यादवाभ्युदयः सर्गः-4
श्री:कवितार्किकसिंह-सर्वतन्द्र-स्वतन्त्र श्रीमद्वेदान्तदेशिक विरचितं महाकाव्यम् ।। यादवाभ्युदयः ॥ चतुर्थः सर्गः 4.1 मनीषितं कैतवमानुषस्य श्रुत्वा भयक्रोधपरिप्लुतात्मा । कंसश्चिरं प्राग्भवकालनेमिः चिन्तार्णवे मग्न इवावतस्थे ।। 4.2 सदुर्दमानासुरसत्त्वभेदान्नेता समाहूय नृशंसचेताः । प्रस्थापयामास परैरधृष्यं नन्दास्पदं नाथविहारगुप्तम् ।। 4.3 कदिचिदन्तर्हितपूतनात्मा कंसप्रयुक्ता किल कापि माया । निद्रापराधीनजने निशीथे व्रजं यशोदाकृतिराविवेश ।। 4.4 स्तन्येन कृष्णः सह पूतनायाः प्राणान्पपौ लुप्तपुनर्भवायाः। यदद्भुतं भावयतां जनानां स्तनंधयत्वं न […]
यादवाभ्युदयः सर्गः-3
श्री:कवितार्किकसिंह-सर्वतन्द्र-स्वतन्त्र श्रीमद्वेदान्तदेशिक विरचितं महाकाव्यम् ।। यादवाभ्युदयः ॥ तृतीयः सर्गः 3.1 अथ जगन्ति बभूवुरनाविलान्यतिमिरा हरितः प्रचकाशिरे। अभजदेव निशा दिवसश्रियं जननभाजिनि देवदिवाकरे ।। 3.2 ननृतुरप्सरसो दिवि नन्दिताः किमपि गीतमगीयत किन्नरैः । श्रुतिसुखैः समतोषयत स्वनैरमरदुन्दुभिरानकदुन्दुभिम् ।। 3.3 दशसु तत्र दिशास्वशरीरिणी जयजयेति बभूव सरस्वती । अजितमेकमगोचरयत् स्वयं स्वरसवृत्तिरसावसुरान्तकम् ।। 3.4 अनतिवेलसमीरणचोदितैः शिशिरशीकरशीभरिताम्बरैः। जलधरैरभितो दिवि दध्वने सुरगजैरिव सूचितमङ्गलैः ।। 3.5 […]
यादवाभ्युदयः सर्गः-2
श्री:कवितार्किकसिंह-सर्वतन्द्र-स्वतन्त्र श्रीमद्वेदान्तदेशिक विरचितं महाकाव्यम् ।। यादवाभ्युदयः ॥ द्वितीयः सर्गः 2.1 अथागमानामनघेन भूम्ना धर्मस्य पूर्णेन धनागमेन । दिवौकसां दर्शयता विभूतिं देवी बभौ दौहृदलक्षणेन ॥ 2.2 शृङ्गारवीराद्बुतचित्ररूपं गर्भे त्रिलोकैकनिधिं वहन्त्याः। परावरक्रीडितकर्बुराणि द्वेधाभवन् दौहृतलक्षणानि ।। 2.3 अशेषवेदैरधिगम्य भूम्ना सिद्धेन सिद्धैश्च निषेवितेन । अमानुषी नूनमभूदयत्नात् कृष्णेन केनापि रसायनेन ।। 2.4 शतह्रदाबन्धुरया स्वकान्त्या सञ्चारिजाम्बूनदबिम्बकल्पा। त्रय्यन्तसिद्धेन रसायनेन कालेन भेजे कलधौतलक्ष्मीम्।। 2.5 […]
यादवाभ्युदयः सर्गः-1
श्री:कवितार्किकसिंह-सर्वतन्द्र-स्वतन्त्र श्रीमद्वेदान्तदेशिक विरचितं महाकाव्यम् ।। यादवाभ्युदयः ॥ प्रथमः सर्गः 1.1 वन्दे बृन्दावनचरं वल्लवीजनवल्लभम् । जयन्तीसंभवं धाम वैजयन्तीविभूषणम् ॥ 1.2 यदेकैकगुणप्रान्ते श्रान्ता निगमवन्दिनः । यथावत् वर्णने तस्य किमुतान्ये मितम्पचाः ॥ 1.3 शक्त्या शौरिकथास्वादः स्थाने मन्दधियामपि । अमृतं यदि लभ्येत किं न गृह्येत मानवैः ॥ 1.4 वसुधाश्रोत्रजे तस्मिन् व्यासे च हृदयस्थिते । अन्येऽपि कवयः कामं बभूवुरनपत्रपाः ॥ […]