श्रीविष्णुपुराणम् Amsa 01 Ady 22

  श्रीविष्णुपुराणम् अथ द्वाविंशोऽध्यायः        श्रीपराशर:- यदाऽभिषिक्तस्स पृथुःपूर्वं राज्ये महर्षिभिः । ततः क्रमेण राज्यानि ददौ लोकपितामहः ॥१॥        अथ पितामहः पृथोरभिषेकोत्तरं पूर्वसृष्टानामाधिपत्यविभागं तत्तन्मर्यादास्थापनार्थमकरोदित्याह यदेति ॥ ततः कालादारभ्य ॥ १ ॥ नक्षत्रग्रहविप्राणां वीरुधां चाप्यशेषतः । सोमं राज्ये न्यघाद्ब्रह्मा यज्ञानां तपसामपि ॥२॥        नक्षत्रेति ॥ राज्ये-आधिपत्ये ॥ २ ॥ राज्ञां वैश्रवणं राज्ये जलानां वरुणं तथा । आदित्यानां […]

श्रीविष्णुपुराणम् Amsa 01 Ady 21

  श्रीविष्णुपुराणम् अथ एकविंशोऽध्यायः       श्रीपराशर:- प्रह्लादपुत्र आयुष्माञ्छिबिर्बाष्कल एव च । विरोचनस्तु प्राहलादिर्बलिर्जज्ञे विरोचनात् ॥१॥ बलेः पुत्रशतं त्वासीद्बाणज्येष्ठ महामुने । हिरण्याक्षसुताश्चासन्सर्व एव महाबलाः ॥२॥ झर्झरः शकुनिश्चैव भूतसन्तापनस्तथा । महानाभो महाबाहुः कालनाभस्तथाऽपरः ॥ ३ ॥ अभवन्दनुपुत्राश्च द्विमूर्द्धा शंबरस्तथा । अयोमुखः शंकुशिराः कपिलः शंकरस्तथा ॥४॥ एकचक्रो महाबाहुस्तारकश्च महाबलः । स्वर्भानुर्वृषपर्वा च पुलोमा च महाबलः ॥ ५ ॥ […]

श्रीविष्णुपुराणम् Amsa 01 Ady 20

  श्रीविष्णुपुराणम् अथ विंशोऽध्यायः      श्रीपराशर: – एवं संचिन्तयन्विष्णुमभेदेनात्मनो द्विज । तन्मयत्वमवापाग्र्यं मेने चात्मानमच्युतम् ॥ १ ॥          विशदविशदतरविशदतमक्रमेण योगकाष्ठां प्राप्त इत्याह एवमिति ॥ आत्मनोऽमेदेन-स्वशरीरकत्वेन । विष्णुशब्दः कारणवाची, आत्मशब्दः कार्यभूतस्वप्रकारकविष्णुवाची, तेनाप्यभेदः। तन्मयत्वं-तत्प्राचुर्यम् । अग्र्यम् -उत्कृष्टं, स्वस्य तदात्मकत्ववैशद्यमवाप । अत एवात्मानमच्युतं मेने | तन्मयत्वमवाप्याग्रे  इति च पाठः॥१॥ विसस्मार तदाssत्मानं नान्यत्किञ्चिदजानत । अहमेवाव्ययोsनन्तः परमात्मेत्यचिन्तयत् ॥ २ ॥ […]

श्रीविष्णुपुराणम् Amsa 01 Ady 19

श्रीविष्णुपुराणम् अथ एकोनविंशोऽध्यायः     श्रीपराशर: – हिरण्यकशिपुः श्रुत्वा तां कृत्यां वितथीकृताम् । आहूय पुत्रं पप्रच्छ प्रभावस्यास्य कारणम् ॥१॥     हिरण्यकशिपु:- प्रह्लाद सुप्रभावोऽसि किमेतत्ते विचेष्टितम् । एतन्मन्त्रादिजनितमुताहो सहज तव ॥२॥     श्रीपराशरः – एवं पृष्टस्तदा पित्रा प्रहादोऽसुरबालकः । प्रणिपत्य पितुः पादाविदं वचनमब्रवीत् ॥ ३ ॥     प्रह्लादः- न मंत्रादिकृतस्तात न च नैसर्गिको मम । प्रभाव एष […]

श्रीविष्णुपुराणम् Amsa 01 Ady 18

श्रीविष्णुपुराणम् अथ अष्टादशोऽध्यायः      श्रीपराशरः –  तस्यैतां दावनवाश्चेष्टां दृष्ट्वा दैत्यपतेर्भयात् । आचचख्युः स चोवाच सूदानाहूय सत्वरः ॥१॥              तस्येति ॥ चेष्टाम्-उपदेशात्मिकाम् ॥ १॥      हिरण्यकशिपु: – हे सूदा मम पुत्रोऽसावन्येषामपि दुर्मतिः । कुमार्गदेशिको दुष्टो हन्यतामविलम्बितम् ॥ २ ॥             हे सूदा इति ॥ देशिक:-उपदेशकृत् ॥ २॥ हालाहलं विषं तस्य सर्वभक्ष्येषु दीयताम् । अविज्ञातमसौ पापो हन्यतां […]

श्रीविष्णुपुराणम् Amsa 01 Ady 17

श्रीविष्णुपुराणम् अथ सप्तदशोऽध्यायः      श्रीपराशर: – मैत्रेय श्रूयतां सम्यक् चरितं तस्य धीमतः । प्रह्लादस्य सदोदारचरितस्य महात्मनः ॥१॥ दितेः पुत्रो महावीर्यो हिरण्यकशिपुः पुरा । त्रैलोक्यं वशमानिन्ये ब्रह्मणो वरदर्पितः ॥ २॥ इन्द्रत्वमकरोद्दैत्यः स चासीत्सविता स्वयम् । वायुरग्निरपां नाथः सोमश्चाभून्महामुरः ॥३॥ धनानामधिपस्सोऽभूत्स एवासीत्स्वयं यमः। यज्ञभागानशेषांस्तु स स्वयं बुभुजेऽसुरः॥४॥ देवाः स्वर्गं परित्यज्य तत्त्रासान्मुनिसत्तम । विचेरुरवनौ सर्वे विभ्राणा मानुषीं तनुम् […]

श्रीविष्णुपुराणम् Amsa 01 Ady 16

श्रीविष्णुपुराणम् अथ षोडशोऽध्याय     मैत्रेय:- कथितो भवता वंशो मानवानां महात्मनाम् । कारणं चास्य जगतो विष्णुरेव सनातनः ॥१॥        कथित इति ॥ मानवानाम् स्वायंभुवमनुवंश्यानाम् उत्तानपादादीनाम् । कारणमिति शास्त्रतात्पर्यार्थं– प्रश्नोत्तरस्मरणम् ॥ १॥ यत्वेतद्भगवानाह प्रह्लादं दैत्यसत्तमम् । ददाह नाग्निर्नास्त्रैश्च क्षुण्णस्तत्याज जीवितम् ॥ २॥ जगाम बसुधा क्षोभं यत्राब्धिसलिले स्थिते । पाशैर्बद्धे विचलति विक्षिप्ताङ्गैः समाहता ॥३॥ शैलैराक्रान्तदेहोऽपि न ममार च […]

श्रीविष्णुपुराणम् Amsa 01 Ady 15

  श्रीविष्णुपुराणम् अथ पञ्चदशाध्यायः      श्रीपराशरः – तपश्चरत्सु पृथिवीं प्रचेतस्सु महीरुहाः । अरक्ष्यमाणामावत्रुर्बभूवाथ प्रजाक्षयः ॥ १ ॥ नाशकन्मरुतो वातुं वृतं खमभवद्रुमैः । दशवर्षसहस्राणि न शेकुश्चेष्टितुं प्रजाः ॥ २ ॥ तान्दृष्ट्वा जलनिष्क्रान्ताः सर्वे क्रुद्धाः प्रचेतसः । मुखेभ्यो वायुमग्निं च तेऽसृजन् जातमन्यवः ॥ ३ ॥ उन्मूलानथ तान्वृक्षान्कृत्वा वायुरशोषयत् । तानग्निरदहद्घोरस्तत्राभूद्द्रुमसंक्षयः ॥ ४ ॥ द्रुमक्षयमथो दृष्ट्वा किञ्चिच्छिष्टेषु शाखिषु […]

श्रीविष्णुपुराणम् Amsa 01 Ady 14

श्रीविष्णुपुराणम् अथ चतुर्दशोऽध्यायः       श्रीपराशरः – पृथोः पुत्रौ तु धर्मज्ञौ जज्ञातेऽन्तर्द्धिवादिनौ । शिखण्डिनी हविर्धानमन्तर्धानाद्व्यजायत ॥१॥ हविर्धानात् षडाग्नेयी धिषणाऽजनयत्सुतान् । प्राचीनबर्हिषं शुक्रं गयं कृष्णं वृजाजिनौ ॥ २ ॥ प्राचीनबर्हिर्भगवान्महानासीत्प्रजापतिः । हविर्धानान्महाभाग येन संवर्धिताः प्रजाः ॥ ३ ॥ प्राचीनाग्राः कुशास्तस्य पृथिव्यां विस्तृता मुने । प्राचीनबर्हिरभवत्ख्यातो भुवि महाबलः ॥ ४॥            प्राचीनाग्रा इति ॥ प्राचीनाग्राः कुशाः यज्ञविशेषीयाः ॥ […]

श्रीविष्णुपुराणम् Amsa 01 Ady 13

श्रीविष्णुपुराणम् अथ त्रयोदशोऽध्यायः |  श्रीपराशरः। ध्रुवाच्छिष्टिं च भव्यं च भव्याच्छम्भुर्व्यजायत । शिष्टेराधत्त सुच्छाया पञ्च पुत्रानकल्मषान् ॥१॥ रिपुं रिपुञ्जयं विप्रं वृकलं वृक़तेजसम् । रिपोराधत्त बृहतीं चाक्षुषं सर्वतेजसम् ॥ २ ॥ अजीजतत्पुष्करिण्यां वारुण्यां चाक्षुषो मनुम् । प्रजापतेरात्मजायां वीरणस्य महात्मनः ॥ ३ ॥ मनोरजायन्त दशनडुवालायां महौजसः । कन्यायां तपतांश्रेष्ठ वैराजस्य प्रजापतेः ॥ ४॥ (ऊरुः पुरु) कुरुः पुरुश्शतद्युम्नस्तपस्वी सत्यवाञ्छुचिः […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.