीन्द्रमतदीपिका

श्रीः श्रीमते रामानुजाय नमः   श्रीमद्वाधूलकुलतिलक-श्रीमन्महाचार्य-प्रधानशिप्य-श्रीनिवासाचार्य-विरचिता यतीन्द्रमतदीपिका प्रथमोऽवतारः उपोद्धातः श्रीवेङ्कटेशम् करिशैलनाथम् श्रीदेवराज घटिकाद्रिसिम्हम् । कृष्णेन साकं यतिराजमीडे स्वप्ने च दृष्टान् मम देशिकेन्द्रान् ।। १ ।। यतीश्वरम् प्रणम्याहम् वेदान्तायम् महागुरुम् । करोमि बालबोधार्थम् यतीन्द्रमतदीपिकाम् ।।२।। १. श्रीमन्नारायण एव चिदचिद्विशिष्टाद्वैततत्त्वम् भक्तिप्रपत्तिभ्याम् प्रसन्नः स उपायः, अप्राकृतदेशविशिष्ठ: स एव प्राप्य इति वेदान्तवावयैः प्रतिपादयताम् श्रीव्यासबोधायन-गुहदेवभारुचिब्रह्मनन्दिद्रमिडाचार्य श्रीपराङ्कुशनाथयामुनमुनियतीश्वरप्रभृतीनाम् मतानु- सारेण बालबोधार्थम् वेदान्तानुसारिणी […]

सर्वसिद्धान्त सङ्ग्रह

सर्वसिद्धान्त सङ्ग्रह ‌‌‌शङ्कराचार्यविरचित अथ उपोद्गातप्रकरणम् ।‌‌ वादिभिर्दर्शनैः सर्वैर्दृश्यते यत्त्वनेकधा । वेदान्तवेद्यं ब्रह्मेदमेकरूपमुपास्महे ॥ १ ॥ अङ्गोपाङ्गोपवेदाः स्युर्वेदस्यैवोपकारकाः । धर्मार्थकाममोक्षाणामाश्रयाः स्युश्चतुर्दश ॥ २ ॥ वेदाङ्गानि षडेतानि शिक्षा व्याकरणं तथा । निरुक्तं ज्योतिषं कल्पश्छन्दोविचितिरित्यपि ॥ ३ ॥ मीमांसा न्यायशास्त्रं च पुराणं स्मृतिरित्यपि । चत्वार्येतान्युपाङ्गानि बहिरङ्गानि तानि वै ॥ ४ ॥ आयुर्वेदोऽर्थवेदश्च धनुर्वेदस्तथैव च । गान्धर्ववेदश्चेत्येवमुपवेदाश्चतुर्विधाः ॥ ५ […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.