श्रीविष्णुपुराणम् Amsa 01 Ady 06

श्रीविष्णुपुराणम्

अथषष्ठोऽध्यायः

मैत्रेयः

अर्वाक्स्रोतास्तुकथितोभवतायस्तुमानुषः।ब्रह्मविस्तरतोब्रूहिब्रह्मातमसृजद्यथा॥१॥

यथाचवर्णानसृजद्यद्गुणांश्चमहामुने।यच्चतेषांस्मृतंकर्मविप्रादीनांतदुच्यताम्॥२॥

श्रीपराशरः

सत्याभिध्यायिनःपूर्वंसिसृक्षोर्बह्मणोजगत्।अजायन्तद्विजश्रेष्ठसुवोद्रिक्तामुखात्प्रजाः॥३॥

वक्षसोरजसोद्रिक्तास्तथावैब्रह्मणोऽभवन्।रजसातमसाचैवसमुद्रिक्तास्तथोरुतः॥४॥

पद्भ्यामन्याःप्रजाब्रह्माससर्जद्विजसत्तम।तमःप्रधानास्ताःसर्वाश्चातुर्वर्ण्यमिदंततः॥५॥

ब्राह्मणाःक्षत्रियावैश्याःशुद्राश्चद्विजसत्तम।पादोरुवक्षस्थलतोमुखतश्चसमुद्गताः॥६॥

अथयज्ञादिसाधकानांमनुष्याणांवर्णाश्रमकर्मजीविकागतिसृष्ट्युक्तीःपृच्छतिअर्वागिति॥१-६॥

यज्ञनिष्पत्तयेसर्वमेतब्रह्माचकारवै।चातुर्वर्ण्यंमहाभागयज्ञसाधनमुत्तमम्॥७॥

यज्ञैराप्यायितादेवावृष्ट्युत्सर्गेणवैप्रजाः।आप्याययन्तेधर्मज्ञयज्ञाःकल्याणहेतवः॥८॥

यज्ञनिष्पत्तयइति॥शूद्रस्याध्ययनाग्न्याधानतत्साध्ययज्ञानधिकारेऽपिनमस्कारैकमन्त्रकपाकयज्ञदानद्विज- -शुश्रूषाद्यघिकारित्वाच्चातुर्वर्ण्यंयज्ञसाधनमित्युक्तम्॥७-८॥

 

निष्पाद्यन्तेनरैस्तैस्तुस्वधर्माभिरतैस्सदा।विशुद्धाचरणोपेतैःसद्भिस्सन्मार्गगामिभिः॥९॥

निष्पाद्यन्तइति।।प्रवचनरक्षणवाणिज्यपरिचर्याणांमुखाद्यङ्गसाध्यत्वाद्विप्रादीनांतत्तदङ्गसाध्य:क्रियोज्जीवित्वंस्वाध्यायस्वगृह्योक्तंस्वकर्म।सन्मार्ग:-शिष्टाचारः॥९॥

स्वर्गापवर्गोंमानुष्यात्प्राप्नुवन्तिनरामुने।यचाभिरुचितंस्थानंतद्यान्तिमनुजाद्विज॥१०॥

स्वर्गापवर्गाविति।।मानुष्य-मनुष्यकर्मतस्मात्।अभिरुचितं–भौमस्वर्गपातालादि॥१०॥

प्रजास्ताब्रह्मणासृष्टाश्चातुर्वर्ण्यव्यवस्थिताः।सम्यक्छ्रद्धाःसमाचारप्रवणामुनिसत्तम॥११॥

प्रजाइति॥व्यवस्थितावितिपाठेव्यवस्थितौनियमे।।११।।

यथेच्छावासनिरताःसर्वबाधाविवर्जिताः।शुद्धान्तःकरणाश्शुद्धाःकर्मानुष्ठाननिर्मलाः॥१२॥

यथेति॥यथेच्छःआवासः-वासस्थानम्आश्रमोवातस्मिन्निरताः।शुद्धान्त:करणाः-अहंकारफलसङ्गहीनाः, शुद्धाः-स्नानादिना॥१२॥

 

शुद्धेचतासांमनसिशुद्धेऽन्तस्संस्थितेहरौ।शुद्धज्ञानंप्रपश्यन्तिविष्ण्वाख्यंयेनतत्पदम्॥१३॥

शुद्धेचेति।।शुद्धे-अनुष्ठानेनविरागे, शुद्धज्ञानं-शुद्धज्ञानस्वरूपम्॥१३॥

ततःकालात्माकोयोऽसौसचांशःकथितोहरेः।संपातयत्यघंघोरम(ल)ल्पमल्पाल्पसारवत्॥१४॥

ततइति।ततः-त्रेतामुखानन्तरम्।अल्पमल्पाल्पसारवत्इतिपाठे.अल्पम्-उद्भूतंजातम्।अल्पाल्पसारवत्–अत्यल्पसुखं, घोरं-बहुदुःखम्॥१४॥

अधर्मबीजमुद्भूतंतमोलोभसमुद्भवम्।प्रजासुतासुमैत्रेयरागादिकमसाधकम्॥१५॥

अधर्मेति॥अधर्मबीजम्-अधर्मस्यकारणम्, तम:क्रोधसमुद्भवम्-क्रोधलोभयोर्हेतुम्, असाधकम्-अष्टसिद्धिविरोधिरागादिकम्, अयंकालःप्रजासुपातयति-क्षिपतीतिपूर्वेणान्वयः।अधर्मबीजमुद्भूतमितिचपाठः॥१५॥

ततस्सासहजासिद्धिस्तासांनातीवजायते।रसोल्लासादयश्चान्याःसिद्धयोऽष्टौभवन्तियाः॥१६॥

ततइति।सहजासिद्धिः-औत्पत्तिकंज्ञानम्।ॐकृतेतुमिथुनोत्पत्तिःसिद्धिश्चापिरसोल्लसा।सकृद्द्वृष्टिमयीचान्यागृहवृक्षात्मिकाऽपरा॥पश्चात्संकल्पसिद्धिश्चकल्पवृक्षात्मिकाऽपरा।प्रकामवृष्टिश्चाकृ -ष्टपच्यसिद्धिस्तथाऽष्टमी॥इत्यष्टसिद्धयः।रसोल्लास:-योगाभ्यासबलात्स्वमूर्द्धन्यमृतांशुबिम्बस्रवदमृततृप्तता।यथास्कान्दे—* रसस्यस्वतएवान्तरुल्लासःस्यात्कृतेयुगे।रसोलसाखयासासिद्धिस्तयाहन्तिक्षुधंनरः॥इति।स्त्रीनैरपेक्ष्येणानन्दोमिथुनोत्पत्तिः।यथातत्रैव *स्त्रियादिनैरपेक्ष्येणसदातृप्ताःप्रजास्तथा।द्वितीयासिद्धिरुद्दिष्टा*इति।कौर्मेच* कृतेतुमिथुनोत्पत्तिस्तथासाक्षाद्रसोल्लसा।प्रजास्तृप्ताःसदासर्वाःसर्वानन्दाश्चयोगिनः॥इति।सकृद्वृष्टिमयी. सकृद्वृष्ट्यासस्यनिष्पत्तिः।गृवृक्षात्मिका–इच्छयागृहवृक्षोद्गमः।संकल्पसिद्धिः-संकल्पेनाभिमतसिद्धिः।कल्पवृक्षात्मिका-भरद्वाजाश्रमवत्।प्रकामवृष्टिः-निकामेनिकामेवृष्टिः।अकृष्टपच्यसिद्धिः-अकृष्टपच्यभूमित्वमिति, पुराणेष्वष्टसिद्धयेबहुधोक्ताः॥१६॥

तासुक्षीणास्वशेषासुवर्द्धमानेचपातके।द्वन्द्वाभिभवदुःखार्तास्ताभवन्तिततःप्रजाः॥१७॥

तास्विति॥द्वन्द्वं-शीतोष्णादि॥१७॥

ततोदुर्गाणिताश्चक्रुर्धान्वंपार्वतमौदकम्।कृत्रिमंचतथादुर्गंपुरखर्वटकादिकम्॥१८॥

ततःइति॥धान्वं-बहिर्निर्जलंमरुदुर्गम्।धान्वंपार्वतमितिपाठः।कृत्रिमं-क्रियानिर्वृत्तंवनादि।पुरादिलक्षणंभृगूक्तम्*नृपावासःपुरीप्रोक्ताविशांपुरमितीष्यते।एकतोयत्रतुग्रामोनगरंचैकतःस्थितम्॥मिश्रंतत्खर्वटंनामनदीगिरिसमाश्रितम्॥इति।आदिशब्दाच्छिबिरपत्तनादि॥१८॥

गृहाणिचयथान्यायंतेषुचक्रुःपुरादिषु।शीतातपादिबाधानांअशमायमहामते॥१९॥

गृहाणीति॥यथान्यायं-वास्तुशास्त्रानतिक्रमेण॥१९॥

प्रतीकारमिमंकृत्वाशीतादेस्ताःप्रजाःपुनः।वार्तोपायंततश्चक्रुर्हस्तसिद्धिंचकर्मजाम्॥२०॥

प्रतीकारमिति|| वार्ता-कृष्यादिः।हस्तसिद्धिः–शिल्पादिः॥२०॥

व्रीह्यश्चयवाश्चैवगोधूमाअणवस्तिलाः।प्रियंगवोह्युदाराश्चकोरदूपाःसतीनकाः॥२१॥

तत्रवार्तायांकृषिफलंविवृणोतिव्रीहयइति॥व्रीहय:-शाल्यादयः।यवो–दीर्धशूकः।गोधूमोनिश्कञ्चुकोदीर्घशुकः।अणव:-क्षुद्रधान्यानि।प्रियंगुः-अंगुः।उदारोदीर्घनालः।कोरदृष:-कोदवः॥सतीनक:-कालायः॥२१॥

माषामुद्रासूराश्चनिष्पावाःसकुलुनत्थकाः।आढक्यश्चणकाश्चैवशणाःसप्तदशस्मृताः॥२२॥

इत्येताओषधीनांतुग्राम्याणांजातयोमुने।ओषध्योयज्ञियाश्चैवग्राम्यारण्याश्चतुर्दश॥२३॥

व्रीहयस्सयवामाषागोधूमाश्चाणवस्तिलाः।प्रियङ्गुसप्तमाह्येतेअष्टमास्तुकुलुत्थकाः॥२४॥

माषाइति॥मसूरो–मङ्गल्यकः।निष्पावः-वल्ली।कुलत्थकः-पाषाणच्छेदिसारः।आढकी-तुवरी।चणकः –हरिमन्थकः।शणः–गोण्युपादानत्वक्॥२२–२४॥

श्यामाकास्त्वथनीवाराजर्तिलास्सगवेधुकाः।तथावेणुयवाःप्रोक्तास्तथामर्कटकामुने॥२५॥

श्यामाकाइतिं॥श्यामाकः-तृणधान्यम्।नीवारः-सशूकोव्रीहिः।जर्तिलाः-वनतिलाः।गरवेधु… -कुसुम्भसदृशबीजाः।वेणुयवाः–वंशबीजानि।मर्कटका:-प्रियङ्गुभेदाः; नागवलाख्यद्रुमबीजानिवा॥२५॥

ग्राम्यारण्याःस्मृताह्येताओषध्यस्तुचतुर्दश।यज्ञनिष्पत्तयेयज्ञस्तथाऽसांहेतुरुत्तमः॥२६॥

एताश्चसहयज्ञेनप्रजानांकारणंपरम्।परावरविदःप्राज्ञास्ततोयज्ञान्वितन्वते॥२७॥

ग्राम्येति॥आसाम्-ओषधीनांहेतुः-वर्धकः॥२६, २७॥

अहन्यहन्यनुष्ठानंयज्ञानांमुनिसत्तम।उपकारकरंपुंसांक्रियमाणाघशान्तिदम्॥२८॥

येषांतुकालसृष्टोऽसौपापविन्दुर्महामुने।चेतस्सुववृधेचक्रुस्तेनयज्ञेषुमानसम्॥२९॥

वेदान्वेद्यंतथादेवान्यज्ञकर्मादिकंचयत्।तत्सर्वंनिन्दमानास्तेयज्ञव्यासेधकारिणः॥३०॥

अहन्यहनीति॥यज्ञानां-पञ्चमहायज्ञानामनुष्ठानंनित्यंक्रियमाणाघं* पञ्चसूनागृहस्थस्येत्यादिनासूक्तम्, अत्रतुपूर्वम्अल्पाल्पसारवदित्युक्तम्,तस्याघस्यशान्तिदं-नाशकरमित्यर्थः॥२८–३०॥

प्रवृत्तिमार्गव्युच्छित्तिकारिणोवेदनिन्दकाः।दुरात्मानोदुराचाराबभूवुःकुटिलाशयाः॥३१॥

प्रवृत्तीति।यज्ञप्रवृत्त्याप्रवृत्तिःसर्गः, प्रजासर्गइत्यर्थः॥३१॥

संसिद्धायांतुवार्तायांप्रजाःसृष्ट्वाप्रजापतिः।मर्यादांस्थापयामासयथास्थानंयथागुणम्॥३२॥

वर्णानामाश्रमाणांचधर्मान्धर्मभृतांवर।लोकांश्चसर्ववर्णानांसम्यग्धर्मानुपालिनाम्॥३३॥

संसिद्धायामिति।कृषिरूपायांवार्तायांसंसिद्धायाम्ओषधिद्वाराप्रजा: सृष्ट्वायथास्थानम्-अस्मिन्देहेऽयंधर्मइति, यथागुणं-रागिणांकाम्यंकर्म, विरक्तानांतुनिवर्तकमित्यादिव्यवस्थांस्थापयामास॥३२,३३॥

प्राजापत्यंब्राह्मणानांस्मृतंस्थानंक्रियावताम्।स्थानमैन्द्रंक्षत्रियाणांसंग्रामेष्वनिवर्तिनाम्॥३४॥

वैश्यानांमारुतंस्थानंस्वधर्मनिरतात्मनाम्।गान्धर्वंशुद्रजातीनांपरिचर्यानुवर्त्तिनाम्॥३५॥

प्राजापत्यमिति|| प्राजापत्यं–भृग्वादिलोकः।ब्राह्मणानांक्रियावतां-नित्यनैमित्तिकक्रियावताम्॥३४,३५॥

 

अष्टाशीतिसहस्राणिमुनीनामूर्ध्वरेतसाम्।स्मृतंतेषांतुयत्स्थानंतदेवगुरुवासिनाम्।।३६।।

अष्टाशीतीति।।गुरुवासिनां-ब्रह्मचारिणाम्।।३६।।

सप्तर्षीणांतुयत्स्थानंस्मृतंतद्वैवनौकसाम्।प्राजापत्यंगृहस्थानांन्यासिनांब्रह्मसंज्ञितम्॥३७॥

सप्तर्षीणामिति॥न्यासिनां–संन्यासिनां, देवयानमार्गस्थोब्रह्मसंज्ञित:-सत्यलोकः॥३७॥

योगिनाममृतंस्थानंस्वात्मसंतोपकारिणाम्।।३८॥

योगिनामिति॥आश्रमिष्वेवयेप्रतीकोपासकायोगिनस्तेषाम्अमृतं–विष्णुपदाख्यंध्रुवादुपरिस्थानं * यतोगङ्गाप्रवहतीतिवक्ष्यमाणम्॥३८॥।

एकान्तिनःसदाब्रह्मध्यायिनोयोगिनश्चये।तेषांतत्परमंस्थानंयद्वैपश्यन्तिसुरयः॥३९॥

एकान्तिनइति।परमंस्थानं-परमव्योम॥३९॥

गत्वागत्वानिवर्तन्तेचन्द्रसूर्यादयोग्रहाः।अद्यापिननिवर्तन्तेद्वादशाक्षरचिन्तकाः॥४०॥

भगवदुपासकानामेवापुनरावृत्तिःइतरेषांतुनिवृत्तिरेवेत्याह—गत्वेति॥चन्द्रसूर्यादिग्रहणंतेषांकोलनेतृत्वविशेषात, तद्विलक्षणानांब्रह्मादीनामप्युपलक्षणम्।चन्द्रसूर्यादयोऽपिस्वंस्वमंधिकारंगत्वा-प्राप्य, अन्तेप्रलयकालेनिवर्त्तन्ते—तेस्वपदात्भ्रंश्यन्ति।द्वादशाक्षरादिनामन्त्रेणभगवदुपासकाःननिवर्त्तन्तेनचपुनरावर्तन्ते।एतद्व्यतिरिक्तास्सर्वेऽपिनिवर्तन्तएव। *आब्रह्मभुवनाल्लोकाःपुनरावर्तिनोऽर्जुन* इतिभगवदुक्तेः॥४०॥

 

तामिस्रमन्धतामिस्रंमहारौरवगैरवौ।असिपत्रवनंघोरंकालसूत्रमवीचिकम्।।४१।।

विनिन्दकानांवेदस्ययज्ञव्याघातकारिणाम्।स्थानमेतत्समाख्यातंस्वधर्मत्यागिनश्चये॥४२॥

तामिस्रादीनांस्वरूपंवक्ष्यतेतामिस्रमिति|| ४१, ४२॥

 

इतिश्रीविष्णुपुराणेप्रथमेशेषष्ठोऽध्यायः॥६॥

इतिश्रीभगवद्रामानुजपदान्तरंगश्रीविष्णुचित्तविरचितेश्रीविष्णुपुराणव्याख्यानेश्रीविष्णुचित्तीयेप्रथमेंशेषष्ठोऽध्यायः॥६॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.