अधिकरणसारावली परसंपत्त्यधिकरणम्
अधिकरणसारावली परसंपत्त्यधिकरणम् 4.2.15 जीवोत्क्रान्त्युक्तिकाले विदुषि तु घटते तत्प्रतिक्षेपभङ्गो भूतोत्क्रान्तेस्तु पश्चात्तदुपनिपतने सङ्गतिस्स्यात्कथंचित्। तस्मात्साधारणोऽपि ह्ययमुपरि ततस्स्थाप्यते हार्दयोगः तुल्येऽप्यस्मिन्नतुल्यास्सरणिमुखतया प्राप्यभेदेन नाड्यः।। 4.2.16 प्राप्तुं भोगापवर्गौ प्रयति तनुभृति प्राप्तसूक्ष्मस्वदेहे सम्पत्त्या किं परस्यां श्रितहृदयसुषौ लभ्यते देवतायाम्। आतस्तेजः परस्यामिति चिरघटितेऽप्यस्तु सिद्धानुवादो मैवं मानानुसारात्फलमिति परमे संक्रमश्श्रान्तिशान्त्यै।।
अधिकरणसारावली आसृत्युपक्रमाधिकरणम्
अधिकरणसारावली आसृत्युपक्रमाधिकरणम् 4.2.10 अत्रैव ब्रह्म विन्दत्यमृत इह भवत्यागमाद्ब्रह्मनिष्ठो नोत्क्रान्तिस्तस्य युक्तेत्यसदुपनिषदो ह्यस्य गत्याद्युशन्ति। नान्यप्राप्त्यर्थमेतत् सगुणसमधिकं कुत्रचिन्मानहानेः तस्मादत्रामृतत्वप्रभृतिवचनतस्तादृशी तद्दशोक्ता।। 4.2.11 निश्शेषं भोगहेतौ गलति परविदः कर्मणि प्रायणेऽथो गत्यर्थँ सूक्ष्मदेहानुगतिरणुतया निश्चितस्याफला स्यात्। मार्गे संवादवादस्तदुचितवपुषा त्वस्त्वितीवानुयोगे कृत्स्नाविद्यानिवृत्तिः परपदगमनापेक्षिणीत्यादि वाच्यम्।। 4.2.12 कल्पादौ भूतसूक्ष्््मप्रभृतिभिरुदितं वर्ष्म कल्पान्तनाश्यं प्रत्येकं प्राणिभेदे नियतमनियतस्थूलदेहानुयायि। लिङ्गाख्यं भस्त्रिकान्तः परुवकवदवस्थायि सांख्यैः प्रगीतं सूक्ष््मांशः पूर्वमूर्तेरुपरितनतनोर्बीजमत्रेष्यते तत्।। 4.2.13 […]
अधिकरणसारावली भूताधिकरणम्
अधिकरणसारावली भूताधिकरणम् 4.2.9 तेजस्येवास्तु युक्तश्श्रिततनुभृदनस्तेजसीत्याद्यबाधात् छत्रिन्यायोऽपि नास्मिन्निति यदि न तथान्यत्र भूतान्तरोक्तेः। विश्वारम्भाय देवस्त्रिवृतमकृत च प्रागिमं भूतपूर्वं प्राचुर्यात्तत्तेदकव्यवहृतिरिति चासूत्रयत्पूर्वमेव।।
अधिकरणसारावली अध्यक्षाधिकरणम्
अधिकरणसारावली अध्यक्षाधिकरणम् 4.2.8 प्राणस्सैकादशाक्षस्तदनु निविशते तेजसीत्थं श्रुतत्वात् मध्येऽन्यप्राप्तिक्लृप्तौ श्रुतिहतिरिति चेन्नात्मयोगस्य चोक्तेः। प्राणस्य स्वाप्तजीवे मिलति निजतनोरुद्धृतैर्भूतसूक्ष्मैः तेजः प्राप्तिश्च गङ्गानिपतितयमुनासागरप्राप्तिवत्स्यात्।।
अधिकरणसारावली मनोधिकरणम्
अधिकरणसारावली मनोधिकरणम् 4.2.7 अन्नस्योक्तं विकारो मन इति मनसः प्राणसम्पत्तिवाक्ये प्राणस्याम्भोमयत्वात् प्रकृतिविकृतितासम्भवात्तल्लयोऽस्तु। मैवं तत्तन्मयत्वश्रुतिरभिमनुते तत्तदाप्यायनं तैः प्राग्वत्संश्लेषमात्रं तत इह हि मनः प्राण इत्यामनन्ति।।
अधिकरणसारावली वागधिकरणम्
अधिकरणसारावली ॥ अथ चतुर्थाध्याये द्वितीय: पाद: ॥ वागधिकरणम् 4.2.1 नित्यत्वज्ञत्वपूर्वैर्निपुणमभिहितं जीवतत्त्वं द्वितीये जागर्यादौ च खेदो जगदटविमहाजाङ्घिकस्याथ गीतः। विद्यारम्भावसानावधि यदपि परं ध्यातुरर्थ्यं तदुक्तं प्रारब्धस्यावसाने वपुरिह जहतो गत्युपक्रान्तिमाह।। 4.2.2 वर्ण्यो वैराग्यपादे तनुकरणगणक्षोभ ईदृक् तथापि ब्रह्मज्ञस्यापि काले भवति मृतिरिति ज्ञप्तयेऽत्रानुबन्धः। तस्योत्क्रान्तौ विशेषं कथयितुमुचिता चात्र साधारणोक्तिः मध्ये विद्याफलानां मरणमपि वदंस्तत्प्रियं चिन्त्यमाह।। 4.2.3 वृत्तिर्वागादिकं […]
अधिकरणसारावली इतरक्षपणाधिकरणम्
अधिकरणसारावली इतरक्षपणाधिकरणम् 4.1.40 निर्दिष्टास्माच्छरीरादिति नियतिरतो यावदित्यादिशब्दः कर्म प्रारब्धकार्यं कथयति विदुषस्तच्छरीरान्तमेव। मैवं प्रारब्धचैत्र्यान्न तदवधिविधौ व्याप्रियेतान्यपर्याद् भूयोदेहस्मृतेश्चान्तिमवपुषि दृढोद्यत्समाधेस्तु मोक्षः।। 4.1.41 नन्वत्रास्मादितीदं वितथमिह पदं स्याच्छरीरे न तु स्यात् कारागारौपमित्यप्रथनपरतया तस्य साफल्यसिद्धेः। त्याज्यत्वव्यक्तये हि प्रभुरसुखमिमं लोकमित्यप्यगायद् भूतावासं विशिंषन्निममिति च मनुर्हेयभावं व्यनक्ति।। 4.1.42 सर्वे जीवास्समानास्स्वत इह विविधं कर्म चानादितुल्यं वैषम्यादिश्च दोषो न भवति भगवत्यन्यथा शास्त्रभङ्गः। मुक्तौ नातो […]
अधिकरणसारावली अग्निहोत्राद्यधिकरणम्
अधिकरणसारावली अग्निहोत्राद्यधिकरणम् 4.1.38 श्लेषश्चेदस्य पुण्यैस्स तु भवति तदा बन्ध इत्यभ्युपेत्यं यद्यश्लेषो भवेत्तैः परविदि विफला पुण्यनिष्ठा परस्तात् । तस्माद्धर्मोऽप्यधर्मक्रमत इह परित्याज्य एवेत्ययुक्तं न स्याद्बन्धाय विद्याङ्कुरमुपचिनुते ह्यग्निहोत्रादिधर्मः।। 4.1.39 सर्वापेक्षेत्यवोचन्ननु परभजने कर्मणामङ्गभावं भूयो वक्त्यग्निहोत्रेत्यपि तदिति मुधा ह्येकमत्रेति चेन्न। विद्याया नैरपेक्ष्यात्तदपरिकरता शङ्किता प्रागपास्ता श्लेषाभावप्रसक्ता त्विह पुनरिति तन्नीतिवैषम्यसिद्धेः।।
अधिकरणसारावली अनारब्धकार्याधिकरणम्
अधिकरणसारावली अनारब्धकार्याधिकरणम् 4.1.36 नश्यत्वारब्धकार्यं परविदि दुरितं नह्यधीतो विशेषः सर्वे पाप्मान इत्यप्यभिहितमिति चेन्नोपलम्भादिबाधात्। सद्विद्या तस्य तावच्चिरमिति च वदत्यस्मरंश्चागमज्ञाः जीवन्मुक्त्यादिशब्दोऽप्युपचरणपरो मोहितास्तेन मन्दाः।। 4.1.37 रोगाद्यारम्भकाणां प्रशमनविधयस्सन्ति दानार्चनाद्याः प्रत्येतुस्स्वावताराद्यपि विभुरपुनर्जन्मतामप्यगायत्। तस्मादारब्धकार्ये फलनियतिवचो दुर्घटं भाति मैवं प्रायश्चित्तोज्झितानां ननु फलनियतिस्सूत्रकाराद्यभीष्टा।।
अधिकरणसारावली इतराधिकरणम्
अधिकरणसारावली इतराधिकरणम् 4.1.33 धर्मस्याश्लेषनाशौ न हि परभजनानुग्रहेणोपपन्नौ तस्याघत्वप्रसङ्गाच्छ्रुतिरपि च परं पापनिर्मुक्तिमाह। भोगैस्तत्पुण्यनाशोऽस्त्विति यदि न यतः काम्यमप्यस्य पापं तस्मिंस्तल्लक्ष्मसिद्धेर्न सुकृतमिति च श्रूयते पाप्मतास्य।। 4.1.34 पुण्यं विद्यानुकूलं यदिह सफलता तस्य विद्याप्रदत्वात् तस्यां यन्नोपयुक्तं तदपि दुरितवद् बन्धकत्वेन वार्यम्। कारागारोपरुद्धे निगलयुगलतस्सार्वभौमस्य भृत्ये हैमं कार्ष्णायसञ्च प्रसदनसमये भञ्जनीयं सहैव।। 4.1.35 काम्यं नेच्छेद्विरक्तो यदि किल कुरुते रागयोगात् फले तत् […]