अधिकरणसारावली कार्याधिकरणम्
अधिकरणसारावली कार्याधिकरणम् 4.3.11 वैधात्रस्थाननेतॄन्समकथयदिमान्बादरिस्तादृशानां गत्यौचित्यं तदा स्यान्न खलु विभुजुषामत्र वेद्यं न लभ्यम्। सामीप्याद् ब्रह्म चोक्तस्सरसिजवसतिस्तेन सार्धञ्च मुक्तिः युक्तेत्येतन्न नानाश्रुतिपठितपरस्थानगत्याद्यबाधात्।। 4.3.12 मार्गोऽसावर्चिरादिर्गमयति परमं धाम गत्यादियोगात् ब्रह्मोक्तेर्मुख्यभावादिति तु निरणयज्जैमिनिर्युक्तमेतत्। वक्तव्यं त्वत्र किञ्चिन्नयति परविदस्स्वान्वितब्रह्मनिष्ठान् तद्देहस्वात्मनिष्ठानपि मुखभिदयामी च सम्पूर्णनिष्ठाः।। 4.3.13 ध्यायेयुर्ये च जीवान् प्रकृतिशबलितान् केवलान्वा यथेष्टं द्वेधापि ब्रह्मदृष्ट्या जडनिवहमपि स्वेन यद्वान्यदृष्ट्या। ते सर्वे हि प्रतीकप्रणिहितमनसो नार्चिराद्याध्वयोग्याः […]
अधिकरणसारावली आतिवाहिकाधिकरणम्
अधिकरणसारावली आतिवाहिकाधिकरणम् 4.3.7 भोगस्थानान्यमूनि ज्वलनदिनमुखान्यध्वचिह्नानि वा स्युः लोकोक्तिच्छाययैव स्थितमिदमिति नासंभवात्कालशब्दे। स्पष्टे नेतृत्वपुंस्त्वे क्वचिदतिवहनं तद्वदन्यैश्च कार्यं सन्दिग्धे वाक्यशेषाद्गतिरिति जगुरग्न्यादिवाचोऽभिम़न्तॄन् ।। 4.3.8 यां श्रुत्वा धर्मसूनुर्न्यपतदभिपतेत्तामसौ तामसौघो वर्गस्त्रैवर्गिकाणां पितृसरणिघटीयन्त्रचक्रे विघूर्णेत्। वर्तन्येषार्चिरादिश्श्रुतिभिरपुनरावर्तिनां संविभक्ता तत्र ब्रूतेऽतिवोढॄंस्तदितरवदहः पक्षमासादिशब्दः।। 4.3.9 पूर्वं धूमादिमार्गे सुकृतिषु कथिता चन्द्रमःप्राप्तिरन्या सायुज्यं न्यासविद्याप्रकरणपठितं चान्द्रमन्यादृगुक्तम्। अन्यात्रार्चिर्मुखानामतिवहनकृतामष्टमस्याप्तिरिन्दो- रित्थं सुस्था व्यवस्था प्रणिहितहृदयैरेवमन्यच्च सूहम्।। 4.3.10 […]
अधिकरणसारावली वरुणाधिकरणम्
अधिकरणसारावली वरुणाधिकरणम् 4.3.5 कौषीतक्यागमोक्ता वरुणशतमखौ सोऽपि नाथः प्रजानां क्वापि स्थाप्या निपीड्य श्रुतिमपि विफला ह्यन्यथा तच्छ्रुतिस्स्यात्। तस्मात्ते वायुलोकात्परमनुपठनात्तत्र सन्त्वित्ययुक्तं सम्बन्धाद्विद्युतोऽन्वग्वरुण इति परौ पाठतस्तत्परौ स्तः।। 4.3.6 यत्त्वस्यामानवस्य श्रुतिमिह परसम्प्रापकत्वं भवेत्तत् सद्वारत्वेऽप्यबाधं तदपि सहकृतौ तच्छ्रुतौचित्यभूमा। यश्चोक्तो मानसाख्यस्तटित उपरि तु ब्रह्मलोकाप्तिहेतुः तस्मान्नेता स नान्यो विदुरतिवहनं वैद्युतेनैव तस्मात्।।
अधिकरणसारावली वाय्वधिकरणम्
अधिकरणसारावली वाय्वधिकरणम् 4.3.4 सम्प्राप्तो देवलोको मरुदपि च समं वत्सरादित्यमध्ये नैकत्वं रूढिभेदात्तत इह तु तयोस्तुल्यभावाद्विकल्पः। मैवं योऽयं प्रसिद्धः पवत इति मरुद्देवतानां गृहत्वं तस्योक्तं धारकत्वात्तत उचितमिदं निर्विकल्पं तदैक्यम्।।
अधिकरणसारावली अर्चिराद्यधिकरणम्
अधिकरणसारावली चतुर्थाध्याये तृतीय: पाद: अर्चिराद्यधिकरणम् 4.3.1 1.निर्गत्य ब्रह्मरन्ध्रात् तपनकरमथालम्ब्य नाडीनिबद्धं प्रत्युद्यद्देवबृन्दप्रहितबलिरसौ येन योगी प्रयाति । मौकुन्दस्स्थाप्यतेऽसौ परमिह मुनिना पञ्चभिर्न्यायभेदैः मोहाकूपारपारं पुरमभिगमयन्मुक्तिघण्टापथो नः।। 4.3.2 शाखाभेदेषु भिन्नां गतिमुपनिषदोऽधीयते तन्मुमुक्षोः विद्यावैषम्यनीत्या गतिरपि विषमा न व्यवस्थार्चिरादेः। नैतत्सर्वत्र तैस्तैरिह तदिदमिति प्रत्यभिज्ञानसिद्धौ भाव्यं न्यूनाधिकत्वप्रभृति निखिलमप्यत्र सिद्धाविरुद्धम्।। 4.3.3 चैद्यादीनामयोध्यास्थिरचरजनुषां पुण्डरीकादिकानां भीष्मादीनामुपास्तिक्रमभवविभवव्यूहलोकस्थितानाम् । धातॄणां तत्सुतानामिधिकृतिविगमे ब्रह्मसम्प्रेप्सताम- प्यन्येषां प्रस्थितिस्सा शितपृथुमतिभिश्चिन्तनीया […]
अधिकरणसारावली दक्षिणायनाधिकरणम्
अधिकरणसारावली दक्षिणायनाधिकरणम् 4.2.23 देहं योगीश्वरोऽपि त्यजति यदि रवेर्दक्षिणावृत्तिकाले विन्देत्सायुज्यमिन्दोरिह भवति पुनस्तच्छ्रुतेस्तत्स्मृतेश्च। मैवं पूर्वोक्तनीतिस्त्विह नहि विहताथास्य सायुज्यमिन्दौ विश्रान्त्यै सूर्यनीत्या जगदुपकृतये भीष्मकालप्रतीक्षा।। 4.2.24 किञ्च प्रारब्धकर्मप्रतिनियतमिदं जाह्नवीसम्भवस्य स्वेच्छा येनैवमासीत् स च वसुरभवन्नै साक्षाद्विमुक्तः। तस्माद्विन्देत मुक्तिं नरपितृदिविषद्रात्रिकालेऽपि योगी स्यातां प्राशस्त्यनिन्दे तदितरविषये गीतयोक्तौ तु मार्गौ।। 4.2.25 सम्पद्येतान्यदक्षं मनसि तदपि तत्संयुतं प्राणवायौ सोऽध्यक्षे तैस्समेतस्स च तदखिलवान् भूतवर्गे तु […]
अधिकरणसारावली निशाधिकरणम्
अधिकरणसारावली निशाधिकरणम् 4.2.21 सर्वेषामप्रशस्तं रजनिमरणमित्यह््नि योगी म्रियेत प्रेयाद्यद्येष रात्रौ न चरममरणं तद्भवेदित्ययुक्तम्। कर्म प्रारब्धकार्यं ह्यनियतसमयं क्षीयते तावदेवे- त्युक्तश्चास्मिन्विलम्बोऽहनि निशि च परं विद्यया सोऽश्नुतेऽतः।। 4.2.22 यत्रैकस्यापवर्गः प्रतिनियततया गण्यते जातकक्षैः तत्स्यादन्त्यं शरीरं न तु भवति ततोऽप्यन्ययोगव्युदासः। न ह्यत्राप्यन्तकाले दिनरजनिभिदा देशभेदादि चैवं शव्यं कुर्वन्ति चास्मिन् यदुच यदुच नेत्यादि चैवं विभाव्यम्।।
अधिकरणसारावली रश्म्यनुसाराधिकरणम्
अधिकरणसारावली रश्म्यनुसाराधिकरणम् 4.2.20 एतैरेवेति वाक्ये दिनकरकिरणालम्बनेनोर्ध्वयानं यत्प्रोक्तं योगिनस्तद्दिनमृतिनियतं निश्ययुक्त्येति चेन्न। अह्नि च्छायासु रात्रिष्वपि हि लधुतरा रश्मयस्सन्ति लिङ्गात् तापो वर्षादिरात्रौ न यदि हिमदिनन्यायतो नेयमेतत्।।
अधिकरणसारावली तदोकोधिकरणम्
अधिकरणसारावली तदोकोधिकरणम् 4.2.18 नाडीजालेऽतिसूक्ष्मे न भवति सुशका मुक्तिनाडी विवेक्तुं तस्मान्मूर्धन्यनाडीगतिरनियमतो मुच्यमानस्य पुंसः। वाक्यं गन्तुस्तयोर्ध्वं प्रवददमृततां सम्भवादस्तु मैवं विद्यासम्प्रीतहार्दप्रसदनमहसा स्वार्हनाडीप्रवेशात्।। 4.2.19 स्वाधीनो हार्दसंज्ञस्स्वयमविकलया सम्पदा साकमेकः स्थित्वा हृतपद्ममध्ये स्थगितनिजतनुस्सप्तलोकीगृहस्थः। नाडीचक्रे सुषुम्नां निखिलधृतिकरीं नाभिमूर्धान्तरूपां भित्त्वा तन्मध्यरन्ध्रप्रहितमिषुमिवोत्क्षिप्य नेता मुमुक्षुम्।।
अधिकरणसारावली अविभागाधिकरणम्
अधिकरणसारावली अविभागाधिकरणम् 4.2.17 सम्पत्तिर्देवतायां भवतु लय इयं सा हि सर्वस्य योनिः भूयस्स्रष्टुं क्षमा चेत्यसदनुषजतो वाच्यवैरूप्यदोषात्। विश्लेषो भूतसूक्ष््मैरिह न च घटते सृष्टिक्लृप्तिस्तु गुर्वी प्रोक्ता धूमादिमार्गे गतिरपि भविनस्तत्परिष्व़ञ्जनेन।।