यादवाभ्युदयः सर्गः-14
श्री:कवितार्किकसिंह-सर्वतन्द्र-स्वतन्त्र श्रीमद्वेदान्तदेशिक विरचितं महाकाव्यम् ।। यादवाभ्युदयः ॥ चतुर्दशः सर्गः 14.1 अथैकदा रोधसि पश्चिमोदधेरदभ्रसत्राजितभक्तियन्त्रितः । त्रयीमयश्चन्द्रसमीकृतद्युतिः प्रसेदिवान् प्रादुरभूत् दिवाकरः (प्रभाकरः?) ॥ १ ॥ 14.2 अनल्पतेजोनिधिमप्रमाद्यतां प्रसूतिमिष्टस्य धनस्य भूयसः । स्वकण्ठलग्नं द्युमणिः स्यमन्तकं महामणिं भूमिभृते वरं ददौ ॥ २ ॥ 14.3 तमुग्रसेनार्थमियेष कंसजित् न वार्यते राजनि रत्नहारिता । प्रतीत्य सत्राजित एतदप्रियं क्वचिन्निचिक्षेप गुणाधिके(कं?) मणिम् ॥ ३ ॥ […]
यादवाभ्युदयः सर्गः-13
श्री:कवितार्किकसिंह-सर्वतन्द्र-स्वतन्त्र श्रीमद्वेदान्तदेशिक विरचितं महाकाव्यम् ।। यादवाभ्युदयः ॥ त्रयोदशः सर्गः 13.1 प्रसादभाजः प्रतिनिर्गतां तां प्रासादतो वासववल्लभायाः । समग्रशक्तिः समयोपयातः प्राणेश्वरीं प्राप्तुमियेष शौरिः ॥ १ ॥ 13.2 तामद्भुतां सिद्धिमिवाद्भुतानां सौभाग्यविद्यामिव सद्गुणानाम् । सत्तामनन्यामिव सद्गुणानां यथाश्रुतं प्रैक्षत यादवेन्द्रः ॥ २ ॥ 13.3 अङ्गैरवज्ञातकदम्बगोलैरस्पन्दमन्देन विलोचनेन । लीलोपशान्त्या लिखितेव साऽभूत् दामोदरे दृष्टिपथं प्रयाते ॥ ३ ॥ 13.4 पद्माकराणां परिषन्निवेशे पर्याप्तचन्द्रायुतकान्तिपू(सा)रे […]
यादवाभ्युदयः सर्गः-12
श्री:कवितार्किकसिंह-सर्वतन्द्र-स्वतन्त्र श्रीमद्वेदान्तदेशिक विरचितं महाकाव्यम् ।। यादवाभ्युदयः ॥ द्वादशः सर्गः 12.1 तथाविधानन्दमहापयोधेस्तरङ्गवृत्त्या भजतोवतारान् । अशेषरूपेष्वनुरूपरूपा देवी जगन्नेतुरनुप्रजज्ञे ।। 12.2 सा तस्य नित्योदितदिव्यधाम्नः पत्युः प्रिया भानुमतः प्रभेव । अध्यासितुर्द्वारवतीमदूरात् व्यक्तिं शुभां प्राप विदर्भदेशे ।। 12.3 शिखण्डकं निष्प्रतिमं श्रुतीनां शृङ्गारलीलोपमविश्वकृत्यम् । अधीयते तन्मिथुनं स्वभावादन्योन्यजीवातुमनन्यभोग्यम् ।। 12.4 दयेव नित्यं दयिता त्रिधाम्नः सर्वेषु भावेषु समानभावा । परावराणां जननी प्रजानामासीत् विदर्भाधिपतेरपत्यम् […]
यादवाभ्युदयः सर्गः-11
श्री:कवितार्किकसिंह-सर्वतन्द्र-स्वतन्त्र श्रीमद्वेदान्तदेशिक विरचितं महाकाव्यम् ।। यादवाभ्युदयः ॥ एकादशः सर्गः 11.1 तदद्भुतं क्रीडितकं क्रमेण श्रुत्वा हरेरप्रतिमानशक्तेः। महाबलान् कंसवधादिजन्मा मन्युः प्रपेदे मगधेन्द्रमुख्यान् ।। 11.2 गोपालडिम्भो नरपालहन्ता कुले यदोरञ्चितमातपत्रम्। अन्यच्च भूम्यामधरोत्तरत्वं हन्तेति वादान् प्रभूरभ्यनन्दत् ।। 11.3 हलादिभिर्हेतिवरैर्यथार्हं रथाङ्गमुख्यैरपि रामकृष्णौ । स्ववृत्तियोग्यावसरोपयातैः प्राचीं श्रियं प्रदुरभावयेताम्।। 11.4 स दैत्यजित् वध्यवरूथिनीनां संप्रापकं सारथिमात्रश्षम् । पुनः प्रवृत्तानुशयं पुरीं स्वां निन्ये जरासंधम् अहार्यसंधः।। […]
यादवाभ्युदयः सर्गः-10
श्री:कवितार्किकसिंह-सर्वतन्द्र-स्वतन्त्र श्रीमद्वेदान्तदेशिक विरचितं महाकाव्यम् ।। यादवाभ्युदयः ॥ दशमः सर्गः 10.1 ततस्तौ ददृशुस्तत्र विशन्तौ राजवीथिकाम् । पूर्णदृष्टिफलाः पौराः पुण्यैरेकमुखैरिव ।। 10.2 चक्षुषामिव भाग्येन संप्रवृत्तौ महोत्सवौ । युक्तौ मदनशक्त्येव युगपन्मधुमाधवौ ।। 10.3 अभिख्यावीचिविक्षेपैरपृथग्भावचित्रितैः। समेतैरनुभावाद्यैः सक्ताविव रसोत्तमौ ।। 10.4 क्रममुल्लङ्घ्यभूतानां भोगमोक्षाविवोद्गतौ । तयोरेव विनिष्पत्त्यै धर्माविव च तादृशौ ।। 10.5 पुनन्तौ भुवनं पादैः पुष्पवन्ताविवापरौ । सिञ्चन्तौ कान्तिवर्षेण सितकृष्णाविवाम्बुदौ ।। […]
यादवाभ्युदयः सर्गः-9
श्री:कवितार्किकसिंह-सर्वतन्द्र-स्वतन्त्र श्रीमद्वेदान्तदेशिक विरचितं महाकाव्यम् ।। यादवाभ्युदयः ॥ नवमः सर्गः 9.1 अथ भोजपतिर्जगत्पतेरवतारं भुवि नारदान्मुनेः। श्रुतवान् अतिदेवदानवं व्यथया पीतविषोपमोभवत् ।। 9.2 निहता पृथुकेन पूतना शकटं तत् परिवर्तितं महत् । ककुभद्वितयं निपातितं प्रहितः क्वापि निपीड्य कालियः।। 9.3 स च गोमुखवर्धनो दधे गमितः क्षोदमरिष्टपर्वतः। प्रथितश्च बलः प्रलम्बजित् निधनं धेनुकदानवो गतः।। 9.4 दवहव्यवहश्च जग्रसे विषधृत् विन्ध्यसमो विदारितः। इति वाम […]
यादवाभ्युदयः सर्गः-8
श्री:कवितार्किकसिंह-सर्वतन्द्र-स्वतन्त्र श्रीमद्वेदान्तदेशिक विरचितं महाकाव्यम् ।। यादवाभ्युदयः ॥ अष्टमः सर्गः 8.1 अथ प्रसूनायुधभागधेयान्यारब्धमन्दानिलसौतिकानि । मधुप्रसङ्गान्मधुराणि यूनामनुष्णशीतान्यभवन् दिनानि ।। 8.1 अनेकरूपैः स्वयमेकरूपः कालात्मकं रूपमकालकाल्यः। ऋतुप्रभेदैरनुभूय रेमे रामासखो राममनुप्रयातः।। 8.3 हेमन्तपूर्वः शिशिरान्तिमश्च शरच्च संभूय वसन्तवृत्त्या । शनैश्शनैः शान्तिमुपेयिवांसस्तद्वैभवातं तन्मयतामिवा पुः।। 8.4 प्रायेण पञ्चायुधपञ्चवक्त्रः पलाशकोशाकृतिमाददानैः। मनस्विनीमानगजेन्द्रभेदात् सशोणितैः पाणिरुहैश्चकाशे ।। 8.5 जगन्ति पुण्ड्रेक्षुशरासनेन प्रसूनबाणैरपि जेतुमिच्छोः। असूचयन् आत्मभुवः स्वनादैरव्याहतामाशिषमन्यपुष्टाः ।। 8.6 […]
यादवाभ्युदयः सर्गः-7
श्री:कवितार्किकसिंह-सर्वतन्द्र-स्वतन्त्र श्रीमद्वेदान्तदेशिक विरचितं महाकाव्यम् ।। यादवाभ्युदयः ॥सप्तमः सर्गः 7.1 व्रजौकसो विस्मयमन्थराक्षा बालार्कवर्णं वसनं वसानम् । श्यामं युवानं शतपत्रनेत्रं शैलोदितं देवमथोपसेदुः ।। 7.2 यमाहुरन्तर्बहिरप्यलक्ष्यं योगेश्वरं योगिभिरेव दृश्यम् । तमद्रिशृङ्गे समुदीक्षमाणा गोपं सतां गोपगणाः प्रणेमुः।। 7.3 स तान् अशेषान् सुधयेव दृष्ट्या प्रहर्षयन् प्रत्ययितप्रसादः। सरामकृष्णान् सनकादिगम्यः स्वामी सतां स्वागतमन्वयुङ्क्त ।। 7.4 शरत्प्रवृत्त्येव शशाङ्कभासो वाचा हरेर्गोपधियः प्रसन्नाः । मिथोविमर्शेः […]
यादवाभ्युदयः सर्गः-6
श्री:कवितार्किकसिंह-सर्वतन्द्र-स्वतन्त्र श्रीमद्वेदान्तदेशिक विरचितं महाकाव्यम् ।। यादवाभ्युदयः ॥ षष्ठः सर्गः 6.1 शमयता पुरुहूतमहोत्सवं व्रजपतिः सह वल्लवयूथपैः। निभृतमञ्जुगिरा निजसूनुना निजगदे जगदेककुटुम्बिना ।। 6.2 विदितवानिव विज्ञपयाम्यहं शृणुत मे शकुनेरिव भाषितम् । पृथुकबुद्धिरहं पृथुचेतसः प्रभवतो भवतो न हि शिक्षये ।। 6.3 निगमदृष्टमिदं निखिलेन वः क्वचन विश्वतनौ पुरुषे स्थिते । य इह यामुपजीवति तत्तनुं स हि तया हितया भुवि नाथवान् […]
यादवाभ्युदयः सर्गः-5
श्री:कवितार्किकसिंह-सर्वतन्द्र-स्वतन्त्र श्रीमद्वेदान्तदेशिक विरचितं महाकाव्यम् ।। यादवाभ्युदयः ॥ पञ्चमः सर्गः 5.1 ततः समानीतरसालपाकः संवीजयन् पाटलगन्धवाहैः। निरूढमल्लीविभवो निदाघः सीरायुधं शौरिसखं सिषेवे ।। 5.2 अबिभ्रतीनां कुचकुम्भकक्ष्यामालिप्तकर्पूरहिमोदकानाम् । स सुभ्रुवां देहगुणेन यूनामासीत् वसन्तादपि माननीयः ।। 5.3 विहारयूना भजता स्वयं तत् व्रजाङ्गनाविभ्रमकिंकरत्वम् । नितान्तधन्याः स्वगुणैरभूवन् निर्विश्यमाना ऋतवः क्रमेण ।। 5.4 कृतावसेका इव कृष्णगीतैर्वनद्रुमा वर्धिततुङ्गशृङ्गाः । अयत्नलब्धानि गवां बभूवुः स्थायीनि वर्षातपवारणानि […]