श्री विष्णुधर्मः अध्यायः 1-10
श्रीः श्रीमते रामानुजाय नमः श्री विष्णुधर्मः अध्यायः 1-10 नारायणं नमस्कृत्य नरं चैव नरोत्तमम् | देवीं सरस्वतीं व्यासम् (चैव) ततो जयम् उदीरयेत् ||१|| द्वैपायनौष्ठपुटनिःसृतमप्रमेयं पुण्यं पवित्रम् अथ पापहरं शुभं च | यो भारतं समधिगच्छति वाच्यमानं किं तस्य पुष्करजलैरभिषेचनेन ||२|| प्रथमोऽध्यायः क्रियायोगप्रवृत्तिः कृताभिषेकं तनयम् तु राज्ञः पारीक्षितस्य ह | द्रष्टुम् अभ्याययुः प्रीत्या शौनकाद्या महर्षयः || १ || […]