श्रीविष्णुपुराणम् Amsa 01 Ady 02

श्रीविष्णुपुराणम् अथद्वितीयोध्यायः श्रीपराशरउवाच— अविकारायशुद्धायनित्यायपरमात्मने।सदैकरूपरूपायविष्णवेसर्वजिष्णवे॥१॥ तदेवंसंक्षेपतउक्तानांप्रतिवचनानांविवरणतयाऽवतार्यमाणस्यपुराणस्यारम्भमविकारयेत्यादिभि– -(स्सप्तभि)र्नवभिःश्लोकैःपुराणप्रतिपाद्यस्वाभिमतदेवतानमस्कारपूर्वकंप्रतिजानीते।तत्रकारणत्वाभिधानतःप्रसक्तंविकारित्वंनिरस्यति-अविकारायेति।अनेनाचेतनाद्व्यावृत्तिः।* नजायतेम्रियतेइत्यादिश्रुतेःक्षेत्रज्ञस्यापिसमानमविकारित्वमितितद्व्यावृत्तिमाह-शुद्धायेति।शुद्धिः–क्लेशकर्मादिराहित्यम्; * अशुद्धास्तेसमस्तास्त्वितिहिवक्ष्यति।ईदृशीशुद्धिर्मुक्तस्याप्यस्तीतितद्व्यावृत्तिमाह–नित्यायेति।शुद्धत्वाकारेणनित्याय।अविकारित्वशुद्धत्वनित्यशुद्धत्वादीनिनित्यसूरीणामपिसाधारणानीत्यतआह–परमात्मनइति।परोयस्मान्नास्तिसपरमः, अपराधीनः;नियन्तृतयासर्वस्यव्यापनादात्मा; नित्यसूरयस्तेनपरवन्तः।अतःपदचतुष्टयेनप्रधानाद्यचेतनब्रह्मसनकादिभावनायुक्तक्षेत्रज्ञमुक्तनित्यसूरिभ्योव्यावृत्तंपरमस्वरूपंशोधितम्।अथज्ञानशक्त्यादिवदसाधारणंतद्वदेवसर्वविलक्षणंस्वानुरूपंज्योतिर्मयम् * आदित्यवर्णम् *हिरण्मयःपुरुषोदृश्यते *विद्युत: पुरुषादधि* इतिउपनिषत्सिद्धंस्वरूपमाह–सदैकरूपरूपायेति।प्रथमोरूपशब्दःस्वभाववाची।अथवासदैकरूप-तुल्यप्रकारं, हेयप्रत्यनीकतयाकल्याणैकतानतयाचस्वरूपतुल्यम्।द्वितीयोरूपशब्दोविग्रहवाची।अथसर्वव्याप्तिलक्षणमैश्वरंगुणंख्यापयन्विशेष्यंनिर्दिशति-विष्णवइति।चिदचिद्व्याप्त्याप्रसक्तंदोषंपरिहरतिसर्वजिष्णवइति।जयोहिपरस्यस्ववशेस्थापनम्।ताच्छील्यप्रत्ययेनव्याप्तिजयौस्वाभाविकावितिदर्शयति॥१॥ नमोहिरण्यगर्भायहरयेशङ्र्करायच।वासुदेवायतारायसर्गस्थित्यन्तकारिणे॥२॥ ब्रह्मशिवयोस्तद्विभूतित्वमाह-नमोहिरण्यगर्भायेति॥स्वावतारचतुर्मुखरुद्ररूपेणहिसृष्ट्यादिकर्तृत्वम्।ताराय-संसारोत्तारकाय, मोक्षप्रदाय॥वासुदेवाय-वासुदेवरूपेणमोक्षप्रदत्वम्।हरिशब्देसत्यपिवासुदेवशब्दोहरेरवतारत्वज्ञापनार्थः। *तमेवविदित्वाऽतिमृत्युमेतिनान्यःपन्थाविद्यतेऽयनाय, * मामेवयेप्रपद्यन्तेमायामेतांतरन्तिते, * संसारपारंपरमीप्समानैराराधनीयोहरिरेकएव, * ब्रह्माणंशितिकण्ठंचयाश्चान्यादेवताःस्मृताः।प्रतिबुद्धानसेवन्तेयस्मात्परिमितंफलम्।। * अन्तवत्तुफलंतेषाम्* इत्यादिभिर्भगवतएवमोक्षप्रदत्वमुक्तम्।अत्रहिरण्यगर्भादिवद्धरेर्नविभूतित्वम्, * नहिपालनसामर्थ्यमृतेसर्वेश्वरंहरिम् * इत्यादिनातस्यसर्वेश्वरत्वस्योक्तत्वात्॥२॥ एकानेकखरूपायस्थूलसूक्ष्मात्मनेनमः।अव्यक्तव्यक्तरूपायविष्णवेमुक्तिहेतवे॥३॥ अव्यक्तव्यक्तयोरपितद्रूपत्वमाहएकानेकेति॥एकानेकस्वरूपाय–कारणदशायामेकसूक्ष्माव्यक्तत्वादीनि, कार्यदशायामनेकस्थूलव्यक्तत्वादीनिविष्णवेतद्व्यापिने।उभयावस्थप्रकृतेःमुक्तिहेतवे–स्ववशवर्तित्वात् — तन्मुक्तिहेतवे॥३॥ सर्गस्थितिविनाशानांजगतोयोजगन्मयः।मूलभुतोनमस्तस्मैविष्णवेपरमात्मने॥४॥ अचित्प्रसङ्गात्कालरूपत्वमाह-सर्गस्थितीति|| जगत्सर्गादिमूलभूतोहिकालः,नकालेनविनाब्रह्मासृष्टिनिष्पादकृद्भवेत् * इत्यादेः।जगन्मय:-उन्मेषनिमेषकलोन्मानसूर्यगमनादिनापदार्थावच्छेदकस्वरूपः।परमात्मने–अकालवश्याय। * काल: पचतिभूतानिसवण्येवमहात्मना।कालःपक्वोयमन्वेतियस्तंवेदसवेदवित्॥ * कलामुहूर्तादिमयश्चकालोनयद्विभूते: परिणामहेतु:* इत्यादेः॥४॥ आधारभूतंविश्वस्याप्यणीयांसमणीयसाम्।प्रणम्यसर्वभूतस्थमच्युतंपुरुषोत्तमम्।।५।। समष्टिक्षेत्रज्ञरूपत्वमाह-आधारभूतमिति॥विश्वस्यप्रकृतिपरिणामस्यजीवकर्मनिमित्तत्वेनतश्छरीरतयातदाधारत्वम्। *भूतमात्राःप्रज्ञामात्रावर्पिताः, […]

श्रीविष्णुपुराणम् Amsa 01 Ady 01

श्रीमतेरामानुजायनमः श्रीपराशरमहर्षिप्रणीत पुराणरत्नापरनामधेयं ॥श्रीविष्णुपुराणम्सव्याख्यम्॥ नारायणंनमस्कृत्यनरंचैवनरोत्तमम्। देवींसरस्वतींव्यासंततोजयमुदीरयेत्।। प्रथमांशेप्रथमोऽध्यायः श्रीसूतउवाच पराशरंमुनिवरंकृतपौर्वाह्णिकक्रियम्।मैत्रेयःपरिपप्रच्छप्रणिपत्याभिवाद्यच॥१॥ श्रीमतेरामानुजायनमः एङ्गळाळ्वानितिप्रसिद्ध– श्रीविष्णुचित्तार्यवयनुगृहीताव्याख्या (श्रीविष्णुचित्तीयाख्या)   श्रीविष्णुचित्तपदपङ्कजसङ्गमायचेतोममस्पृह्यतेकिमतःपरेण।नोचेन्ममापियतिशेखरभारतीनांभावःकथंभवितुमर्हतिवाग्विधेयः॥ प्रथमांशेप्रथमोऽध्यायः यस्मादिदंजगदजायतयत्रतिष्ठत्यन्तेसमस्तमिदमस्तमुपैतियत्र।तस्मैनमस्सदसदादिविकल्पशून्यचैतन्यमात्रवपुषेपुरुषोत्तमाय॥ विधेश्चविदुषामिष्टदायिनेतार्क्ष्ययायिने।नमस्तुरङ्गतुण्डायस्वात्मनेजगदात्मने॥अंशैष्षड्भिस्समाकीर्णमङ्गैर्वेदमिवापरम्।पुरणंवैष्णवंचक्रेयस्तंवन्देपराशरम्॥ तत्त्वेनयश्चिदचिदीश्वरतत्स्वभावभोगापवर्गतदुपायगतीरुदारः।संदर्शयन्निरमिमीतपुराणरत्नंतस्मैनमोमुनिवरायपराशराय॥   अथभगवान्पराशरःश्रीमैत्रेयायलोकहितार्थंश्रीविष्णुपुराणंप्रणेष्यन्प्रणिपातादिभिरुपसन्नायसंच्छिष्यायसदाचारवतातत्पृष्ठेनगुरुणास्वधर्मानुष्ठानाविरुद्धेमन:प्रसादकरसमये .पुराणंव्याख्येयमितिशास्त्रदर्शनात्पुराणप्रस्तावकंतत्प्रश्नंनिबध्नाति–पराशरामितिश्लोकेन।परान्-बाह्यकुदृष्टीन्सम्यक्प्रमाणतर्केराशृणातिइतिपराशरः,तंमुनिवरं–सम्यग्ज्ञानवन्तम्,कृतपौर्वाह्णिकक्रियं– भगवत्समाराधनादिनाविशेषतोविमल -मनसम्।पूर्वाह्ननिर्देशेनचित्तस्यसत्त्वोद्रोकोदर्शितः।परिपप्रच्छ-परितःपप्रच्छ, पुराणार्थमितिशेषः।कार्त्स्न्येनअर्थविशेषानभिनिवेशेनसामान्यतो*यन्मयमित्यादिवक्ष्यमाणप्रकारेण।अतःप्रश्नानुरूपेणप्रतिवचनमपिनकचिदाग्रहेणकृतम्।तेनास्यपुराणस्यलैङ्गादिवन्नकचित्पक्षपातित्वम्॥१॥     त्वत्तोहिबेदाध्ययनमधीतमखिलंगुरो।धर्मशास्त्राणिसर्वाणितथाऽङ्गानियथाक्रमम्।।२।। अथमैत्रेयश्चतुर्दशविद्याभूषितपुराणाधिगमेत्रयोदशविद्यास्थानाधिगमलक्षणस्यात्मनोऽधिकारस्यतत्प्रसादलब्धत्वानुवादेनगुरुंस्तुवन्पुराणप्रवचनेप्रोत्साहयति-त्वत्तोहीतिद्वयेन॥खिलं-प्रहतमनाम्नातंपरिशिष्टाख्यंश्रीसूक्तादिकं, तदखिलमाम्नातमेवयथास्यात्तथावेदाध्ययनम्अधीतम्-अधिगतं, प्राप्तम्।खिल– भागस्याप्यध्ययनंत्वत्तएवप्राप्तमित्यर्थः।यद्वाअखिलं-कृत्स्नं, यथाकमम्-स्वशाखाध्ययन- पूर्वकमृगादिक्रमानतिक्रमेण, * अतःपूर्वंतुछन्दांसिशुक्लेषुनियतःपठेत्।कृष्णपक्षेतथाऽङ्गानिमासान्विप्रोऽर्धपञ्चमान्।इत्याद्युक्तक्रमानितिक्रमेणच॥२॥   त्वत्प्रसादान्मुनिश्रेष्ठमामन्येनाकृतश्रमम्।वक्ष्यन्तिसर्वशास्त्रेषुप्रायशोयेऽपिविद्विषः॥३॥ त्वत्प्रसादादिति।अन्येजनाःयेविद्विषःतेऽपिसर्वशास्त्रेषुत्वत्प्रसादादकृतश्रमंमांनवक्ष्यन्ति, किन्तुत्वत्प्रसादादेवकृतसर्वशास्त्रपरिचयंमांसमावर्तनानन्तरंवक्ष्यन्ति।अन्येनेतिपदच्छेदेमांसर्वशास्त्रेषुत्वत्प्रसादादन्येनोपायेनअकृतश्रमंवक्ष्यन्ति, किन्तुत्वत्प्रसादेनैवकृतश्रमंवक्ष्यन्तीत्यर्थः॥३॥   सोऽहमिच्छामिधर्मज्ञश्रोतुंत्वत्तोयथाजगत्।बभूवभूयश्चयथामहाभागभविष्यति।।४।। सोऽहमिति।यएवंवेदादित्रयोदशविद्यास्थानाभिज्ञःसोऽहंजगज्जन्मादिपुराणार्थंश्रोतुमिच्छामीत्यर्थः।अनेनब्रह्मयज्ञाध्ययनार्थवेदोपबृंहणार्थचपुराणस्यग्रहणादौतद्योग्यत्रैवर्णिकानामेवाधिकारउक्तोज्ञेयः|पापक्षयाद्यर्थंतुपुराणश्रवणादौस्त्रीशूद्रयोरप्यधिकारः।यथोक्तंभविष्यत्पुराणे * अध्येतव्यंनचान्येनब्राह्मणक्षत्रियौविना॥श्रोतव्यमेतच्छूद्रेणनाध्येतव्यंकदाचन।तस्माच्छूद्रैर्विनाविप्रान्नश्रोतव्यंकदाचन॥इति॥विलोमजानांतुश्रवणादौनाघिकारः।सुतादेस्तुविलोमजस्यापिपुराणवचनं-*धर्मएषतुसूतस्यसद्भिर्दृष्टःपुरातनः *।इत्यादिवचनादविरुद्धम्। * यथाजगद्बभूवेत्युपक्रम्य * आश्रमवासिनामित्यन्तेनप्रष्टव्यानर्थानाह।अत्रभगवताभाष्यकारेणब्रह्मस्वरूपविशेषतद्विभूतिमेदप्रकाराःतदाराधनरूपफलविशेषाश्चपृष्टाइतिप्रष्टव्यार्थविशेषाउक्ताः। * यथाजगत्, इत्यादि * […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.