श्रीभाष्यम् 04-04-03 ब्राह्माधिकरणम्

श्रीशारीरकमीमांसाभाष्ये ब्राह्माधिकरणम्॥३॥ (अधिकरणार्थः – मुक्तौ आत्मस्वरूपाविर्भावः, विज्ञानस्वरूपेण अपहतपाप्मत्वादिना चेति) ५२८. ब्राह्मेण जैमिनिरुपन्यासादिभ्य: ॥ ४–४–५ ॥ (भावान्तरसङ्गतिप्रदर्शनम्) प्रत्यगात्मन: परं ज्योतिरुपसम्पद्य निवृत्ततिरोधानस्य स्वरूपाविर्भाव एवेत्युक्तम् । (विचारणीयो विषयः, प्रकृतः संशयश्च) तत्र येन स्वरूपेणायमाविर्भवति; तत्स्वरूपं श्रुतिवैविध्याद्विचार्यते। किमपहतपाप्मत्वादिकमेवास्य स्वरूपमिति तेन रूपेणायमाविर्भवति, उत विज्ञानमात्रमेवेति तेन रूपेण, अथोभयोरविरोध इत्युभयरूपेणेति । (जैमिनेर्मतानुवादः) किं तावत्प्राप्तम्? ब्राह्मेणेति जैमिनिराचार्यो मन्यते । ब्राह्मेण – अपहतपाप्मत्वादिनेत्यर्थ:। अपहतपाप्मत्वादयो हि […]

श्रीभाष्यम् 04-04-02 अविभागेनदृष्टत्वाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये  अविभागेनदृष्टत्वाधिकरणम् (अधिकरणार्थः – मुक्तस्य मोक्षदशायां स्वानुभवः, स्वात्मभूतपरमात्मापृथग्भावेनेति निरूपणम्) ५२७. अविभागेन दृष्टत्वात् ॥ ४–४–४ ॥ (विचारोपयोगी विषयगर्भः संशयः) किमयं परं ज्योतिरुपसम्पन्न: सर्वबन्धविनिर्मुक्त: प्रत्यगात्मा स्वात्मानं परमात्मन: पृथग्भूतमनुभवति, उत तत्प्रकारतया तदविभक्तम् – इति विशये (पूर्वः पक्षः) सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपिश्चता (तै.आन.१.२)  यदा पश्य: पश्यते रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम्।  तदा विद्वान् पुण्यपापे विधूय निरञ्जन: परमं साम्यमुपैति […]

श्रीभाष्यम् 04-04-01 सम्पद्याविर्भावाधिकरणम्

श्रीभगवद्रामानुजविरचिते श्रीशारीरकमीमांसाभाष्ये चतुर्थे फलाध्याये चतुर्थः मुक्तिपाद: (पादार्थः – भक्त्यानुष्ठानतः निष्पन्नमोक्षोपायत्वात् अर्चिरादिना मार्गेण गतानां मुक्तानामैश्वर्यप्रकारस्य चिन्तनम्) सम्पद्याविर्भावाधिकरणम्॥१॥ (अधिकरणार्थः – मुक्तात्मनां ब्रह्मोपसम्पत्या प्राप्यो दशाविशेषः स्वाभाविकस्वरूपाविर्भाव एव) ५२४. सम्पद्याविर्भावस्स्वेनशब्दात् ॥ ४–४–१ ॥ (पादसङ्गत्यर्थं पूर्वोत्तरार्थसङ्क्षेपः) परं ब्रह्मोपासीनानामात्मानं च प्रकृतिवियुक्तं ब्रह्मात्मकमुपासीनानामर्चिरादिना मार्गेणापुनरावृत्तिलक्षणा गतिरुक्ता; इदानीं मुक्तानामैश्वर्यप्रकारं चिन्तयितुमारभते । (प्रकृतविचारार्थः संशयः) इदमाम्नायते – एवमेवैष संप्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते (छा.८.१२.२) इति। किमस्माच्छरीरात्समुत्थाय परज्योतिरुपसम्पन्नस्य […]

श्रीभाष्यम् 04-03-05 कार्याधिकरणम्

श्री शारीरकमीमांसाभाष्ये कार्याधिकरणम्॥५॥ (अधिकरणार्थः – अर्चिरादिरातिवाहिको गणः ब्रह्मात्मकं प्रकृतिवियुक्तात्मानं च उपासीनानेव ब्रह्मपदं नयति, न तु कार्यं हिरण्यगर्भादिकमुपासीनान्) ५१४. कार्यं बादरिरस्य गत्युपपत्ते: ॥ ४–३–६ ॥ (अवान्तरसङ्गतिप्रदर्शनम्) अर्चिरादिनैव गच्छति विद्वान्; अर्चिरादिरमानवान्तश्च गण आतिवाहिको विद्वांसं ब्रह्म गमयतीत्युक्तम्। (प्रकृताधिकरणार्था चिन्ता) इदमिदानीं चिन्त्यते । किमयमर्चिरादिको गण: कार्यं हिरण्यगर्भमुपासीनान्नयति, उत परमेव ब्रह्मोपासीनान्, अथ परं ब्रह्मोपासीनान् प्रत्यगात्मानं ब्रह्मात्मकतयोपासीनांश्च – इति विशये – […]

श्रीभाष्यम् 04-03-04 आतिवाहिकाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये आतिवाहिकाधिकरणम् (अधिकरणार्थः – ब्रह्मप्रेप्सोर्मध्येमार्गं श्रुतानामर्चिरादीनाम्, अतिवोढृदेवताविशेषत्वमेव न मार्गचिह्नत्वं, नापि भोगभूमित्वम्) ५१२. आतिवाहिकास्तल्लिङ्गात् ॥ ४–३–४ ॥ (अधिकरणोपयोगिनी चिन्ता) इदमिदानीं चिन्त्यते – किमर्चिरादयो मार्गचिह्नभूता:, उत भोगभूमय:, अथवा विदुषां ब्रह्म प्रेप्सतामतिवोढार: इति किं तावद्युक्तम्? मार्गचिह्नभूता इति । कुत:? उपदेशस्य तथाविधत्वात्; दृश्यते हि लोके ग्रामादीन् प्रति गन्तॄणामेवंविधो देशिकैरुपदेश: – इतो निष्क्रम्यामुकं वृक्षममुकां नदीममुकं च पर्वतपार्श्वं गत्वाऽमुकं ग्रामं गच्छ […]

श्रीभाष्यम् 04-03-03 वरुणाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये वरुणाधिकरणम्॥३॥ (अधिकरणार्थः – अर्चिरादिपथगतस्य वरुणस्य विदुषोऽनन्तरमेव) ५११. तटितोऽधि वरुणस्सम्बन्धात् ॥ ४–३–३ ॥ (पूर्वोक्तार्थदृढीकरणपूर्वकं निरूपणीयांशोपस्थापनम्) कौषीतकिनां,  स एतं देवयानं पन्थानमापद्याग्निलोकमागच्छति स वायुलोकं स वरुणलोकं स आदित्यलोकं स इन्द्रलोकं स प्रजापतिलोकं स ब्रह्मलोकम् (कौषी.१.३) इत्यत्राग्निलोकशब्दस्यार्चि: पर्यायत्वेन प्राथम्यमविगीतम् । वायोश्च संवत्सरादूर्ध्वं निवेश उक्त: । आदित्यस्याप्यत्र प्राप्तपाठक्रमबाधेन  देवलोकादादित्यमादित्याद्वैद्युतम् (बृ.८.२.१५) इति वाजसनेयकोक्तश्रुतिक्रमाद्देवलोक-शब्दाभिहिताद्वायोरुपरि निवेशस्सिद्ध:। इदानीं वरुणेन्द्रादिषु चिन्ता। (विचारौपयिकः संशयः) किमेते […]

श्रीभाष्यम् 04-03-02 वाय्वधिकरणम्

श्रीशारीरकमीमांसाभाष्ये वाय्वधिकरणम्॥२॥ (अधिकरणस्यार्थः – अर्चिरादिपथगत वायु-देवलोक शब्दयोरेकार्थता, अतः तत्र गच्छतां आदित्यतः पूर्वं वायोरेव प्राप्तिः) ५१०. वायुमब्दादविशेषविशेषाभ्याम् ॥४–३–२॥ (विचारणीयविषयोपस्थापनम् तदर्थं विषयशोधनं च) अर्चिरादिनैव गच्छन्ति विद्वांस इत्युक्तम्; तत्रार्चिरादिके मार्गे छन्दोगा: मासादित्ययोरन्तराले संवत्सरमधीयते,  मासेभ्य: संवत्सरं संवत्सरादादित्यम् (छा.४.१५.५) इति। वाजसनेयिनस्तु तयोरेवान्तराले देवलोकं  मासेभ्यो देवलोकं देवलोकादादित्यम् (बृ.८.२.१५) इति। उभयत्रापि मार्गस्यैकत्वादुभावुभयत्रोपसंहार्यौ। तत्र मासादूर्ध्वमभिहितयोस्संवत्सरदेवलोकयो: पञ्चम्याऽभिहितस्य श्रौतक्रमस्य तुल्यत्वेऽपि  अर्चिषोऽहरह्न आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान् षडुदङ्ङेतिमासांस्तान् (छां.४.१५.५) इत्यधिककालानां […]

श्रीभाष्यम् 04-03-01 अर्चिराद्यधिकरणम्

श्रीभगवद्रामानुजविरचिते श्रीशारीरकमीमांसाभाष्ये चतुर्थे फलाध्याये – तृतीयः गतिपाद: (पातार्थः – मुमुक्षोः तदर्थं निष्पन्नोपासनस्य हार्दानुग्रहात् मूर्धन्यनाड्या उत्क्रान्तस्य परप्राप्तये गमनमार्गविचारः) अर्चिराद्यधिकरणम् ॥१॥ (अधिकरणार्थः – परं प्राप्नुवतः पुरुषस्य अर्चिरादिरेक एव मार्गः नियतश्चिन्तनीयः, नान्यः) ५०९. अर्चिरादिना तत्प्रथिते: ॥ ४–३–१ ॥ (पादसङ्गतिः पादविचार्योऽर्थश्च) विदुष उत्क्रान्तस्य नाडीविशेषेण हार्दानुग्रहाद्गत्युपक्रम उक्त: । तस्य गच्छतो मार्ग इदानीं निर्णीयते ॥ (विचारविषयस्योपस्थापनम्) तत्र श्रुतिषु मार्गप्रकारा: बहुधा आम्नायन्ते; छान्दोग्ये […]

श्रीभाष्यम् 04-02-11 दक्षिणायनाधिकरणम्

श्रीशारीररकमीमांसाभाष्ये दक्षिणायनाधिकरणम्॥११॥ (अधिकरणार्थः – दक्षिणायने मृतस्याऽपि विदुषः ब्रह्मप्राप्तिरस्त्येव, न चन्द्रं प्राप्य पुनरावृत्तिः) ५०७. अतश्चायनेऽपि दिक्षणे ॥ ४–२–१९ ॥ (सूत्रार्थानुवादः, अधिकाशङ्का च)                 निशि मृतस्यापि विदुषो ब्रह्मप्राप्तौ यो हेतुरुक्त:, तत एव हेतोर्दक्षिणेऽप्ययने मृतस्य ब्रह्मप्राप्तिस्सिद्धा ॥               अधिकाशङ्का तु  अथ यो दक्षिणे प्रमीयते पितृणामेव महिमानं गत्वा चन्द्रमसस्सायुज्यं गच्छति (तै.ना.५२.) इति दक्षिणायने मृतस्य चन्द्रप्राप्तिश्रवणात् चन्द्रं प्राप्तानां च तेषां […]

श्रीभाष्यम् 04-02-10 निशाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये निशाधिकरणम्॥१०॥ (अधिकरणार्थः – विदुषः निशि मृतस्यापि ब्रह्मप्राप्तिः अवश्यम्भाविनी) ५०६. निशि नेति चेन्न सम्बन्धस्य यावद्देहभावित्वाद्दर्शयति च ॥ ४–२–१८ ॥ (प्रकृतचिन्तोपयोगिसंशयप्रदर्शनम्) इदमिदानीं चिन्त्यते – विदुषो निशि मृतस्य ब्रह्मप्राप्तिरस्ति, नेति। (सिद्धान्तिच्छायया शङ्कापूर्वकं पूर्वपक्षस्वीकारः) यद्यपि निशायां सूर्यरश्मिसम्भवाद्रश्म्यनुसारेण गतिर्निशायामपि सम्भवति; तथापि निशामरणस्य शास्त्रेषु गर्हितत्वात्परमपुरुषार्थलक्षणब्रह्मप्राप्तिर्निशामृतस्य न सम्भवति । शास्त्रेषु दिवामरणं प्रशस्तम्, विपरीतं निशामरणं, दिवा च शुक्लपक्षश्च उत्तरायणमेव च। मुमूर्षतां प्रशस्तानि […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.