श्रीविष्णुपुराणम् Amsa 01 Ady 12

श्रीविष्णुपुराणम् अथ द्वादशोऽध्यायः       श्रीपराशरः – निशम्यैतदशेषेण मैत्रेय नृपतेस्सुतः । निर्जगाम वनात्तस्मात्प्रणिपत्य स तानृषीन् ॥ १ ॥ कृतकृत्यमिवात्मानं मन्यमानस्ततो द्विज । मधुसंज्ञं महापुण्यं जगाम यमुनातटम् ॥ २ ॥ पुनश्च मधुसंज्ञेन दैत्येनाधिष्ठितंयतः । ततो मधुवनंनाम्ना ख्यातमत्र महीतले ॥ ३ ॥ हत्वा च लवणं रक्षो मधुपुत्रं महाबलम् । शत्रुघ्नो मधुरांनाम पुरीं यत्र चकार वै ॥ ४ ॥ यत्र […]

श्रीविष्णुपुराणम् Amsa 01 Ady 11

श्रीविष्णुपुराणम् अथैकादशोऽध्यायः       श्रीपराशरः— प्रियव्रतोत्तानपादौ मनोस्वायंभुवस्य तु । द्वौ पुत्रौ सुमहावीर्यों धर्मज्ञौ कथितौ तव॥ १ ॥ तयोरुत्तानपादस्य सुरुच्यामुत्तमस्सुतः । अभीष्टायमभूद्ब्रह्मन्पितुरत्यन्तवल्लभः ॥ २ ॥ सुनीतिर्नाम या राज्ञस्तस्यासीन्महिषी द्विज । स नातिप्रीतिमांस्तस्यामभूद्यस्या ध्रुवस्सुतः ॥ ३॥ राजासनस्थितस्याङ्कं पितुर्भ्रातरमाश्रितम् । दृष्ट्वोत्तमं ध्रुवश्चक्रे तमारोढुं मनोरथम् ॥ ४ ॥ प्रत्यक्षं भूपतिस्तस्याः सुरुच्या नाभ्यनन्दत । प्रणयेनागतं पुत्रमुत्सङ्गारोहणोत्सुकम् ॥ ५ ॥ सपत्नीतनयं दृष्ट्वा तमङ्कारोहणोत्सुकम् […]

श्रीविष्णुपुराणम् Amsa 01 Ady 10

श्रीविष्णुपुराणम् अथ दशमोsध्यायः       मैत्रेयः – कथितंमे त्वया सर्वंयत्पृष्टोऽसि मया मुने । भृगुसर्गात्प्रभृत्येष सर्गों मे कथ्यतां पुनः ॥ १ ॥       अर्थ संक्षेपेणश्रुतं भृगुसर्ग विस्तरतः श्रोतुं पृच्छति कथितमिति ॥ १ ॥       श्रीपराशर:– भृगोः ख्यात्यां समुत्पन्ना लक्ष्मीर्विष्णुपरिग्रहः । तथा धातृविधातारौ ख्यात्यां जातौ सुतौ भृगोः॥ २ ॥        भृगोरिति ॥ परिग्रह:-कलत्रम् ॥ २ ॥ प्रायतिर्नियतिश्चैव मेरोः कन्ये महात्मनः । भार्ये धातृविधात्रोस्ते तयोर्जातौ […]

श्रीविष्णुपुराणम् Amsa 01 Ady 09

श्रीविष्णुपुराणम् अथ नवमोऽध्यायः ।      श्रीपराशरः— इदं च शृणु मैत्रेय यत्पृष्टोऽहमिह त्वया । श्रीसंबन्धं मयाऽप्येतच्छ्रुतमासीन्मरीचितः ॥ १ ॥                  मरीचिः-काश्यपपिता ॥१ ॥ दुर्वासाश्शङ्करस्यांशश्चचारपृथिवीमिमाम् । स ददर्श स्रजं दिव्यामृषिर्विद्याधरीकरे ॥ २ ॥ संन्तानकानामखिलं यस्या गंन्धेन वासितम्। अतिसेव्यमभूद्ब्रह्मन् तद्वनं वनचारिणाम् ॥ ३॥          दुर्वासा इति ॥ शंकरस्यांशइतिवक्ष्यमाणाक्षान्त्यादेहेतुनिर्देशः ॥ २, ३ ॥ उन्मत्तव्रतधुग्विप्रस्तां दृष्ट्वा शोभनां स्रजम् । तां ययाचे वरारोहां विद्याधरवधूं […]

श्रीविष्णुपुराणम् Amsa 01 Ady 08

श्रीविष्णुपुराणम् अथ अष्टमोऽध्यायः     श्रीपराशरः— कथितस्तामसस्सर्गो ब्रह्मणस्ते महामुने । रुद्रसर्गं प्रवक्ष्यामि तन्मे निगदतः शृणु ॥ १॥              कल्पादावात्मनस्तुल्यं सुतं प्रध्यायतस्ततः । प्रादुरासीत्प्रभोरङ्के कुमारोनीललोहितः ॥ २ ॥ रुरोद सुखरं सोऽथ प्राद्रवद्द्विजसत्तम । किं रोदिषीति तं ब्रह्मारुदन्तं प्रत्युवाच ह ।। ३ ।।          नित्यप्रलयहेतोरधर्मादेस्तामसस्य प्रसङ्गाद्भृगुसर्गमतिक्रम्य पूर्वोक्तकौमारसर्गान्तर्गतंतामसं रुद्रसर्गं प्रपञ्चयितुं प्रस्तौति कथित इति ॥१-३॥ नाम देहीतितं सोऽथ […]

श्रीविष्णुपुराणम् Amsa 01 Ady 07

श्रीविष्णुपुराणम् अथसप्तमोऽध्यायः श्रीपराशरः— ततोऽभिध्यायतस्तस्यजज्ञिरेमानसाःप्रजाः। तच्छरीरसमुत्पनैःकार्येस्तत्करणैःसह। क्षेत्रज्ञाःसमवर्तन्तगात्रेभ्यस्तस्यधीमतः॥१॥ अथमिथुनसृष्टिंवक्तुंमानसशारीरसृष्टीननुवदति–ततइत्यादिना।ततइति।कार्यैः—देहैः, करणैः–इन्द्रियैः; हिरण्यगर्भदेहभूतभूतोत्पन्नैर्देहैरिन्द्रियैःसहमानसाःकाश्चिन्मानस्य: प्रजाःजज्ञिरे।केचनक्षेत्रज्ञास्तस्यगात्रेभ्य:-अवयवेभ्यःकार्यकरणैःसहसमवर्तन्त॥१॥ तेसर्वेसमवर्तन्तयेमयाप्रागुदाहृताः।देवाद्याःस्थावरान्ताश्चत्रैगुण्यविषयेस्थिताः॥२॥ एवंभूतानिसृष्टानिचराणिस्थावराणिच॥३॥ यदाऽस्यताःप्रजाःसर्वानव्यवर्धन्तधीमतः।तदाऽन्यान्मानसान्पुत्रान्सदृशानात्मनोऽसृजत्॥४॥ भृगुंपुलस्त्यंपुलहंक्रतुमङ्गिरसंतथा।मरीचिंदक्षमत्रिंचवसिष्ठंचैवमानसान्॥५॥ तेसर्वइति॥ते–देवाद्याःस्थावरान्ताजीवास्त्रैगुण्यवशीकृताःसमवर्त्तन्त॥२-५॥ नवब्रह्माणइत्येतेपुराणेनिश्चयंगताः॥६॥ ख्यातिंभूतिंचसंभूतिंक्षमांप्रीतिंतथैवच।सन्नतिंजतथैवोर्जामनसूयांतथैवच॥७॥ प्रसूतिंचततस्सृष्ट्वाददौतेषांमहात्मनाम्।पत्न्योभवध्वमित्युक्त्वातेषामेवतुदत्तवान्॥८॥ सनन्दनादयोयेचपूर्वसृष्टास्तुवेधसा।नतेलोकेष्वसज्ज़न्तनिरपेक्षाःप्रजाःप्रति॥९॥ सर्वेतेऽभ्यागतज्ञानावीतरागाविमत्सराः।तेष्वेवंनिरपेक्षेषुलोकसृष्टौमहात्मनः॥१०॥ ब्रह्मणोभून्महान्क्रोधस्त्रैलोक्यदहनक्षमः।तस्यक्रोधात्समुद्भुतज्वालामालाभिदीपितम्। ब्रह्मणोऽभूत्तदासर्वंत्रैलोक्यमखिलंमुने॥११॥ भ्रुकुटीकुटिलात्तस्यललाटाक्रोधदीपितात्।समुत्पन्नस्तदारुद्रोमध्याह्नार्कसमप्रभः॥१२॥ अर्धनारीनरवपुःप्रचण्डोऽतिशरीरवान्।विभजात्मानमित्युक्त्वातंब्रह्मान्तर्दधेततः॥१३॥ नवब्रह्माणइति।पुराणे-ब्रह्माण्डादौ।पूर्वंसृष्टे: ॥६–१३॥ तथोक्तोऽसौद्विधास्त्रीत्वंपुरुषत्वंतथाऽकरोत्।बिभेदपुरुषत्वंचदशधाचैकधापुनः॥१४॥ सौम्यासौम्यैस्तथाशान्ताशान्तैःस्त्रीत्वंचसप्रभुः।विभेदबहुधादेवःस्वरूपैरसितैस्सितैः॥१५॥ तथोक्ताइति॥स्त्रीत्वंपुरुषत्वंचद्विधाअकरोत्-पृथक्चकार।पुंस्त्वंचैकादशविधंरूपभेदैः॥१४,१५॥ ततोब्रह्मात्मसंभूतंपूर्वंस्वायंभुवंप्रभुः।आत्मानमेवकृतवान्प्रजापाल्येमनुंद्विज॥१६॥ ततइति॥आत्मसंभूतम्।अतएवंस्वायंभुवम्आत्मानमेवतंप्रजापाल्येनिमित्तेपूर्वंमनुंकृतवान्॥१६॥ शतरूपांचतांनारींतपोनिर्धूतकल्मषाम्।स्वायंभुवोमनुर्देवःपत्नीत्वेजगृहेप्रभुः॥१७॥ तस्मात्तुपुरुषाद्देवीशतरूपाव्यजायत।प्रियव्रतोत्तानपादौप्रसूत्याकूतिसंज्ञितम्॥१८॥ शतरूपामिति॥शतरूपाम्-अर्द्धेनपुरुषोऽभवदर्द्धेननारीत्युक्तायाब्रह्मपत्न्याःशतरूपायाअंशभूतांब्रह्मांशभूतोमनुर्जगृहे॥१७, १८॥ कन्याद्वयंचधर्मज्ञरूपौदार्यगुणान्वितम्।ददौप्रसूतिंदक्षायआकूतिंरुचयेपुरा॥१९।। कन्याद्वयमिति॥प्रजापतिराकूतिंरुचयेददौ॥१९॥ प्रजापतिःसजग्राहतयोर्जज्ञेसदक्षिणः।पुत्रोयज्ञोमहाभागदम्पत्योर्मिथुनंततः॥२०॥ प्रजापतिरिति।सः-रुचिःजग्राह;तयोः–आकूतिरुच्योर्दम्पत्योःसदक्षिणोयज्ञःपुत्रोमिथुनंजज्ञे॥२०॥   यज्ञस्यदक्षिणायांतुपुत्राद्वादशजज्ञिरे।यामाइतिसमाख्यातादेवाःस्वायंभुवेमनौ॥२१॥ प्रसूत्यांचतथादक्षश्चतस्रोविंशतिस्तथा।ससर्जकन्यास्तासांचसम्यङ्नामानिमेशृणु॥२२॥ श्रद्धालक्ष्मीर्धृतिस्तुष्टिर्मेधापुष्टिस्तथाक्रिया।बुद्धिर्लज्जावपुश्शान्तिस्सिद्धिःकीर्तिस्त्रयोदशी॥२३॥ पत्न्यर्थंप्रतिजग्राहधर्मोदाक्षायणीःप्रभुः।ताभ्यःशिष्टायवीयस्यएकादशसुलोचनाः॥२४॥ ख्यातिःसत्यथसंभूतिःस्मृतिःप्रीतिःक्षमातथा।सन्ततिश्चानसूयाचऊर्जास्वाहास्वधातथा॥२५॥ भृगुर्भवोमरीचिश्चतथाचैवाङ्गिरामुनिः।पुलस्त्यःपुलहश्चैवक्रतुश्चर्षिवरस्तथा॥२६॥ अत्रिर्वसिष्ठोवह्निश्चपितरश्चयथाक्रमम्।ख्यात्याद्याजगृहुःकन्यामुनयोमुनिसत्तम॥२७॥ यज्ञस्येति॥स्वायंभुवेमनौ—मन्वन्तरे॥२१–२७॥ श्रद्धाकामंचलादर्पनियमंधृतिरात्मजम्।सन्तोषंचतथातुष्टिर्लोभंपुष्टिरसूयते॥२८॥ श्रद्धेति॥श्रद्धाकामंतथादर्पमितिपाठेतथेत्यनेनक्रमप्राप्तालक्ष्मीर्लक्ष्या।यथाकौर्मे* श्रद्धायास्तुसुतःकामोदर्पोलक्ष्म्यास्सुतस्स्मृतः * इति॥२८॥ मेधाश्रुतंक्रियादण्डंनयंविनयमेवच।।२९।। मेधेति॥क्रियादण्डम्-क्रियायां-तामस्यांदण्डः, […]

श्रीविष्णुपुराणम् Amsa 01 Ady 06

श्रीविष्णुपुराणम् अथषष्ठोऽध्यायः। मैत्रेयः— अर्वाक्स्रोतास्तुकथितोभवतायस्तुमानुषः।ब्रह्मविस्तरतोब्रूहिब्रह्मातमसृजद्यथा॥१॥ यथाचवर्णानसृजद्यद्गुणांश्चमहामुने।यच्चतेषांस्मृतंकर्मविप्रादीनांतदुच्यताम्॥२॥ श्रीपराशरः – सत्याभिध्यायिनःपूर्वंसिसृक्षोर्बह्मणोजगत्।अजायन्तद्विजश्रेष्ठसुवोद्रिक्तामुखात्प्रजाः॥३॥ वक्षसोरजसोद्रिक्तास्तथावैब्रह्मणोऽभवन्।रजसातमसाचैवसमुद्रिक्तास्तथोरुतः॥४॥ पद्भ्यामन्याःप्रजाब्रह्माससर्जद्विजसत्तम।तमःप्रधानास्ताःसर्वाश्चातुर्वर्ण्यमिदंततः॥५॥ ब्राह्मणाःक्षत्रियावैश्याःशुद्राश्चद्विजसत्तम।पादोरुवक्षस्थलतोमुखतश्चसमुद्गताः॥६॥ अथयज्ञादिसाधकानांमनुष्याणांवर्णाश्रमकर्मजीविकागतिसृष्ट्युक्तीःपृच्छतिअर्वागिति॥१-६॥ यज्ञनिष्पत्तयेसर्वमेतब्रह्माचकारवै।चातुर्वर्ण्यंमहाभागयज्ञसाधनमुत्तमम्॥७॥ यज्ञैराप्यायितादेवावृष्ट्युत्सर्गेणवैप्रजाः।आप्याययन्तेधर्मज्ञयज्ञाःकल्याणहेतवः॥८॥ यज्ञनिष्पत्तयइति॥शूद्रस्याध्ययनाग्न्याधानतत्साध्ययज्ञानधिकारेऽपिनमस्कारैकमन्त्रकपाकयज्ञदानद्विज- -शुश्रूषाद्यघिकारित्वाच्चातुर्वर्ण्यंयज्ञसाधनमित्युक्तम्॥७-८॥   निष्पाद्यन्तेनरैस्तैस्तुस्वधर्माभिरतैस्सदा।विशुद्धाचरणोपेतैःसद्भिस्सन्मार्गगामिभिः॥९॥ निष्पाद्यन्तइति।।प्रवचनरक्षणवाणिज्यपरिचर्याणांमुखाद्यङ्गसाध्यत्वाद्विप्रादीनांतत्तदङ्गसाध्य:क्रियोज्जीवित्वंस्वाध्यायस्वगृह्योक्तंस्वकर्म।सन्मार्ग:-शिष्टाचारः॥९॥ स्वर्गापवर्गोंमानुष्यात्प्राप्नुवन्तिनरामुने।यचाभिरुचितंस्थानंतद्यान्तिमनुजाद्विज॥१०॥ स्वर्गापवर्गाविति।।मानुष्य-मनुष्यकर्मतस्मात्।अभिरुचितं–भौमस्वर्गपातालादि॥१०॥ प्रजास्ताब्रह्मणासृष्टाश्चातुर्वर्ण्यव्यवस्थिताः।सम्यक्छ्रद्धाःसमाचारप्रवणामुनिसत्तम॥११॥ प्रजाइति॥व्यवस्थितावितिपाठेव्यवस्थितौनियमे।।११।। यथेच्छावासनिरताःसर्वबाधाविवर्जिताः।शुद्धान्तःकरणाश्शुद्धाःकर्मानुष्ठाननिर्मलाः॥१२॥ यथेति॥यथेच्छःआवासः-वासस्थानम्आश्रमोवातस्मिन्निरताः।शुद्धान्त:करणाः-अहंकारफलसङ्गहीनाः, शुद्धाः-स्नानादिना॥१२॥   शुद्धेचतासांमनसिशुद्धेऽन्तस्संस्थितेहरौ।शुद्धज्ञानंप्रपश्यन्तिविष्ण्वाख्यंयेनतत्पदम्॥१३॥ शुद्धेचेति।।शुद्धे-अनुष्ठानेनविरागे, शुद्धज्ञानं-शुद्धज्ञानस्वरूपम्॥१३॥ ततःकालात्माकोयोऽसौसचांशःकथितोहरेः।संपातयत्यघंघोरम(ल)ल्पमल्पाल्पसारवत्॥१४॥ ततइति।ततः-त्रेतामुखानन्तरम्।अल्पमल्पाल्पसारवत्इतिपाठे.अल्पम्-उद्भूतंजातम्।अल्पाल्पसारवत्–अत्यल्पसुखं, घोरं-बहुदुःखम्॥१४॥ अधर्मबीजमुद्भूतंतमोलोभसमुद्भवम्।प्रजासुतासुमैत्रेयरागादिकमसाधकम्॥१५॥ अधर्मेति॥अधर्मबीजम्-अधर्मस्यकारणम्, तम:क्रोधसमुद्भवम्-क्रोधलोभयोर्हेतुम्, असाधकम्-अष्टसिद्धिविरोधिरागादिकम्, अयंकालःप्रजासुपातयति-क्षिपतीतिपूर्वेणान्वयः।अधर्मबीजमुद्भूतमितिचपाठः॥१५॥ ततस्सासहजासिद्धिस्तासांनातीवजायते।रसोल्लासादयश्चान्याःसिद्धयोऽष्टौभवन्तियाः॥१६॥ ततइति।सहजासिद्धिः-औत्पत्तिकंज्ञानम्।ॐकृतेतुमिथुनोत्पत्तिःसिद्धिश्चापिरसोल्लसा।सकृद्द्वृष्टिमयीचान्यागृहवृक्षात्मिकाऽपरा॥पश्चात्संकल्पसिद्धिश्चकल्पवृक्षात्मिकाऽपरा।प्रकामवृष्टिश्चाकृ -ष्टपच्यसिद्धिस्तथाऽष्टमी॥इत्यष्टसिद्धयः।रसोल्लास:-योगाभ्यासबलात्स्वमूर्द्धन्यमृतांशुबिम्बस्रवदमृततृप्तता।यथास्कान्दे—* रसस्यस्वतएवान्तरुल्लासःस्यात्कृतेयुगे।रसोलसाखयासासिद्धिस्तयाहन्तिक्षुधंनरः॥इति।स्त्रीनैरपेक्ष्येणानन्दोमिथुनोत्पत्तिः।यथातत्रैव *स्त्रियादिनैरपेक्ष्येणसदातृप्ताःप्रजास्तथा।द्वितीयासिद्धिरुद्दिष्टा*इति।कौर्मेच* कृतेतुमिथुनोत्पत्तिस्तथासाक्षाद्रसोल्लसा।प्रजास्तृप्ताःसदासर्वाःसर्वानन्दाश्चयोगिनः॥इति।सकृद्वृष्टिमयी. सकृद्वृष्ट्यासस्यनिष्पत्तिः।गृवृक्षात्मिका–इच्छयागृहवृक्षोद्गमः।संकल्पसिद्धिः-संकल्पेनाभिमतसिद्धिः।कल्पवृक्षात्मिका-भरद्वाजाश्रमवत्।प्रकामवृष्टिः-निकामेनिकामेवृष्टिः।अकृष्टपच्यसिद्धिः-अकृष्टपच्यभूमित्वमिति, पुराणेष्वष्टसिद्धयेबहुधोक्ताः॥१६॥ तासुक्षीणास्वशेषासुवर्द्धमानेचपातके।द्वन्द्वाभिभवदुःखार्तास्ताभवन्तिततःप्रजाः॥१७॥ तास्विति॥द्वन्द्वं-शीतोष्णादि॥१७॥ ततोदुर्गाणिताश्चक्रुर्धान्वंपार्वतमौदकम्।कृत्रिमंचतथादुर्गंपुरखर्वटकादिकम्॥१८॥ ततःइति॥धान्वं-बहिर्निर्जलंमरुदुर्गम्।धान्वंपार्वतमितिपाठः।कृत्रिमं-क्रियानिर्वृत्तंवनादि।पुरादिलक्षणंभृगूक्तम्*नृपावासःपुरीप्रोक्ताविशांपुरमितीष्यते।एकतोयत्रतुग्रामोनगरंचैकतःस्थितम्॥मिश्रंतत्खर्वटंनामनदीगिरिसमाश्रितम्॥इति।आदिशब्दाच्छिबिरपत्तनादि॥१८॥ गृहाणिचयथान्यायंतेषुचक्रुःपुरादिषु।शीतातपादिबाधानांअशमायमहामते॥१९॥ गृहाणीति॥यथान्यायं-वास्तुशास्त्रानतिक्रमेण॥१९॥ प्रतीकारमिमंकृत्वाशीतादेस्ताःप्रजाःपुनः।वार्तोपायंततश्चक्रुर्हस्तसिद्धिंचकर्मजाम्॥२०॥ प्रतीकारमिति|| वार्ता-कृष्यादिः।हस्तसिद्धिः–शिल्पादिः॥२०॥ […]

श्रीविष्णुपुराणम् Amsa 01 Ady 05

श्रीविष्णुपुराणम् अथपञ्चमोऽध्यायः   मैत्रेयः— यथाससर्जदेवोऽसौदेवर्षिपितृदानवान्।मनुष्यतिर्यग्वृक्षादीन्भूव्योमसलिलौकसः॥१॥ अथवैकृतसर्गंविस्तरेणपृच्छतियथेति॥१॥   यद्गुणंयत्स्वभावंचयद्रूपंचजगद्द्विज।सर्गादौसृष्टवान्ब्रह्मातन्ममाचक्ष्वकृत्स्नशः॥२॥ श्रीपराशरः— मैत्रेयकथयाम्येतच्छृणुष्वसुसमाहितः।यथाससर्जदेवोऽसौदेवादीनखिलान्विभुः॥३॥ यदुगुणमिति।।गुणाः-सत्त्वाद्याः, स्वभाव:-शीलं, रूपम्-आकारः॥२, ३॥ सृष्टिंचिन्तयतस्तस्यकल्पादिषुयथापुरा।अबुद्धिपूर्वकःसर्गःप्रादुर्भूतस्तमोमयः॥४॥ सृष्टिमिति॥यथापुरा–यथापूर्वम्,कल्पादिषुतथाचिन्तयतःअबुद्धिपूर्वक:-विशेषध्यानरहितः, | तमोमयः–तमोगुणप्रचुरः, सर्गः-~-नगसर्गः॥४॥ तमोमोहोमहामोहम्ताम्रिस्रोह्यन्धसंज्ञितः।अविद्यापञ्चपर्वैषाप्रादुर्भूतामहात्मनः॥५॥ तमोमोहइति॥अविद्यापर्याया: तम:प्रभृतयोमहात्मनःप्रादुर्भूताः।।५।। पञ्चधाऽवस्थितःसर्गोंध्यायतोऽप्रतिबोधवान्।बहिरन्तोऽप्रकाशश्चसंवृतात्मानगात्मकः॥६॥ एतत्स्वभावकतयावृक्षादिरूपेणचपञ्चधानगसर्गइत्याह-पञ्चधेति॥ज्ञानाल्पत्वप्राचुर्येणवृक्षगुल्मलतावीरुत्तृणेषुतमसादिस्वभावव्यवस्था।अपतिबोधनादितिनगसर्गस्यतामसत्त्वेहेतुः।अप्रतिबोधनादितिवापाठः।बहिः-शब्दादिषु, अन्त:—सुखादिषुच,अप्रकाशः-प्रकृष्टज्ञानरहितः।जलाद्यादानक्षतभग्नसंरोहणदोहनादिभिर्वृक्षादीनांकिञ्चिज्ज्ञातृत्व– -सिद्धे: ; * अन्तस्संज्ञाभवन्त्येतेसुखदुःखसमन्विताः * इत्यादेश्च।संवृतात्मा-तमसासंवृतचैतन्यः॥६॥ मुख्यानगायतःप्रोक्तामुख्यसर्गस्ततस्त्वयम्॥७॥ मुख्याइति।मुख्याः–तिर्यगादिसर्गस्यादौजाताः॥७॥ तंदृष्ट्वाऽसाधकंसर्गममन्यतपरंपुनः॥८॥ तमिति॥असाधकं-कर्मानधिकारात्संसाराद्यप्रवर्तकम्॥८॥ तस्याभिध्यायतःसर्गस्तिर्यक्स्त्रोतोऽभ्यवर्तत।यस्मात्तिर्यक्प्रवृत्तिस्सतिर्यक्स्रोतास्ततःस्मृतः॥९॥ तस्येति॥तिर्यक्स्रोता:-वायुवत्तिर्यक्प्रवृत्तः।पार्श्वाभ्यामुत्पन्नइतिवा।।९।।   पश्वादयस्तेविख्यातास्तमःप्रायाह्यवेदिनः।उत्पथग्राहिणश्चैवतेऽज्ञानेज्ञानमानिनः।।१०।। पश्वादयइति॥अवेदिनः-अविवेकिनः, उत्पथग्राहिण:–मातृगमनादिदुर्मार्गगताः, अज्ञाने–सम्यग्ज्ञानाभावेऽपिसम्यग्ज्ञानमानिनः॥१०॥ अहंकृताअहंमानाअष्टाविंशद्वधात्मकाः।अन्तःप्रकाशास्तेसर्वेह्यावृताश्चपरस्पम्॥११॥ अहंकृताइति।अहंकृताः–अवलिप्ताः, अहंमानाः-तद्धेतुशरीरात्माभिमानिनः।अष्टाविंशद्वधात्मका:– अष्टविंशतिशक्तिवधावायूक्ता: *एकादशेन्द्रियवधानवधांभादयस्तथा।अष्टौचतारकाद्याश्चतेषांशक्तिवधामताः*इति।इन्द्रियवैकल्यमेकादशविधम्, बाधिर्यंत्वग्दोष: अन्ध्यंवैरस्यंनासाध्वंसोमूकत्वंकुणित्वंपङ्गुत्वंवैक्लव्यम्उदावर्तोजडत्वंचेति, अम्भादिनवतुष्टीनांतारकाद्यष्टसिद्धीनांचवैकल्यं, सप्तदशविधंबुद्धिवधाख्यंवैकल्यंतिरश्चांप्रायिकमित्यर्थः।तत्राष्टविधायांप्रकृत्यांचित्तलयान्मुक्तोऽस्मीतितुष्टिरम्भाख्या, संन्यासवेषोपादानमात्रा– त्कृतार्थोऽस्मीतितुष्टिःसलिलाख्या,कालान्तरेसेत्स्यतीतितुष्टिरापाख्या, भाग्यादेवसेत्स्यतीतितुष्टिर्वृष्ट्याख्या, एताःप्रकृत्युपादानकालभाग्यलक्षणाआध्यात्मिकाश्चतस्रस्तुष्टयः।अर्थस्यार्जनेरक्षणेक्षयेभोगेभोगावैतृष्ण्येचक्लैशादिदोषदर्शनादर्थाजनादिविरक्तोमुक्तोऽस्मीतितुष्टयः, […]

श्रीविष्णुपुराणम् Amsa 01 Ady 04

श्रीविष्णुपुराणम् अथचतुर्थोsध्यायः। मैत्रेयः— ब्रह्मानारायणाख्योऽसौकल्पादौभगवान्यथा।ससर्जसर्वभूतानितदाचक्ष्वमहामुने॥१॥ श्रीपराशर:– प्रजाःससर्जभगवान्ब्रह्मानारायणात्मकः।प्रजापतिपतिर्देवोयथातन्मेनिशामय॥२॥ अतीतकल्पावसानेनिशासुप्तोत्थितःप्रभुः।सत्त्वोद्रिक्तस्तदाब्रह्माशून्यंलोकमवैक्षत॥३॥ नारायणःपरोऽचिन्त्यःपरेषामपिसप्रभुः।ब्रह्मस्वरूपीभगवाननादिःसर्वसंभवः॥४॥ अथपाद्मकल्पकथाविषयाद्ब्रह्मप्रोक्तात्पाद्मपुराणादनन्तरंवाराहकल्पवृत्तान्तविषयमिदंवैष्णवंपुराणमितिदर्शयितुंप्राक्परार्द्धप्राप्तंपाद्मंकल्पमनूद्यवराहकल्पवृत्तान्तंप्रस्तौति-अतीतकल्पेति।तथोक्तंमात्स्ये*एतदेवचवैब्राह्मंपाद्मेकल्पेजगद्धितम्।सर्वभूतात्मकंयत्तत्पाद्ममित्युच्यतेबुधैः।वाराहकल्पवृत्तान्तधिकृत्यपराशरः।*   यान्प्राहधर्मानखिलांस्तदुक्तंवैष्णवंविदुः॥इति।सत्वोद्रिक्तः–भगवदनुप्रवेशातिशयात्| तस्यैववराहाद्यवतारप्रसिद्धेः॥१-४॥ इमंचोदाहरन्त्यत्रश्लोकंनारायणंप्रति।ब्रह्मस्वरूपिणंदेवंजगतःप्रभवाप्ययम्॥५॥ अत्रब्रह्मनारायणयोःस्वरूपैक्यशङ्कायांमन्वादयस्तयोर्भेदपरंनारायणविषयंश्लोकमुदाहरन्तीत्याह–इमंचेति॥५॥ आपोनाराइतिप्रोक्ताआपोवैनरसूनवः।अयनंतस्यताःपूर्वंतेननारायणःस्मृतः॥६॥ तमेवश्लोकंदर्शयतिआपइति॥ * प्रादुरासीत्तमोनुदः * इतिप्रकृतेःपरमकारणभूतोभगवानविनाशित्वेननरइत्युच्यते।तत्सृष्टाआपोनाराः।अप्छब्दःसृज्यतत्त्वान्तरप्रदर्शनपरः *नराज्जातानितत्त्वानिनाराणीतिततोविदुः।तान्येवचायनंतस्यतेननारायणःस्मृतः॥इत्यादिदर्शनात्।अस्यायनम्-अनुप्रविष्टस्यशरीरम्।*यदम्बुवैष्णवःकायः * इतिवक्ष्यति।पूर्वं–ब्रह्मसृष्टेःप्राकू।कारणभूतेभगवतिनारायणशब्दनिर्वचनात्तस्यकार्यभूताब्रह्मणोमेदइतिभावः॥६॥   तोयान्तस्स्थांमहींज्ञात्वाजगत्येकार्णवीकृते।अनुमानात्तदुद्धारंकर्तुकामःप्रजापतिः॥७॥ अकरोत्स्वतनूमन्यांकल्पादिषुयथापुरा।मत्स्यकूर्मादिकांंतद्वद्वाराहंवपुरास्थितः॥८॥ तोयान्तामिति।तोयान्तांसमहीमितिपाठान्तरम्।तोयेनान्तोनाशोयस्यास्ताम्।अनुमानात्-     * सोऽपश्यत्पुष्करपर्णमितिपुष्करपर्णलिङ्गदर्शनात्ज्ञात्वा, नारायणमूर्तरन्यांमत्स्यकूर्मादिकांस्वतनुंयथापुराsकरोत्तथावाराहरूपमास्थितस्तोयंप्रविवेशेत्यन्वयः॥७, ८॥ वेदयज्ञमयंरूपमशेषजगतःस्थितौ।स्थितःस्थिरात्मासर्वात्मापरमात्माप्रजापतिः।।९।। वेदेति॥वेदयज्ञमयंरूपं–वेदयज्ञमयत्वेननिरूपणीयम्; वेदवैदिकधर्मैर्भूर्धार्यतइतिभावः।स्थितौस्थितः –स्थितिनिमित्तमास्थितः, स्थिरात्मा-रक्षणेस्थिरचित्तः॥९॥ जनलोकगतैस्सिद्धैस्सनकाद्यैरभिष्टुतः।प्रविवेशतदातोयमात्माधारोधराधरः॥१०॥ जनलोकेति॥अमिष्टुतः–सृष्ट्यर्थमुद्बोधितमहिमा; स्तूयमानाहिदेवतावीर्येणवर्द्धतेइतिन्यायात्॥१०॥   निरीक्ष्यतदादेवीपातालतलमागतम्।तुष्टावप्रणताभूत्वाभक्तिनम्रावसुन्धरा॥११॥ श्रीपृथिव्युवाच नमस्तेपुण्डरीकाक्षशङ्खचक्रगदाधार।मामुद्धरास्मादद्यत्वंत्वत्तोऽहंपूर्वमुत्थिता॥१२॥ नमइति॥मामुद्धरअस्मात्-प्रलयाब्धेः।त्वत्तउत्थिता-उत्पन्ना॥१२॥   त्वयाऽहमुद्धृतापूर्वंत्वन्मयाऽहंजनार्दन।तथाऽन्यानिचभूतानिगगनादीन्यशेषतः॥१३॥ त्वयेति॥त्वन्मया-त्वन्मयीत्वदुपादाना॥१३॥ नमस्तेपरमात्मात्मन्पुरुषात्मन्नमोऽस्तुते।प्रधानन्यक्तभूतायकालभुतायतेनमः॥१४॥ नमइति॥परमात्मात्मन्-पुरुषादिचतूरूपविलक्षणस्वरूप !अप्ययेअनिरुद्धादयःपुरुषाच्युतसत्य- –वासुदेवाख्याः॥१४॥ त्वंकर्तासर्वभूतानांत्वंपातात्वंविनाशकृत्।संगदिषुप्रभोब्रह्मविष्णुरुद्रात्मरूपधृक्॥१५॥ त्वमिति।।ब्रह्मेत्यादि—ब्रह्मविष्णुरुद्ररूपधर !॥१५॥ संभक्षयित्वासकलंजगत्येकार्णवीकृते।शेषेत्वमेवगोविंदचिन्त्यमानोमनीषिभिः॥१६॥ भवतोयत्परं […]

श्रीविष्णुपुराणम् Amsa 01 Ady 03

श्रीविष्णुपुराणम् अथतृतीयोऽध्यायः मैत्रेयः— निर्गुणस्याप्रमेयस्यशुद्धस्याप्यमलात्मनः।कथंसर्गादिकर्तृत्वंब्रह्मणोऽभ्युपगम्यते॥१॥ लोकेरागद्वेषसत्त्वादिगुणकस्यशरीरिणःपरिच्छिन्नस्यकर्मवश्यस्यतत्संबन्धार्हस्यैवकुलालादेःकर्तृत्वंदृष्टम्।ब्रह्मणस्तद्विलक्षणस्यकथंजगत्सर्गादिकर्तृत्वमिहोच्यतेइतिचोदयति-निर्गुणस्येति॥१॥ . श्रीपराशरः— शक्तयःसर्वभावानामचिन्त्यज्ञानगोचराः।यतोऽतोब्रह्मणस्तास्तुसर्गाद्याभावशक्तयः।भवन्तितपतांश्रेष्ठपावकस्ययथोष्णता॥२॥ परिहरति-शक्तयइत्यादिसार्द्धश्लोकेन।शक्तयइति॥सर्वपदार्थानांवह्नेरौष्ण्यमिवस्वाभाविक्यः , शक्तयःतर्केरचिन्त्याःस्वसाधकप्रमाणगोचराःसन्ति।अतोब्रह्मणोऽपि*पराऽस्यशक्तिर्विविधैवश्रूयतेस्वाभाविकीज्ञानबलक्रियाच *इत्यादिश्रुतिप्रसिद्धाःजगत्सर्गादिनिमित्तभूताःभावशक्तयः-स्वाभाविकसामर्थ्यानिसन्ति।अतोलौकिककर्तृवैलक्षण्येsपिसर्गादिकर्तृत्वंयुक्तम्।सर्गाद्याइति।सृज्यतेऽनयेतिसर्गः। * अकर्त्तरिचकारके *इतिकरणेघञ्प्रत्ययः।सृष्ट्यादिकरणभूताइत्यर्थः।तपतांश्रेष्ठइतिसंबुद्धिः।अत्रब्रह्मणोऽशरीरत्व- -मभ्युपगम्यशक्तिमत्वात्कर्तृत्वमुक्तम्।परमार्थतस्तुदिव्यमंगलविग्रहवत्वमस्त्येव।यद्वालोकेसत्त्वादिगुणकं’ परिच्छिन्नंचमृदाद्युपादानंदृष्टम्।देहादियुक्तोरागादिनामलिनश्चकुलालादिर्निमित्तम्; ब्रह्मणस्तुतद्वैलक्षण्यात्कथमुपादानत्वंनिमित्तत्वंचेतिचोद्यम्।उत्तरंतुलोकेनायंनियमः।द्रव्यलक्षणेहिनिर्गुणमेवाचिद्द्रव्यंगुणानामुपादानंदृष्टम्।अपरिच्छिन्नएवाकाशादिःशब्दादेः, अशरीरएवात्मास्वशरीरप्रेरणेनिमित्तंदृष्टः।रागादिरहितएवस्खलनादौ, अयत्नएवायस्कान्तादिर्लोहभ्रमणादौहेतुर्दृष्टइत्येवंत्वदुक्तव्याप्तिभंगइत्यभिप्रायः॥सर्वभावानांस्वकार्योत्पादनशक्तयःस्वप्रमाणसिद्धत्वादन्यानन्यत्वादिविकल्पैरविचारणीयाःसन्ति।यथाग्नेर्दोहकत्वशक्तिः।एवंब्रह्मणोजगत्सर्गादिहेतवःस्वाभाविक्यःशक्तयःसन्तीति।यथाहुः–* नचपर्यनुयोगोऽस्ति।वस्तुशक्तेःकथञ्चन।अग्निर्दहतिनाकाशंकाऽत्रपर्यनुयुज्यता॥ * आर्षंधर्मोपदेशंचवेदशास्त्राविरोधिना।यस्तर्केणानुसन्धत्तेसधर्मंवेदनेतरः॥इत्यादि॥२॥ तन्निबोधयथासर्गेभगवान्सम्प्रबर्तते।नारायणाख्योभगवान्ब्रह्मालोकपितामहः॥३॥ तन्निबोधेति।।नारायणाख्यःसृष्टौनारायणोलोकपितामहोब्रह्मा-ब्रह्मरूपेण॥३॥ उत्पन्नःप्रोच्यतेविद्वन्नित्यमेवोपचारतः॥४॥ उत्पन्नइति॥उत्पन्नइत्युपचारेणोच्यते।सतुनित्यएव|. अत्रनारायणत्वंहेतुः।स्वेच्छयैवसर्वात्मकत्वरूपत्वात्तस्य।कर्माधीनशरीरपरिग्रहोहिमुख्योत्पत्तिः।यद्वारात्रौनारायणेप्रवेशेननारायणाख्योब्रह्माप्रतिकल्पमुत्पन्नइत्युपचारतउच्यते।द्विपरार्धकालस्थायित्वेननित्यत्वात्तस्यस्वेच्छागृहीतशरीरस्यापिकादाचित्कत्वसाम्यादुत्पन्नत्वोपचारः।रात्रौनारयणत्वंब्रह्मणःकौमेंउक्तम्, * ततोऽवतीर्यविश्वात्मादेहमाश्रित्य चक्रिणः।अवापवैष्णवींनिद्रामेकीभूयाथविष्णुना॥इति॥४॥ निजेनतस्यमानेनआयुर्वर्षशतंस्मृतम्।तत्पराख्यंतदर्धंचपरार्द्धमभिधीयते।।५।। निजेनेति।निजेन-ब्राह्मेणमानेन-कालपरिमाणेन।सर्वसंसार्यायुषोऽधिकत्वात्तस्यायुःपरमित्युच्यते॥५॥   कालस्वरूपंविष्णोश्चयन्मयोक्तंतवानघ।तेनतस्यनिबोधत्वंपरिमाणोपपादनम्॥६॥ कालेत्यादि।तेन–कालेन, तस्य–ब्रह्मणः, परिणामोपपादनं-नाशरूपस्यपरिणामस्योपपादनं–निर्वर्तनंनिबोध।परिमाणोपपादनमितिंपाठेब्रह्मादीनांजीवनेइयत्ताक्लृप्तिः॥६॥   अन्येषांचैवजन्तूनांचराणामचराश्चये।भूभुभ्रत्सागरादीनामशेषाणांचसत्तम।।७॥ अन्येषामिति॥अन्येषापरिणामोपपादनमितिशेषः॥७॥ काष्ठापञ्चदशाख्यातानिमेषामुनिसत्तम।काष्ठात्रिंशत्रुलात्रिंशत्कला. मौहूत्तिकोविधिः॥८॥ कालस्वरूपमाह-काष्ठेत्यादिना।।काष्ठेति।मौहूर्त्तिकोविधिः-मुहूर्त्तप्रकारः॥८॥ तावत्संख्यैरहोरात्रंमुहूर्तैर्मानुषंस्मृतम्।अहोरात्राणितावन्तिमासःपक्षद्वयात्मकः॥९॥ तैःषड्भिरयनंवर्षंद्वेऽयनेदक्षिणोत्तरे।अयनंदक्षिणंरात्रिर्देवानामुत्तरंदिनम्॥१०॥ दिव्यैर्वर्षसहस्रैस्तुकृतत्रेतादिसंज्ञितम्।चतुर्युगंद्वादशभिस्तद्विभागंनिबोधमे॥११॥ चत्वारित्रीणिद्वेचैकंकृतादिषुयथाक्रमम्।दिव्याब्दानांसहस्राणियुगेष्वाहुःपुराविदः॥१२॥ तत्प्रमाणैःशतैःसन्ध्यापूर्वातंत्राभिधीयते।सन्ध्यांशश्चैवतत्तुल्योयुगस्यानन्तरोहिसः॥१३॥ सन्ध्यासन्ध्यांशयोरन्तर्यःकालोमुनिसत्तम।युगाख्यःसतुविज्ञेयःकृतत्रेतादिसंज्ञितः॥१४॥ कृतंत्रेताद्वापरश्चकलिश्चैवचतुर्युगम्।प्रोच्यतेतत्सहस्रंचब्रह्मणोदिवसंमुने॥१५॥ ब्रह्मणोदिवसेब्रह्मन्मनवस्तुचतुर्दश।भवन्तिपरिणामंचतेषांकालकृतंशृणु॥१६॥ सप्तर्षयःसुराःशक्रोमनुस्तत्सूनवोनृपाः।एककालेहिसृज्यन्तेसंह्रियन्तेचपूर्ववत्॥१७॥ तावदिति॥यद्यपित्रिशन्मुहूर्ता: सावनोऽहोरात्र:,शुक्लकृष्णद्विपक्षात्मकश्चान्द्रोमासः, […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.