अधिकरणसारावली इतरव्यपदेशाधिकरणम्
अधिकरणसारावली इतरव्यपदेशाधिकरणम् 2.1.15 उक्तेऽनन्यत्वपक्षे चिदपि परिणतिर्ब्रह्मणस्स्यात्ततस्त- ज्जीवैक्यं तत्त्वमस्याद्यवगतमहतन्दुःखसिन्धुश्च जीवः। अभ्रान्तस्तु स्वदुःखं न सृजति न च तत् क्रीडयाऽप्यस्य मैवं तात्स्थ्येनानन्यतोक्तेस्तदपि चिदचितोस्तच्छरीरत्वसिद्धेः।।
अधिकरणसारावली आरम्भणाधिकरणम्
अधिकरणसारावली आरम्भणाधिकरणम् 2.1.12 कार्यं धर्मैर्विरुद्धैः कट इव शकटात् कारणद्रव्यतोऽन्य- द्व्यापारः कारकाणां विफल इतरथेत्यर्द्धवैनाशिकोक्तौ। द्रव्यैक्येऽप्यस्तु सर्वं तदभिमतदशाभेदतोऽसच्छ्रुतिश्चे- त्यद्ध्यक्षाल्लघवाच्च श्रुतिकथितजगद्ब्रह्मतादात्म्यमुक्तम्।। 2.1.13 मायोपाधिस्वशक्तिव्यतिकरितपरब्रह्ममूलः प्रपञ्चो येषां तेऽप्यद्वितीयश्रुतिमवितथयन्त्यत्र तत्तद्विशिष्टे। अप्राधान्यात्तथा नः प्रकृतिपुरुषयोरन्तरात्मप्रधाने वाक्येऽस्मिन् स्थूलसूक्ष््मान्वय इति जगतोऽनन्यभावोपपत्तिः।। 2.1.14 विश्वारम्भे विवर्तं शकलपरिणतिं शक्तिशेषस्य सूतिं व्याक्त्युल्लासौ विसृष्टिं विकृतिमनियतां तत्त्वपङ्क्तौ च सृष्टिम्। तत्तद्वाक्यैकदेशः स्वरस इति मुधा कल्पयन्तस्तु मुग्धा स्सर्वश्रुत्यैकरस्यप्रणयिभिरधरीचक्रिरे तत्त्वविद्भिः।।
अधिकरणसारावली भोक्त्रापत्त्यधिकरणम्
अधिकरणसारावली भोक्त्रापत्त्यधिकरणम् 2.1.11 एको यस्यापि देहस्स भवति विविधानन्दुःखैकभोक्ता विश्वं देहः प्रभोश्चेत् स कथमतिपतेद्विश्वदुःखानुभूतिम्। इत्थं जीवेशसीमामपलपितुमनाः कोशभाजा श्रुतीनां सम्राड्भृत्यादिनीत्या शममिह लभतां साम्यवैषम्यदर्शी।।
अधिकरणसारावली शिष्टापरिग्रहाधिकरणम्
अधिकरणसारावली शिष्टापरिग्रहाधिकरणम् 2.1.10 संवादादक्षपादक्षपणककणभुग्भिक्षुपक्षेष्वणूनां विश्वं तद्धेतुकं स्यादिति मृदुमतिभिश्श्वावराहक्रमोक्तौ । अन्योन्यव्याहतार्थस्थपुटितकुहनायुक्तिदोषापनुत्त्यै भाति त्रय्यन्तसूर्यः प्रतिमततिमिरस्तोमकुक्षिंभरिर्नः।।
अधिकरणसारावली विलक्षणत्वाधिकरणम्
अधिकरणसारावली विलक्षणत्वाधिकरणम् 2.1.8 विश्वं त्रैगुण्यवत् स्यात् त्रिगुणत उदितन्नासमादित्ययुक्तं सर्वाकारेण साम्यं क्वचिदपि न भवेत् केनचित् साम्यमिष्टम्। भग्ना हेतुव्यवस्थोचितगुणसमता गोमयाद्वृश्चिकादौ स्थूलत्वं याति चेशः प्रकृतितनुरतस्सर्वचोद्योपमर्दः।। 2.1.9 ईक्षा तादृग्बहु स्यामिति सति पठिता तेजसोऽपाञ्च दृष्टा सालक्षण्यं ततस्स्याज्जगत इति मृदुप्रज्ञपार्श्वस्थचोद्ये। तत्तन्मूर्तेः परस्येक्षणमिदमिति तद्वाक्यभावापलापी सामान्येनाभिमानिव्यवहरणमिह व्याहरत् पूर्वपक्षी।।
अधिकरणसारावली योगप्रत्युक्त्यधिकरणम्
अधिकरणसारावली योगप्रत्युक्त्यधिकरणम् 2.1.7 वेदान् पूर्वं विधाताऽलभत भगवतस्सर्वविद्यानियुक्तो वागीशश्चैष तस्मात्तदुदितविहतौ कम्पनं वेदमूर्ध्नः । मैवन्तस्यापि वेदापहृतिमुखविपद्दर्शनात् क्षेत्रिभावात् भ्रान्त्यादिस्सम्भवेदित्यगतिकविषये पूर्ववन्निर्वहामः ॥
अधिकरणसारावली स्मृत्यधिकरणम्
अधिकरणसारावली ॥ अथ द्वितीयाध्याये प्रथम: पाद: ॥ स्मृत्यधिकरणम् 2.1.1 तत्तादृक्तर्कतन्त्रक्रमनिपुणमहाबुद्धिसन्तोषसिद्धि- र्यद्यप्युक्तेन लभ्या तदपि मृदुधियां हैतुकास्कन्दशङ्की। स्थूणाखातक्रमेण स्थिरयति कथितं ब्रह्मणः कारणत्वं कार्यत्वं यस्य यादृक्छ्रुतिभिरवगतं तस्य तत्तादृशञ्च।। 2.1.2 पादद्वन्द्वं द्वितीये परिहरति परे कारणे बाह्यपीडां कार्यद्वारेण पादान्तरयुगमुदयत्यान्तरक्षोभशान्त्यै। हेतुत्वायोगभङ्गः प्रथममिह विभोस्तस्य सार्वत्रिकत्वा- योगक्षेपः परस्तात् फलति स च भवेच्छ्रौतनित्यं विहाय।। 2.1.3 तन्त्रच्छायानिदाने स्वयमुपनिषदामान्यपर्ये निरुद्धे तन्त्रेभ्यो दुर्बलत्वात्तदनुसरणमित्युज्जिहीते परोऽद्य। इत्थं सत्यत्र तत्तत्स्मृतिनयपृतनातिक्रमन्तत्तदर्हैः प्रत्यस्त्रैर्वारयित्वा […]
श्रीभाष्यम् 04-04-06 जगद्व्यापारवर्जाधिकरणम्
श्रीशारीरकमीमांसाभाष्ये जगद्व्यापारवर्जाधिकरणम् ॥६॥ (अधिकरणार्थः – मुक्तात्मनां ब्रह्मणा परमसाम्यं भगवदसाधारणान् धर्मान्विहायैव) ५४०. जगद्व्यापारवर्जं प्रकरणादसन्निहितत्वाच्च ॥ ४–४–१७ ॥ (विचारोपयोगी संशयः) किं मुक्तस्यैश्वर्यं जगत्सृष्ट्यादि परमपुरुषासाधारणं सर्वेश्वरत्वमपि, उत तद्रहितं केवलपरमपुरुषानुभवविषयमिति संशय:। (युक्त्या पूर्वः पक्षः) किं युक्तम् ? जगदीश्वरत्वमपीति। कुत:? निरञ्जन: परमं साम्यमुपैति (मु.३.१.३) इति परमपुरुषेण परमसाम्यापत्तिश्रुते: सत्यसङ्कल्पत्वश्रुतेश्च। (मुक्तैश्वर्यस्य जगन्नियमनाविनाभावशङ्का) न हि परमसाम्यसत्यसङ्कल्पत्वे सर्वेश्वरासाधारणजगन्नियमनेन विनोपपद्येते । अतस्सत्यसङ्कल्पत्वपरमसाम्योपपत्तये समस्तजगन्नियमनरूपमपि मुक्तस्यैश्वर्यमिति ॥ […]
श्रीभाष्यम् 04-04-05 अभावाधिकरणम्
श्रीशारीरकमीमांसाभाष्ये अभावाधिकरणम्॥५॥ (अधिकरणार्थः – मुक्तस्यात्मनः सशरीरत्वाशरीरत्वयोर्द्वयोरपि न्याय्यतास्थापनम्) ५३३. अभावं बादिरराह ह्येवम् ॥४–४–१०॥ (विचारार्थः संशयः) किं मुक्तस्य देहेन्द्रियाणि न सन्ति, उत सन्ति, अथवा यथासङ्कल्पं सन्ति न सन्ति चेति विशये – (तत्र बादरेर्मतम्, सप्रमाणम्) शरीरेन्द्रियाणामभावं बादरिराचार्यो मन्यते; कुत:? आह ह्येवं – न ह वै सशरीरस्य सत: प्रियाप्रिययोरपहतिरस्ति। अशरीरं वा व सन्तं न प्रियाप्रिये स्पृशत: (छां.८.१२.१) इति शरीरसम्बन्धे […]
श्रीभाष्यम् 04-04-04 सङ्कल्पाधिकरणम्
श्रीशारीरकमीमांसाभाष्ये संकल्पाधिकरणम्॥४॥ (अधिकरणार्थः – मुक्तात्मनोऽपि ज्ञात्यादिरूपेष्टार्थसम्पत्तिः) ५३१. संकल्पादेव तच्छ्रुते: ॥ ४–४–८॥ (अवान्तरसङ्गतिः – विचारणीयो विषयश्च) मुक्त: परं ब्रह्मोपसम्पद्य ज्ञानस्वरूपोऽपहतपाप्मत्वादिसत्यसङ्कल्पत्वपर्यन्तगुणक आविर्भवतीत्युक्तम्; तमधिकृत्य सत्यसङ्कल्पत्वप्रयुक्ता व्यवहारा: श्रूयन्ते स तत्र पर्येति जक्षत्क्रीडन्रममाण: स्त्रीभिर्वायानैर्वा ज्ञातिभिर्वा (छां.८.१२.३) इति । (विचारोपयोगी संशयः) किमस्य ज्ञात्यादिप्राप्ति: प्रयत्नान्तरसापेक्षा, उत परमपुरुषस्येव सङ्कल्पमात्रादेव भवतीति विशये; (युक्तितः पूर्वः पक्षः) लोके राजादीनां सत्यसंकल्पत्वेन व्यवह्रियमाणानां कार्यनिष्पादने प्रयत्नान्तरसापेक्षत्वदर्शनादस्यापि तत्सापेक्षा – (सूत्रतः […]