अधिकरणसारावली पशुपत्यधिकरणम्
अधिकरणसारावली पशुपत्यधिकरणम् 2.2.30 सर्वं जानाति रुद्रश्श्रुतिषु च महितस्सत्यवादी च दृष्टः प्रख्यातं तद्व्रतञ्च क्वचिदुपनिषदीत्यस्तु मानं तदुक्तिः । मैवं, देवेन दैत्यप्रमथनरुचिना मोहशास्त्राणि कुर्वि- त्यादिष्टो ह्येष तन्त्रं निजमकृत ततस्तन्न शिष्टोपजीव्यम् ॥ 2.2.31 प्राजापत्ये हि वाक्ये प्रकटमुपनिषत् प्राह देहात्मवादं चक्रे लोकायतं तत् सुरगुरुरभजन्मोहनत्वं मुकुन्दः । कण्वस्थाने च लौकायतिकपरिबृढा भारतेऽपि प्रगीताः कार्यार्थं विप्रलम्भस्तदिह पशुपतेस्तद्वदेवोपपन्नः ॥ 2.2.32 शैवाद्याख्याविशेषैः पशुपतिसमयस्स्याच्चतुर्धाऽन्यथा […]
अधिकरणसारावली एकस्मिन्नसंभवाधिकरणम्
अधिकरणसारावली एकस्मिन्नसंभवाधिकरणम् 2.2.27 संवादात् क्वापि भागे जिनमुनिवचसश्शेषमप्यस्तु मानं तस्मात्तेनोपरोध्योपनिषदिति कचोल्लुञ्छनानां दुराशा । वैषम्यस्यापि दृष्टेर्न यदि सुगतवागेवमेवास्तु सत्या तेनान्योन्यं निरोधात् पुरुषवचनयोरप्रकम्प्या श्रुतिर्नः ॥ 2.2.28 सच्चासच्च द्वयञ्च द्वितयसमधिकं तच्च पूर्वैस्सहेति स्यादस्तीत्यादिवाचा परिहितगगनैर्गीयते सप्तभङ्गी । व्याघातस्तैर्यदीष्टस्स्वसमयविहतिर्यद्यनिष्टः परोक्ते- स्तद्वाक्यैर्न क्षतिस्स्यान्न च निरुपधिकः क्वाप्यसत्वादियोगः ॥ 2.2.29 वृद्धिह्रासौ यथार्हं प्रतितनु भविनां देहभङ्गे विमानं मुक्तौ नित्योर्ध्वयानप्रभृति गुरुतया नित्यपातं क्षमादेः […]
अधिकरणसारावली सर्वथानुपपत्त्यधिकरणम्
अधिकरणसारावली सर्वथानुपपत्त्यधिकरणम् 2.2.23 सत्त्वेऽसत्त्वे द्वये च द्वितयपरिहृतावप्यनिष्टप्रसङ्गै- स्सर्वं शून्यञ्चतुष्कोट्यतिगतमिति नामानतस्स्वेष्टवादात् । अक्षोभ्यन्तत् प्रहाणे परमतमसती संवृतिर्नार्थसिद्ध्यै तस्मादित्थं निषेधो निरुपधिक इह क्वाप्यदृष्टो न कल्प्यः ॥ 2.2.24 प्राक्पश्चात् सत्त्वहानेर्गगनकुसुमवत् स्यान्न मध्येऽपि कार्यं मैवन्तत्रैव दृष्टेर्न यदि कथमसौ मध्यकार्यादिशब्दः । कार्यारम्भे निदानं विकृतिमदुत नेत्यादिचिन्ताऽपि वन्ध्या सामग्र्या कार्यसिद्धेर्भजति च गुणतां कारणस्यानवस्था ॥ 2.2.25 साध्यं हेतुस्तदङ्गप्रभृति च यदि वस्संवृतेरेव सिद्ध्ये- […]
अधिकरणसारावली उपलब्ध्यधिकरणम्
अधिकरणसारावली उपलब्ध्यधिकरणम् 2.2.21 न ग्राह्यग्राहकौ स्तः क्वचिदपि विविधानादिसन्तानचित्रो बुद्ध्यात्मा त्र्यात्मकोऽद्य स्फुरति भवदशातिक्रमे स्वात्मनैव । योगाचारोक्तिरित्थं विषयविषयिणोर्बोधबाधौ समानौ मन्वानैर्वारणीया स्वपरविभजनाद्यत्र न क्वापि सिद्ध्येत् ॥ 2.2.22 बुद्ध्यैक्यं बोध्यबोद्ध्रोर्न घटत इह ते सत्ययोरन्ययोर्वा भिन्नत्वे ग्राह्यलक्ष्मक्षतिमभिमनुषे नात्र चित्रैक्यमर्थ्यम् । चित्रं द्रव्यं गुणं वा किमिति न च विदुः केऽपि भिन्नैकरूपं तेनात्मख्यातिवादे स्थितिमिह भजतु स्वप्रकाशत्वमात्रे ॥
अधिकरणसारावली समुदायाधिकरणम्
अधिकरणसारावली समुदायाधिकरणम् 2.2.15 बाह्योक्ताचारभागश्श्रुतिविहतिवशाज्जैमिनीये निरस्त- स्तत्त्वांशं तर्कितं तैः प्रतिवदति गुरुर्जैमिनेरत्र पादे। निर्धूतं तत्र पूर्वं निरुपधिकनयैरर्धवैनाशिकोक्ते पक्षान्वैनाशिकानां जिनगिरिशमतक्षेपतः प्राक् क्षिणोति।। 2.2.16 बुद्धोऽसौ स्वावतारैस्सह परिगणितः श्रीधरेण स्वशास्त्रे सर्वज्ञो नैव मुह्येन्न च निखिलसुहृद्विप्रलिप्सेत कञ्चित् । तस्माद्बुद्धोक्तभङ्गे भजति भिदुरतां सात्त्वतादीति चेन्न स्वाभीष्टप्रत्यनीकप्रमथनमनसा मोहनादिप्रवृत्तेः ॥ 2.2.17 दुर्वारा मोहनेच्छा निखिलजनयितुः केन मोहोऽन्यथा न- स्तस्मात्कर्मानुरूपन्दिशति फलमसौ तत्त्वबोधं भ्रमं वा। […]
अधिकरणसारावली महद्दीर्घाधिकरणम्
अधिकरणसारावली महद्दीर्घाधिकरणम् 2.2.8 कल्प्योपादनमेकं परममहदधिक्षित्य नानाविधाणू- पादानौघस्य दृष्टात् समधिकवपुषः कल्पनेऽनिष्टमाह। प्राज्ञाधिष्ठानशून्यप्रकृतिपरिणतिः प्राङ्निरस्ताऽथ सेशं सूक्ष्माणुद्रव्यमूलद्व्यणुकमुखजगत्सृष्टिपक्षं पिनष्टि।। 2.2.9 प्रागेवारम्भणोक्तावपहृतविषया प्रागसद्द्रव्यक्लृप्तिः काणादानामिदानीं क्षिपति बहुमुखं कारणप्रक्रियांशम्। त्रेधा हेतौ विभक्ते त्वनुमितिशरणैस्तत्तदंशैर्यथार्हं व्याघातादीन्विकल्पक्रमविविधगतीन् व्याहरत्यत्र सूत्रैः।। 2.2.10 दृष्टस्याणोः प्रसूतिं द्व्यणुकमणुमपि स्थापयन्तोऽनुमित्या दृष्टाकारानुसारान्न निरवयवताद्यत्र वक्तुं क्षमेरन्। सर्वं सह्येत सूक्ष्मे प्रमितिपरवतां जालकालोकलक्ष्ये तद्भागान् ख्यापयेद्वा स्मृतिरफलतया त्वान्यपर्येण नेया।। 2.2.11 […]
अधिकरणसारावली रचनानुपपत्त्यधिकरणम्
अधिकरणसारावली अथ द्वितीयाध्याये द्वितीय: पाद: रचनानुपपत्त्यधिकरणम् 2.2.1 बाधाभावादकम्पे स्थितवति निगमैर्ब्रह्महेतुत्ववादे भूयः किं वीतरागो वदति परपरीवादमत्रेत्ययुक्तम्। प्रख्यातप्राच्यनैकप्रतिसमयभवन्मन्दसन्देहशान्त्यै तुल्यत्वभ्रान्तिसिद्धा प्रकरणसमता तर्कपादे हि वार्या।। 2.2.2 षड्विंशालम्बिसांख्यं स्फुटतरपठितं भारते योगतुल्यं तत्स्थत्वात् पञ्चविंशस्त्विति च निगदितस्सर्वतत्त्वान्तरात्मा। तस्मात् सेशानतन्त्रं श्रुतिसमधिगतं स्थापयित्वाऽथ सूत्रैः पक्षं त्वीशानपेक्षं प्रतिवदति नयैरुत्कटप्रत्यवायम्।। 2.2.3 अव्यक्तादीन्पदार्थाननुमितिमुखतस्स्थापयन्तस्स्वबुद्ध्या षट्त्रिंशत्तत्त्ववादप्रभृतिषु न कथं सङ्गमिच्छन्ति सांख्याः। तुल्याक्षेपोपपत्तीश्श्रुतिनियतिमुचां कल्पनास्सम्मृशन्तो […]
अधिकरणसारावली प्रयोजनवत्त्वाधिकरणम्
अधिकरणसारावली प्रयोजनवत्त्वाधिकरणम् 2.1.19 आत्मार्थं विश्वसृष्टिः कथमपि सततावाप्तकामस्य न स्यात् कारुण्याद्दुःखसृष्टिर्न भवति न च सा सर्वशक्तेश्चिकित्सा। सर्वज्ञस्स्वात्मतृप्तस्तदिह न जगतो हेतुरित्यन्धचोद्यं लीलाऽसौ लोकवत्स्यादभिमतिसमये सिद्धितस्त्वाप्तकामः।। 2.1.20 विश्वं दुःखैकतानं विषममपि सदा निर्मिमाणस्य लीला संजायेतासमञ्जक्रमत इति भवेन्निर्दयत्वादिदोषः।मैवं बीजाङ्कुरादिक्रमविषमभवानादिकर्मौघभाजां जीवानां सौति तत्तत्फलमिति करुणासाम्ययोरप्रहाणात्।। 2.1.21 दृष्टन्यायेन विश्वप्रजनकचिदचित्तत्त्वभेदप्रक्लृप्तौ स्वेष्टप्रत्यर्थिधर्मोपनयननियतव्याप्तिवैयाकुली स्यात्। अत्यन्तादृष्टमर्थं भणितुमधिकृताच्छास्त्रतस्सर्वकर्तु- स्सिद्धौ बाधाद्यनर्हप्रमितिपरवती सर्वधर्मोपपत्तिः।। 2.1.22 सांख्यस्मृत्या विरोधाद्विधिमतविहतेः कार्यवैरूप्यतोऽस्मि- न्नेकार्थानेकतन्त्रोदितविहततया देहभोगावियुक्त्या । कार्योपादानभेदात् […]
अधिकरणसारावली कृत्स्नप्रसक्त्यधिकरणम्
अधिकरणसारावली कृत्स्नप्रसक्त्यधिकरणम् 2.1.17 कृत्स्नं कार्यात्मना चेत् परिणमति परं नावशिष्येत किञ्चि- द्यद्यंशान्निष्कलत्वश्रुतिविहतिरिदं स्याद्विशिष्टेऽपि तस्मिन्। ब्रह्मोपादानतैवं न घटत इति चेन्न स्वपक्षेषु साम्या- त्तन्मानात्तद्गृहीतौ श्रुतिमितमिति तल्लोकवत् स्वीकुरुष्व ।। 2.1.18 संयोगाख्यं हि कार्यं विभुतदितरयोस्स्यादणूनाम्मिथो वा कार्त्स्न्येनांशेन वा तद्विहतमिति वदन् शून्यवादे निमज्जेत्। सांख्योऽपि प्राह विभ्वीं प्रकृतिमिति कथन्न्यूनसृष्टिस्ततस्स्या- न्मायादिष्वेवमूह्यं निगमनिगदिता त्वक्षता पद्धतिर्नः।।
अधिकरणसारावली उपसंहारदर्शनाधिकरणम्
अधिकरणसारावली उपसंहारदर्शनाधिकरणम् 2.1.16 शक्तौ कर्तृप्रकृत्योरुपकरणगणोपस्थितौ कार्यकृत्त्वं तस्मादग्रे सदेकं किमुपकरणयेदित्यसच्छक्तिभेदात्। क्षीरायस्कान्तलूतात्रिदशमुनिमुखान्वीक्ष्य तोष्टव्यमस्मिन् संकल्पादेव जीवो नुदति निजवपुर्विश्वरूपस्तथेशः।।