शतदूषणी अहमर्थात्मत्वसमर्थनवादः(26)

शतदूषणी ।।अथ अहमर्थात्मत्वसमर्थनवादः षड्विंशः ।।26।। अहंत्वेदंत्वाभ्यां स्वपरविदितांश्चेतनगणानहङ्कारादीनप्यचिदुपधिभेदाननहमः । अहन्ता यस्यैका कबलयति वैशिष्ट्यविभवान्ममास्मिन्विश्राम्यत्वहमिति मतिर्विश्ववपुषि ।। यदुच्यते – अहमर्थो नात्मा, सुषुप्तिमोक्षयोरननुवर्तमानत्वात् । मोक्षे न तदनुवृत्तावज्ञत्वादिप्रसङ्गाच्च । अतश्चैतन्यमात्रमात्मा । तत्रानिदमि चैतन्ये निरुपाधिरहंभ्रमः। कर्तृत्वादिस्तु सोपाधिः सर्पलोहित्यवत्क्रमादिति । अत्र ब्रूमः-सुषुप्तौ तावदहमर्थाननुवृत्तौ पुनः प्रतिसन्धानानुपपत्तिप्रसङ्गः । न ह्यहमर्थान्तरेणानुभूतमर्थमहमर्थान्तरं स्मर्तुमलम्, अतिप्रसङ्गात् । सुषुप्तावपि तदनुवृत्तौ तदानीमपि तत्प्रकाशप्रसङ्ग इति चेन्न; विद्यमानस्य प्रकाशनियमानभ्युपगमात् । तदानीमप्रकाशेऽपि तदनुवृत्तौ […]

शतदूषणी संविदात्मत्वभङ्गवादः(25)

शतदूषणी ।।अथ संविदात्मत्वभङ्गवादःपञ्चविंशः ।।25।। अन्योन्यव्यतिरिक्तयोरविजहद्धर्मत्वधर्मित्वयोर्व्यापारे गृहमेधिनोरिव ययोः साहित्यमासूत्र्यते । सा संवित्सकलार्थसाधकवपुस्तत्सिद्धभोगः प्रभुः, श्रीमानस्तु स मे समस्तदुरितोत्ताराय नारायणः ।। यदुच्यते – संविदात्मा अजडत्वात्, यदुक्तसाध्यं न भवति तदुक्तसाधनमपि न भवति, यथा घटः, इति; तदसत्; स्वस्मै भासमानत्वरूपस्याजडत्वस्य हेतोरसिद्धेः । अव्यभिचरितप्रकाशसत्ताकत्वस्यसुखादिभिर्व्यभिचारात् । तेषामपि संविद्वयतिरेकस्यानात्मत्वस्य च सौगतसुहृदा त्वयाऽप्यपरित्यागात् । सजातीयनैरपेक्षयादेरपि दीपादिभिर्घटादिभिरपि वा व्यभिचारत् । सर्वथा सजातीयनिरपेक्षप्रकाशत्वस्यपक्षेऽप्यसिद्धेः । सा खल्वात्मसम्बन्धसापेक्षप्रकाशा । […]

शतदूषणी निर्विशेषत्वानुमानभङ्गवादः(24)

शतदूषणी ।।अथ निर्विशेषत्वानुमानभङ्गवादः चतुर्विंशः ।।24।। विभूतिगुणवर्गेण विशिष्टं यमधीमहे । अप्रतर्क्यविशेषाय तस्मै भगवते नमः ।। यदाहुः – अनुभूतिर्निर्विशेषा, अनुभूतित्वात्, यत्सविशेषं न तदनुभूतिः, यथा घटः, अनुभूतेस्सविशेषत्वे घटवदननुभूतित्वप्रसङ्ग इति । अत्र तावत्प्रतिज्ञायां निर्विशेषपदमनुभूतिपदप्रतिपन्नादधिकार्थबोधकम्? न वा? पूर्वत्र तेनैवानुभूतिरितिवदनधिकार्थत्वेन पुनरुक्तिनिग्रहापत्तिः । समस्तविशेषाभाव एव तेन प्रतिपाद्यत इति चेन्न; उक्तोत्तरत्वात् । तथा हि । स किमनुभूतिस्वरूपमेव? ततोऽतिरिक्तं वा किंचित्? पूर्वत्र पुनरुक्तिः, सिद्धसाधनता […]

शतदूषणी संविन्नानात्वनिषेधकानुमानभङ्गवादः(23)

शतदूषणी ॥अथ संविन्नानात्वनिषेधकानुमानभङ्गवादः त्रयोविंशः ॥23॥ प्रतिपुरुषमनेकाः प्रत्यवस्थं विचित्राश्शुभगतिषु धियो यश्चोदयत्यञ्जसा नः । अखिलचिदचिदन्तर्यामि तद्विष्णुसंज्ञं सवितुरहमुपासे तस्य देवस्य भर्गः ॥ यदाहुः – अनुभूतिर्न नाना, अजत्वात्; यन्नाना तज्जायते, यथा घटः । दृश्यमानस्तु संविद्भेदो विषयाश्रयादिभेदोपाधिकत्वान्न स्वाभाविकः, घटाकाशतरङ्गचन्द्रपराभिमतसमवायादिभेदवत् । अन्यथा कल्पनागौरवप्रसङ्गादिति । तदसारम्; किमत्र यतःकुतश्चिदपि भेदो निषिध्यते? उतसंविज्जातीयमात्रात्? अथ संवित्स्वरूपात्? उत संविदन्तरात्? अथवा संवित्सजातीयराहित्यं साध्यत इति । न प्रथमः, […]

शतदूषणी संविन्निर्विकारत्वानुमानभङ्गवादः(22)

शतदूषणी ।।अथ संविन्निर्विकारत्वानुमानभङ्गवादः द्वाविंशः ।।22।। परिणमयति विश्वं यस्स्वयं निर्विकारः परिणमति च योऽसौ तत्तदर्थान्तरात्मा । विषमविषयतृष्णाधन्वकान्तारजातं व्यपनयतु भयं मे विश्वजिष्णुस्स विष्णुः ।। यदुच्यते – अनुभूतिर्निर्विकारा, अनुत्पन्नत्वात्, यदुक्तसाध्यं न भवति तदुक्तसाधनमपि न भवति, यथा घटादिरिति । तत्र संविदुत्पत्त्यादिसमर्थनादसिद्धिबाधौ सुगमौ । किंच किमिदं निर्विकारत्वं नाम? किमुत्तारवधिराहित्यम्? उत घटादिवन्नामान्तरव्यपदेशार्हावस्थाविशेषराहित्यम्? उतावस्थामात्रराहित्य मिति । नाद्यः, अनुत्पन्नेन प्रागभावेनोत्तरावधिमता व्यभिचारात् । भावरूपाज्ञानेन न […]

शतदूषणी संविदनुत्पत्तिदूषणवादः(21)

शतदूषणी ।।अथ संविदनुत्पत्तिदूषणवादः एकविंशः ।। 21।। विविधविषयाकृष्टैर्वागादिभिस्सुलभागसां स्वयमुपनतं स्वान्तर्घ्वान्तं चिरस्य निरस्य नः । भगवति हरौ प्रत्यक्तत्वान्तरात्मनि निर्भरप्रसृमरसुधाधाराकारा प्रसीदतु शेमुषी ।। ये तु स्ववचनविरोधजालमप्यवधीरयन्तः सर्वसाक्षिकामपि संविदुत्पत्तिं प्रतिक्षिपन्ति, तान्प्रति ब्रूमः । किं घटादिविषयप्रकाशात्मिकाया एव संविद उत्पत्तिः प्रतिक्षिप्यते? उत सकलविषयविरक्तायाः कस्याश्चिदन्यस्याः? नाद्यः, घटादीनामप्यनुत्पत्तिमत्त्वप्रसंगात् । नहि तदुत्पत्तेः प्रागेव तद्विषया प्रत्यक्षसंविदस्मदादीनां सम्भवति । अन्यथाऽस्मदादीनामपि सर्वदा सर्वज्ञत्वप्रसङ्गात् । ननु पूर्वं स्वरूपेणावतिष्ठते, […]

शतदूषणी अवेद्यत्वभङ्गवादः(20)

शतदूषणी ।।अथ अवेद्यत्वभङ्गवादः विंशः ।। 20 ।। श्रुतिगणशिरोनिष्णातानां स्वसत्त्वमभीप्सतां श्रवणमननध्यानैरध्यक्षतश्च चकास्ति यत् । अमतमिति यद्भूम्ना मन्तव्यतामवगाहते भवभयतमःप्रत्यासेधं भजेमहि तन्महः ।। यदाहुः – अनुभूतिस्स्वयंप्रकाशा, अनुभूतित्वात्, “अनुभूतेरनुभाव्यत्वे घटादिवदननु भूतित्वप्रसङ्ग” – तत्र तावदनुभूतिशब्दस्यार्थावगतिहेतुत्वे व्याघातःअहेतुत्वेऽपि पुनर्व्याधात इत्याबालगोपालमुपलभ्यम् । स्वयं प्रकाशे इत्यनेन किं स्वव्यवहारे स्वाश्रयस्य कदाचित्स्वगोचरानु भूत्यन्तरनैरपेक्ष्यमात्रं साध्यते? उत सर्वदा सर्वस्य स्वगोचरानुभूतिविरहः? नाद्यः, सिद्धसाधनात् । वयमपि संविदो विषयप्रकाशनवेलायां स्वाश्रयं प्रति […]

शतदूषणी ब्रह्माश्रयाज्ञाननिरासवादः(19)

शतदूषणी ।। अथ ब्रह्माश्रयाज्ञाननिरासवादः एकोनविंशः ।।19।। अनन्यचेतसां पुंसामज्ञानमवधून्वते । निरस्ताज्ञानगन्धाय नित्यं सर्वविदे नमः ।। अहङ्काराभिव्यङ्ग्यत्वं दूषयद्भिर्भाष्यकारैरज्ञानाश्रयत्वमपि संविदो निरस्तम् “न च संविदाश्रयत्वमज्ञानस्ये”त्यादिना । अविद्याश्रयविकल्पे चोक्तम् – “नापि ब्रह्माश्रित्य, तस्य स्वप्रकाशज्ञानरूपत्वेनाविद्याविरोधित्वात् इत्यादिना” । प्रदेशान्तरेषु च सर्वज्ञत्वनिर्दोषत्वादि श्रुतिशतैर्विरोधो दर्शितः तत्सर्वं सङ्कलस्य व्याकुर्मः । यद्यसौ परमात्मा त्वदुक्तप्रकारेण संविन्मात्रस्वरूपः, यदि वा यथाश्रुति सर्वज्ञः, नोभयधाऽपि तस्याज्ञानाश्रयत्वं संभवति । तथा हि – […]

शतदूषणी बाह्यप्रकाशानुपपत्तिवादः(18)

शतदूषणी ।।अथ बाह्यप्रकाशानुपपत्तिवादः अष्टादशः।।18।। अज्ञानसन्तमसमाश्रयणोन्मुखानां संवित्प्रदीपमहसा सहसा निरुन्धन् । विद्यास्वयंवरपतिर्व्यपहन्त्वविद्यां सर्वानुभूस्स भगवान्पुरुषोत्तमो नः ।। यत्तद्भावरूपाज्ञानदूषणसमये “नित्यमुक्तस्वप्रकाशचैतन्यैकस्वरूपस्य ब्रह्मणोऽज्ञानानुभवश्च न संभवतीत्या”दिभाष्यम्, तत्र बाह्यप्रकाश एव सर्वः परपक्षे न संभवतीत्यभिप्रेतम् । तद्धाकुर्मः । यदुच्यते – “नित्यमुक्तं ब्रह्मैव स्वगतानाद्यविद्यामनुभवती”ति,कथमिदमुपपद्यते? बन्ध (न) स्यानाद्यविद्यातत्कार्यानुभवात्मकत्वान्मोक्षस्य च तन्निवृत्तिरूपत्वात् । – “नित्यमुक्तस्य बन्धश्चेन्नित्यमुक्तिर्न संभवेत् । बन्धस्यापि च नित्यत्वाद्बन्धाभावे त्वमुक्तता” । ननु भवन्मतेऽप्य ज्ञानमस्त्येव, तच्च सर्वज्ञेनानुभूयते, […]

शतदूषणी दृश्यसम्बन्धानुपपत्तिपरिहारवादः(17)

शतदूषणी ।। अथ दृश्यसम्बन्धानुपपत्तिपरिहारवादः सप्तदशः ।।17।। बिभ्राणमात्मनि सदा महतीं विभूतिं देहेन तन्मयनिदर्शितभूषणास्त्रम् । आलिङ्गितं कमलया मम चित्तवृत्तेरालम्बनं भवतु दैवतमद्वितीयम् ।। यत्तु – आत्मख्यातिवादिभिरार्जितं ग्राह्यलक्षणायोगाख्यं तर्कं भिक्षित्वा दृग्दृश्ययोस्सम्बन्धानुप पत्तिरिति नामान्तरेण पठन्ति; तदपि सम्बन्धस्याबाधितप्रत्यक्षसिद्धत्वादेव निरस्तम् । आहुश्च – “उक्तं तु सौगतैर्ग्राह्यलक्षणाभावलक्षणम् । अन्ये दृग्दृश्यसम्बन्धाभावमाहुर्निरासि तत्” । इति । ननु कोऽसौ सम्बन्धः? न तावत्संयोगःदृशेरद्रव्यत्वात् । द्रव्यत्वाभ्युपगमेऽपि गुणादिभिस्सह तत्सम्बन्धस्य […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.