श्रीविष्णुपुराणम् Amsa 01 Ady 19

श्रीविष्णुपुराणम्

अथ एकोनविंशोऽध्यायः

    श्रीपराशर: –

हिरण्यकशिपुः श्रुत्वा तां कृत्यां वितथीकृताम् । आहूय पुत्रं पप्रच्छ प्रभावस्यास्य कारणम् ॥१॥

    हिरण्यकशिपु:-

प्रह्लाद सुप्रभावोऽसि किमेतत्ते विचेष्टितम् । एतन्मन्त्रादिजनितमुताहो सहज तव ॥२॥

    श्रीपराशरः –

एवं पृष्टस्तदा पित्रा प्रहादोऽसुरबालकः । प्रणिपत्य पितुः पादाविदं वचनमब्रवीत् ॥ ३ ॥

    प्रह्लादः-

न मंत्रादिकृतस्तात न च नैसर्गिको मम । प्रभाव एष सामान्यो यस्य यस्याच्युतो हदि ॥ ४ ॥

         नेति ॥ समान एवं सामान्यः। सर्वंगतोऽप्यच्युतो भक्तस्य शुद्धे हृद्याविर्भवति, नान्यस्याशुद्धे ॥ १-४॥

अन्येषां यो न पापानि चिन्तयत्यात्मनो यथा । तस्य पापागमस्तात हेत्वभावान्न विद्यते ॥ ५ ॥

          तां पापदुःखाभावरूपामात्मनो हृच्छुद्धिं चतुःश्लोक्याऽऽह अन्येषामित्यादिना ॥ ५ ॥

कर्मणा मनसा वाचा परपीडां करोति यः । तद्बीजं जन्म फलति प्रभूतं तस्य चाशुभम् ॥ ६॥

सोsहं न पापमिच्छामि न करोमि वदामि वा । चिन्तयन्सर्वभूतस्थमात्मन्यपि च केशवम् ॥ ७॥

शारीरं मानसं दुःखं देवं भूतभवं तथा । सर्वत्र शुभचित्तस्य तस्य मे जायते कुतः ॥ ८॥

एवं सर्वेषु भूतेषु भक्तिरव्यभिचारिणी। कर्तव्या पण्डितैर्ज्ञात्वा सर्वभूतमयं हरिम् ॥ ९ ॥

     श्रीपराशर:-

इति श्रुत्वा स दैत्येन्द्रः प्रासादशिखरे खितः। क्रोधान्धकारितमुखः प्राह देतेयकिंकरान् ॥१०॥

     हिरण्यकशिपु: –

दुरात्मा क्षिप्यतामस्मात्प्रासादाच्छतयोजनात् । गिरिपृष्ठे पतत्वस्मिन् शिलाभिन्नाङ्गसंहतिः ॥११॥

     श्रीपराशरः –

ततस्तं चिक्षुपुः सर्वे बालं दैतेय (किंकराः) दानवाः । पपात सोऽप्यधः क्षिप्तो हृदयेनोद्वहन् हरिम् ।।१२।।

पतमानं जगद्धात्री जगदातरि केशवे । भक्तियुक्तं दधारैनमुपसंगम्य मेदिनी ॥ १३ ॥

ततो विलोक्य तं स्वस्थमविशीर्णास्थिपञ्जरम् । हिरण्यकशिपुः प्राह शम्बरं मायिनां वरम् ॥ १४ ॥

       कर्मणेति ॥ तद्बीजं जन्म-सा परपीडैव बीजं यस्य तज्जन्म, तस्य पीडयितुरशुभं फलति। तद्बीज जन्मेति च पाठः ॥ ६-१४॥

      हिरण्यकशिपु:-

नास्माभिः शक्यते हन्तुमसौ दुर्बुद्धिबालकः । मायां वेत्ति भवांस्तस्मान्माययैनं निषूदय ॥ १५ ॥

शम्बर:-

सूदयाम्येष देत्येन्द्र, पश्य मायाबलं मम । सहस्रमत्र मायानां पश्य कोटिशतं तथा ॥१६॥

      श्रीपराशर: –

ततः स ससृजे मायाः प्रह्लादे शम्बरोऽसुरः । विनाशमिच्छन्दुर्बुद्धिः सर्वत्र समदर्शिनि ॥ १७ ॥

समाहितमतिर्रभूत्वा शम्बरेऽपि विमत्सरः । मैत्रेय सोऽपि प्रहादः सस्मार मधुसूदनम् ॥ १८॥

ततो भगवता तस्य रक्षार्थं चक्रमुत्तमम् । आजगाम समाज्ञप्तं ज्वालामालि सुदर्शनम् ॥ १९ ॥

तेन मायासहस्रं तच्छम्बरस्याशुगामिना । बालस्य रक्षता देहमेकैकं च निषूदितम् ॥ २० ॥

संशोषकं तदा वायुं दैत्येन्द्रस्त्विदमब्रवीत् । शीघ्रमेष ममादेशाद्दुरात्मा नीयतां क्षयम् ॥ २१ ॥

तथेत्युक्त्वा तु सोऽप्येनं विवेश पवनो लघु । शीतोऽतिरूक्षः शोषाय तद्देहस्यातिदुस्सहः ॥ २२ ॥ तेनाविष्टमथात्मानं स बुद्ध्वा दैत्यबालकः । हृदयेन महात्मानं दधार धरणीधरम् ॥ २३ ॥

हृदयस्थस्ततस्तस्य तं वायुमति (शो)भीषणम् । पपौ जनार्दनः क्रुद्धः स ययो पवनः क्षयम् ॥ २४ ॥

क्षीणासु सर्वमायासु पवने च क्षयं गते । जगाम सोऽपि भवनं गुरोरेव महामतिः ॥ २५ ॥

अहन्यहन्यथाचार्यो नीतिं राज्यफलप्रदाम् । ग्राहयामास तं बालं राज्ञामुशनसा कृताम् ॥ २६ ॥

गृहीतनीतिशास्त्रं तं विनीतं च यदा गुरुः । मेने तदैनं तत्पित्रे कथयामास शिक्षितम् ॥ २७॥

     आचार्य:-

गृहीतनीतिशास्त्रस्ते पुत्रो दैत्यपते कृतः । प्रह्लादस्तत्त्वतो वेत्ति भार्गवेण यदीरितम् ॥ २८ ॥

           नेति ॥ हन्तुं न शक्यते ॥ १५-२८॥

       हिरण्यकशिपु:-

मित्रेषु वर्तेत कथमरिवर्गेषु भूपतिः । प्रह्लाद त्रिषु लोकेषु मध्यस्थेषु कथं चरेत् ॥ २९ ॥

       मित्रेष्विति ॥ मित्रेषु-सहजप्राकृतकृत्रिमेषु । सहजं मातुलेयादि । प्राकृत स्वभूम्यनन्तरात् शत्रोरनन्तरम् । कृत्रिमं दानमानवशीकृतम्। अरिश्च त्रिविधः-सहजो दायादः, प्राकृतो भूम्यनन्तरादिः, कृत्रिमः कृतापकारः।

मध्यस्थाश्च त्रिविधाः। त्रिषु लोकेषु-मित्रादिषु त्रिषु जनेषु । कालेष्विति पाठे क्षयवृद्धिस्थानकालेषु । कथं वर्त्तेत ! वृत्तयो हि वर्षणादानानुप्रवेशमाध्यस्थ्यवपूर्णत्वप्रियात्वसहिष्णुत्वरूपाः सप्त । यथोक्तम् इन्द्रस्यार्कस्य वायोश्च यमस्य वरुणस्य च । चन्द्रस्य च पृथिव्याश्च नृपः सप्तगुणो भवेत् । इति ॥ २९॥

कथं मंत्रिष्वमात्येषु बाह्येष्वाभ्यन्तरेषु च । चारेषु पौरवर्गेषु शङ्कितेष्वितरेषु च ॥३०॥

            कथमिति ॥ * मंत्री बुद्धिसहायः स्यादमात्यः कार्यसाह्यकृत् । दुर्गाध्यक्षो धनाध्यक्षः (धान्या) सेनाध्यक्षश्च भूपतेः ॥ सूतः पुरोधा दैवज्ञः सप्तैते मन्त्रिणो मताः ॥ दुर्गाध्यक्षो-वनाध्यक्षः। “पूतः पुरोधाः” । इति च पाठः। बाह्या अमात्याः शुक्लाध्यक्षादयः । आभ्यन्तरा:-अन्त:पुरमहानसाद्यधिकृताः। शंकिताः जितदासभूताः सापराधा वा । इतरे स्वामिहितैषिणः । धर्मार्थकामभयपरीक्षासु शुद्धा वा ॥ ३० ॥

कृत्याकृत्यविधानञ्च दुर्गाटविकसाधनम् । प्रह्लाद कथ्यतां सम्यक् तथा कण्टकशोधनम् ॥३१॥

         कृत्याकृत्येति ॥ कृत्याः:-भेद्याः। तेषामकृत्यत्वस्याभेद्यत्वस्य विधानम् । अलब्धवेतनो लुब्धो मानी चाप्यवमानितः। क्रुद्धश्च कोपितोऽकस्मात्तथा भीतश्च भीषितः॥ इति भेद्याः। जलप्राकारमरुगिरिवनात्मकं पञ्चधा  दुर्गम् । आटविका:–वन्या  म्लेच्छाद्याः तत्साधनम् । कण्ठकश्चौरः  क्षुद्रशत्रुर्वा । तस्य शोधनं साधनम् ॥ ३१ ॥

एतच्चान्यच्च सकलमधीतं भवता यथा । तथा मे कथ्यतां ज्ञातुं तवेच्छामि मनोगतम् ॥ ३२ ॥

     श्रीपराशर:-

प्रणिपत्य पितुः पादौ तदा प्रश्रयभूषणः । प्रह्लादः प्राह दैत्येन्द्रं कृताञ्जलिपुटस्तथा ॥ ३३ ॥

           एतदिति ॥ अन्यच्चेति । औशनसोक्तं सप्त प्रकृत्यादिकम् ॥ ३२, ३३ ॥

     प्रह्लादः-

ममोपदिष्टं सकलं गुरुणा नात्र संशयः । गृहीतं तु मया किन्तु न सदेतन्मतं मम ॥ ३४ ॥

साम चोपप्रदानं च भेददण्डौ तथाऽपरौ। उपायाः कथिताः ह्येते मित्रादीनां च साधने ॥ ३५ ॥

तानेवाहं न पश्यामि मित्रादींस्तात मा क्रुधः । साध्याभावे महाबाहो साधनैः किं प्रयोजनम् ॥३६॥

          ममोपदिष्टमिति || न सदेतत्-शत्रुमित्रादिभेदविषयत्वादस्य ॥ ३४-३६ ॥

सर्वभूतात्मके तात जगन्नाथे जगन्मये । परमात्मनि गोविन्दे मित्रामित्रकथा कुतः ॥ ३७॥

त्वय्यस्ति भगवान् विष्णुर्मयि चान्यत्र चास्ति सः । यतस्ततोऽयं मित्रं मे शत्रुश्चेति पृथक्कुतः ॥३८॥

         सर्वभूतात्मक इति ॥ सर्वभूतात्मके-सर्वजीवशरीरके, जगन्मये-व्यक्ताव्यक्तप्रपञ्चरूपे, परमात्मनि आत्मान्तररहिते ॥ ३७, ३८॥

तदेभिरलमत्यर्थं (दु)दृष्टारम्भोक्तिविस्तरैः । अविद्यान्तर्गतैर्यत्नः कर्त्तव्यस्तात शोभने ॥ ३९ ॥

      तदिति ॥ दृष्टारम्भाः-राज्याद्यर्थोद्योगाः, तेषामुक्तिविस्तरैः अर्थशास्त्राद्यैः अविद्यान्तर्गतै:-विद्यायामन्तर्गतानि विद्यास्थानानि, तदितरैः । शोभने-परममङ्गलात्मविद्याविषये शास्त्रे ॥ ३९ ॥

विद्याबुद्धिरविद्यायामज्ञानात्तात जायते । बालोऽग्ंनि किं न खद्योतमसुरेश्वर मन्यते ॥ ४० ॥

            नन्वर्थशास्त्रादे राज्याद्युपायज्ञापकत्वात्कथमविद्यास्थानत्वं तत्राह-विद्येति ॥ अर्थशास्त्रादिजन्यविद्यायास्तु अल्पास्थिरफलसाधनत्वात्विद्यात्वं नास्तीति भावः ॥ ४० ॥

तत्कर्म यन्न बन्धाय सा विद्या या विमुक्तये । आयासायापरं कर्म विद्यान्या शिल्पनैपुणम् ॥४१॥

           का तर्हि विद्या ! तत्राह-तकर्मेति ॥ या विमुक्तये सा विद्या, अर्थशास्त्रादिविद्या शिल्पनैपुणम्। यन्न बन्धाय, अपि तु विद्याङ्गवेन मोक्षाय तत्कर्म ; अपरं कर्म-प्रवृत्तिकर्म ॥ ४१ ॥

तदेतदवगम्याहमसारं सारमुत्तमम् । निशामय महाभाग प्रणिपत्य ब्रवीमि ते ॥ ४२ ॥

        कर्मनिरूपणं प्रासंगिकम् ; राज्यादिदृष्टफलार्थिनाऽपि तत्साधने धर्मे यतितव्यं न नीतिशास्त्रादावित्याह तदेतदित्यादिभिः । तदेतत्-नीतिशास्त्रादिजन्यज्ञानादि । निशामय-शृणु ॥ ४२ ॥

न चिन्तयति को राज्यं को धनं नाभिवाञ्छति । तथापि भाव्यमेवैतदुभयं प्राप्यते नरैः ॥ ४३ ॥

         नेति ॥ भाव्यं-प्राक्कर्मतो भावि । उभयं-राज्यं धनं च ॥ ॥ ४३ ॥

सर्व एव महाभाग महत्त्वं प्रति सोद्यमाः । तथापि पुंसां भाग्यानि नोद्यमा भूतिहेतवः ॥ ४४ ॥ जडानामविवेकानामशूराणामपि प्रभो। भाग्यभोज्यानि राज्यानि सन्त्यनीतिमतामपि ॥ ४५ ॥

         सर्व एवेति ॥ महत्त्वम्-ऐश्वर्यम् ॥ ४४, ४५॥

तस्माद्यतेत पुण्येषु य इच्छेन्महतीं श्रियम् । यतितव्यं समत्वे च निर्वाणमपि चेच्छता ॥ ४६ ॥

          तस्मादिति ॥ समत्वे-भगवदात्मकत्वेन सर्वस्य समत्वबुदौ ॥ ४६ ॥

देवा मनुष्याः पशवः पक्षिवृक्षसरीसृपाः ॥ रूपमेतदनन्तस्य विष्णोर्भिन्नमिव स्थितम्  ॥ ४७ ॥

          देवा इति ॥ भिन्नमिव-ततः पृथग्भूतमिव । अनन्त एव तत्तद्रूपेण स्थित इति ज्ञापनमेव सम्यक् नेह नानास्ति किञ्चन * न तदस्ति बिना *इति च  ॥ ४७ ॥

एतद्विजानता सर्वं जगत्स्थावरजङ्गमम् । द्रष्टव्यमात्मवद्विष्णुर्यतोऽयं विश्वरूपधृक् ॥ ॥ ४८॥

एवं ज्ञाते स भगवाननादिः परमेश्वरः । प्रसीदत्यच्युतस्तस्मिन्प्रसन्ने क्लेशसंक्षयः ॥ ४८ ॥

     श्रीपराशरः –

एतच्छृत्वाऽतिकोपेन समुत्थाय बरासनान् । हिरण्यकशिपुः पुत्र पदा वक्षस्थताडयत् ॥ ५० ॥

उवाच च स कोपेन सामर्षः प्रज्वलन्निव । निप्पिष्य पाणिना पाणिं हन्तुकामो जगद्यथा ॥ ५१ ॥

हे विप्रचिचे हे राहो हे बलैप महार्णवे । नागपाशर्बद्धा क्षिप्यता मा विलंब्यताम् ॥ ५२ ॥

अन्यथा सकला लोकास्तथा दैतेयदानवाः । अनुयास्यन्ति मूढस्य मतमस्य दुरात्मनः ॥ ५३ ॥

बहुशो बारितोऽमामिरयं पापस्तथाऽप्यरेः । स्तुति करोति दुष्टानां वध (पक्ष)एवोपकारकः ॥ ५४ ॥

            एतदिति ॥ आत्मवत्-अन्तर्यामिणा परमात्मना युक्तम् । मतुबन्तमेतत् । अत्र हेतुः यतोऽयं विश्वरूपधृगिति ॥ ४८-५५ ॥

ततस्ते सत्वरा दैल्या बद्ध्वा तं नागबन्धनैः । भर्तुराज्ञां पुरस्कृत्य चिक्षिपुः सलिलार्णवे ॥ ५५ ॥

ततश्चचाल चलता प्रहादेन महार्णवः । उद्वेलोऽभूत्परं क्षोभमुपेत्य च समन्ततः ॥ ५६ ॥

भूलोकमखिलं दृष्ट्वा प्लाव्यमानं महाम्भसा । हिरण्यकशिपुर्दैत्यानिदमाह महामते ॥ ५७ ॥

दैतेयाः सकलैश्शैलैरत्रैव वरुणालये। निश्छिद्रैस्सर्वतः सर्वैश्चीयतामेष दुर्मतिः ॥५८॥

नाग्निर्दहति नैवायं शस्त्रैश्छिन्नो न चोरगैः । क्षयं नीतो न वातेन न विपेण न कृत्यया ॥ ५९ ॥

न मायाभिर्न चैवोच्चात्पातितो न च दिग्गजैः। बालोऽतिदुष्टचित्तोऽयं नानेनार्थोऽस्ति जीवता ॥ ६० ॥

तदेष तोयमध्ये तु समाक्रान्तो महीधरैः । तिष्ठत्वब्दसहस्रान्तं प्राणान्हास्यति दुर्मतिः ॥ ६१ ॥

ततो दैत्या दानवाश्च पर्वतैस्तं महोदधौ । आक्रम्य चयनं चक्रुर्योजनानि सहस्रशः ॥ ६२ ॥

           तत इति ॥ सलिलार्णवे-अर्णवसलिले ॥ ५५-६२ ॥

स चित्तः पर्वतैरन्तः समुद्रस्य महामतिः । तुष्टावाह्निकवेलायामेकाग्रमतिरच्युतम् ॥ ६३ ॥

     प्रह्लादः –

नमस्ते पुण्डरीकाक्ष नमस्ते पुरुषोत्तम । नमस्ते सर्वलोकात्मन्नमस्ते तिम्मचक्रिणे ॥ ६४ ॥

(नमस्ते वासुदेवाय नमस्ते करुणाकर | नमस्ते विश्वरूपाय नमस्ते सर्वमूर्तये ।)

           स इति ॥ आह्निकवेलायाम-अह्नि क्रियमाणाराधनवेलायाम् ॥ ६३, ६४ ॥

नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च । जगद्धिताय कृष्णाय गोविन्दाय नमोनमः ॥ ६५ ॥

               नम इति ॥ब्रह्मण्यदेवाय-तपोवेदादिहिताय देवाय ॥ ६५ ॥

ब्राह्मत्वे सृजते विश्वं स्थितौ पालयते पुनः । रुद्ररूपाय कल्पान्ते नमस्तुभ्यं त्रिमूर्तये ॥ ६६ ॥

देवा यक्षाः सुराः सिद्धा नागा गन्धर्व किन्नराः । पिशाचा राक्षसाश्चैव मनुष्याः पशबस्तथा ॥ ६७ ॥ पक्षिणस्थावराश्चैव पिपीलिकसरीसृपाः । भृम्यापोऽग्निर्नभो बायुः शब्दस्पर्शस्तथा रसः ॥ ६८ ॥

         ब्रह्मत्व इति ॥ स्थितौ–स्वरूपेणावस्थितौ ॥ ६६-६८॥

रूपं गन्धो मनो बुदिरात्मा कालस्तथा गुणाः । एतेषां परमार्थश्च सर्वमेतत्त्वमच्युत ॥ ६९ ॥

विद्याविद्ये भवान्सत्यमसत्यं त्वं विषामृते । प्रवृत्तं च निवृत्तं च कर्म वेदोदितं भवान् ॥ ७० ॥

समस्तकर्मभोक्ता च कर्मोपकरणानि च । त्वमेव विष्णो सर्वाणि सर्वकर्मफलं च यत् ॥ ७१ ॥

           रूपमिति ॥ आत्मा-अहङ्कारः, एतेषां परमार्थः –एतेषां संबन्ध्यविनाशी जीवात्मा। एतद्दृश्यं जगच्च त्वम् ॥ ६९-७१ ॥

मय्यन्यत्र तथाऽशेषभूतेषु भुवनेषु च । तवैव व्याप्तिरैश्वर्यगुणसंसूचकी प्रभो ॥ ७२ ॥

त्वां योगिनश्चिन्तयन्ति त्वां यजन्ति च याचकाः । हव्यकव्यभुगेकस्त्वं पितृदेवस्वरूपधृक् ॥ ७३ ॥

            मयीति ॥ ऐश्वर्यगुणसंसूचकी-उपादाननिमित्तत्वलक्षणमैश्वर्यम्, गुणो ज्ञानशक्त्यादिः, तयोः सूचिका ॥ ७२, ७३ ॥

               रूपं महत्ते स्थितमत्र विश्वं ततश्च सूक्ष्मं जगदेतदीश । रूपाणि सूक्ष्माणि च भूतभेदास्तेष्वन्तरात्माख्यमतीव सूक्ष्मम् ॥ ७४ ॥

          न ह्यनीश्वरस्यागुणस्य च व्याप्तिः संभवति । अस्त्र भूषणरूपनिखिलाधारं शुभाश्रयतया वक्ष्यमाणं दिव्यरुपमाह-रूपमिति ॥ ते महद्रूपमस्तीत्यनुषङ्गः । महत्वं स्वरूपतो गुणतश्च । एतद्विश्वं जगत्सूक्ष्मं यत्र तिष्ठति यतश्च भवति । यतश्च सुक्ष्ममिति च पाठः । रूपाणि सूक्ष्माणि-अव्यक्तमहदादीनि । भूतभेदाः-पृथिव्यादयः । अन्तरात्माख्यम्-आत्मतत्त्वम् । एतानि च यतो यत्र ; विश्वमिति संक्षेपोक्तिः, रूपाणीति विस्तरोक्तिः ॥ ७४॥

            तस्माच्च सूक्ष्मादिविशेषणानामगोचरे यत्परमात्मरूपम् ।

           किमप्यचिन्त्यं तब रूपमस्ति तस्मै नमस्ते पुरुषोत्तमाय ॥ ७५ ॥

          दिव्यात्मम्वरूपमाह-तस्मादिति ॥ तस्मात्परमिति शेषः । परमार्थरूपं-परमप्रयोजनरूपम् । यत्पर मात्मरूपमिति च पाठः । रूपं-स्वरूपम् ॥ ७ ॥

सर्वभूतेषु सर्वात्मन्या शक्तिरपरा तव । गुणाश्रया नमस्तस्यै शाश्वतायै सुरेश्वर ॥ ७६ ॥

        क्षेत्रज्ञरूपं मुक्तरूपं चाह सर्वभूतेष्विति द्वाभ्याम् ॥ सर्वभूतेष्विति ॥ गुणाः सत्वादयः आश्रयो यस्याः सा गुणाश्रया; अपरा-मुक्तापेक्षया निकृष्टा ॥ ७६ ॥

याऽतीतगोचरा वाचां मनसा चाविशेषणा । ज्ञानिज्ञानपरिच्छेद्या तां वन्दे चैश्वरीं पराम् ॥ ७७ ॥

        याऽतीतगोचरेति ॥ ईश्वरीं-स्वतन्त्राम् , * स स्वराट् भवतीति श्रुतेः । पराम्-उत्कृष्टाम् । एतच्छक्तिद्वयं , विष्णुशक्तिः परा प्रोक्तेत्यादिना वक्ष्यते । तां वन्दे चेश्वरां परामिति च पाठः ॥ ७७ ॥

ॐ नमो वासुदेवाय तस्मै भगवते सदा । व्यतिरिक्तं न यस्यास्ति व्यतिरिक्तोऽखिलस्य यः ॥ ७८॥

            ॐ नम इति ॥ ओमित्यादिमन्त्रस्यार्थः तृतीयषष्ठयोर्वक्ष्यते । व्यतिरिक्तं न यस्यास्ति-सर्वस्य तदात्मकत्वात् । व्यतिरिक्तोऽखिलस्य य:-कार्यभूताज्जगतो व्यतिरिक्तः । * अतो ज्यायान् * त्रिपादूर्ध्व उदैत्पुरुषः, • यस्यायुतायुतांशांशे – इति । व्यतिरिक्तमित्यादिना वासुदेवशब्दार्थ उक्तः ॥ ७८ ॥

नमस्तस्मै नमस्तस्मै नमस्तस्मै महात्मने । नामरूपं न यस्यास्ति योऽस्तित्वेनोपलभ्यते ॥ ७९ ॥ यस्यावताररूपाणि समर्चन्ति दिवौकसः । अपश्यन्तः परं रूपं नमस्तस्मै महात्मने ॥ ८०॥  योऽन्तस्तिष्ठन्नशेषस्य पश्यतीशः शुभाशुभम् । तं सर्वसाक्षिणं विष्णुं नमस्ये परमेश्वरम् ॥ ८१ ॥

              नम इति ॥ आदरान्नमस्कारावृत्तिः । संकर्षणादिव्यूहविषया वा । नामरूपं न यस्य-जीववन्न कर्मकृतम् ॥ ७९-८१॥

नमोऽस्तु विष्णवे तस्मै यस्याभिन्नमिदं जगत् । ध्येयस्स जगतामाद्यः स प्रसीदतु मेऽव्ययः ॥ ८२ ॥

             नमोऽस्त्विति ॥ यस्याभिन्नं कार्यत्वाद्रूपवत्वाच्च ॥ ८२ ॥

यत्रोतमेतत्प्रोतं च विश्वमक्षरसंज्ञके । आधारभूतसर्वस्य स प्रसीदतु मे हरिः ॥ ८३ ॥

           यत्रेति ॥ यत्रैतद्विश्वम् ओतं-कुण्ड इव, प्रोतं-सूत्र मणिगाणा इव, * ब्रह्मन् ह विश्वा भूतानि नावीवान्तः समाहिताः * सूत्रे मणिगणा इवेति च ॥ ८३ ॥

ॐ नमो विष्णवे तस्मै नमस्तस्मै पुनः पुनः । यत्र सर्वं यतः सर्वं यः सर्वं सर्वसंश्रयः ॥ ८४ ॥

          ओमिति ॥ यत्र सर्वं-स्थितं लीनमिति वा, यतः सर्वमपादानभूताद्भवति, अत एव यः सर्वम् ॥ ८४ ॥

सर्वगत्वादनन्तस्य स एवाहमवस्थितः । मत्तस्सर्वमहं सर्वं मयि सर्वं सनातने ॥ ८५ ॥

          सर्वगत्वादिति ॥ सर्वतः-सर्वत्रात्मत्वेन यो वसति । अनादिमध्यान्तमिथ्यादिविशेषणैरचितः जडायो व्यावृत्तः सच्चिदानन्दस्वरूपः स एवाहमवस्थित इत्यत्र अनन्तस्य सर्वगतत्वं हेतुः ॥ ८५॥

अहमेवाक्षयो नित्यः परमात्माऽऽत्मसंश्रयः । ब्रह्मसंज्ञोऽहमेवाग्रे तथाऽन्ते च परः पुमान् ॥ ८६ ॥

         अहमेवेति ॥ स परमात्मा किमाश्रय इत्यत्राह-आत्मसंश्रय इति ॥ न किंचिदाश्रितः, स्वे महिम्नि प्रतिष्ठितः । ननु ब्राह्मणो जगदुत्पत्तिः श्रूयते , यतो वा इमानि + इत्यादिना ; तत्कथं मत्त इत्युच्यते ? तत्राह ब्रह्मसंज्ञोsहमिति । ब्रह्मात्मकत्वादहमेव ब्रह्मसंज्ञः । अग्रे-सुष्टेः प्राक् । अन्ते-प्रलये ॥ ८६ ॥

इति श्रीविष्णुपुराणे प्रथमेंऽशे एकोनविंशतितमोऽध्यायः ॥ १९ ||

 इति श्रीभगवद्रामानुजपदान्तरंगश्रीविष्णुचित्तविरचिते श्रीविष्णुपुराणव्याख्याने श्रीविष्णुचित्तीये प्रथमेश एकोनविंशतितमोऽध्यायः ॥ १९ ॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.