श्रीविष्णुपुराणम् Amsa 03 Ady 08
श्रीविष्णुपुराणम् अष्टमोऽध्यायः मैत्रेयः- भगवन्भगवान्देवः संसारविजिगीषुभिः। समाख्याहि जगन्नाथो विष्णुराराध्यते यथा ॥१॥ आराधिताच्च गोविन्दादाराधनपरैर्नरैः । यत्प्राप्यते फलं श्रोतुं तच्चेच्छामि महामुने ॥२॥ श्रीपराशर:- यत्पृच्छति भवानेतत्सगरेण महात्मना । और्वः प्राह यथा पृष्टस्तन्मे निगदतश्शृणु ॥३॥ सगरः प्रणिपत्यैनमौर्वं पप्रच्छ भार्गवम् । विष्णोराराधनोपायसंबन्धं मुनिसत्तम ॥ ४ ॥ फलं चाराधिते विष्णौ यत्पुंसामभिजायते । स चाह पृष्टो यत्तेन तस्मै तन्मेऽखिलं शृणु ॥ ५॥ और्व:- […]
श्रीविष्णुपुराणम् Amsa 03 Ady 07
श्रीविष्णुपुराणम् अथ सप्तमोऽध्यायः मैत्रेय:- यथावत्कथितं सर्वं यत्पृष्टोऽसि मया गुरो । श्रोतुमिच्छाम्यहं त्वेकं तद्भवान्प्रब्रवीतु मे ॥१॥ सप्त द्वीपानि पातालवीथयश्च महामुने । सप्तलोकाश्च येऽन्तस्था ब्रह्माण्डस्यास्य सर्वतः ॥२॥ स्थूलैस्सूक्ष्मैस्तथा सूक्ष्मसूक्ष्मैस्सूक्ष्मतरैस्तथा । स्थूलात्स्थूलतरैश्चैव सर्वं प्राणिभिरावृतम् ॥३॥ अङ्गुलस्याष्टभागोऽपि न सोऽस्ति मुनिसत्तम । न सन्ति प्राणिनो यत्र कर्मबन्धनिबन्धनाः ॥४॥ सर्वे चैते वशं यान्ति यमस्य भगवन् किल । आयुषोऽन्ते तथा यान्ति यातनास्तत्प्रचोदिताः […]
श्रीविष्णुपुराणम् Amsa 03 Ady 06
श्रीविष्णुपुराणम्प ष्ठोऽध्यायः श्रीपराशरः- सामवेदतरोश्शाखा व्यासशिष्यस्स जैमिनिः । क्रमेण येन मेत्रेय बिभेद शृणु तं मम ॥१॥ सुमन्तुस्तस्य पुत्रोऽभूत्सुत्वा तस्याप्यभूत्सुतः । अधीतवन्तौ चैकैकां संहितां तौ महामती ॥२॥ सुमन्तुरिति ॥ तां जैमिनिसंहितां तत्पुत्रपौत्रावेकैकावयौगपद्येन स्वस्वपितुरधीतयन्तौ ॥२॥ सहस्रसंहिताभेदं सुकर्मा तत्सुतस्ततः । चकार तं च तच्छिष्यौ जगृहाते महाव्रतौ ॥३॥ सहस्रेति ॥ एवं सुत्वनः पुत्रः सुकर्माऽपि स्वपितुरधीत्य सहस्रं संहिताभेदं […]
श्रीविष्णुपुराणम् Amsa 03 Ady 05
श्रीविष्णुपुराणम् अथ पञ्चमोऽध्यायः श्रीपराशर:- यजुर्वेदतरोश्शाखास्सप्तविंशन्महामुनिः। वैशंपायननामाऽसौ व्यासशिष्यश्चकार वै ॥१॥ शिष्येभ्यः प्रददौ ताश्च जगृहुस्तेऽप्यनुक्रमात् ॥२॥ याज्ञवल्क्यस्तु तत्राभूद्ब्रह्मरातसुतो द्विज । शिष्यः परमधर्मज्ञो गुरुवृत्तिपरस्सदा ॥३॥ यजुर्वेदतरोरिति ॥ सप्तविंशति यजुषः प्रधानशाखाः । ब्रह्माण्डोक्तः षडशीतिपक्षः तत्प्रतिशाखा- -विवक्षया। ताश्च काण्वादिशुक्लयजु पञ्चदशकं च संहत्येकशतमध्वर्युशाखाः आपस्तंबोक्तास्स्युः ॥१-३॥ ऋषिर्योऽद्य महामेरोः समाजे नागमिष्यति । तस्य वै सप्तरात्रात्तु ब्रह्महत्या भविष्यति ॥४॥ पूर्वमेवं मुनिगणैस्समयो यः […]
श्रीविष्णुपुराणम् Amsa 03 Ady 04
श्रीविष्णुपुराणम् अथ चतुर्थोऽध्यायः श्रीपराशर:- आद्यो वेदश्चतुष्पादः शतसाहस्रसम्मितः । ततो दशगुणः कृत्स्नो यज्ञोऽयं सर्वकामधुक् ॥१॥ आद्य इति ॥ आद्य: सर्गादौ चतुर्मुखेनाविभक्तः पठितः । चतुष्पादः ऋगादिरूपेण। शतसाहस्रेति अनन्तशाखासमुदायरूपः । ततः–तस्माद्दशगुणो यज्ञः प्रावर्तत । दशगुणो-दशविधः, स एष यज्ञः पञ्चविधोऽग्निहोत्रं दर्शपूर्णमासौ चातुर्मास्यानि पशुबन्धः सोम इति। तथा *पञ्च वा एते महायज्ञाः, इत्युपक्रम्य * देवयज्ञः पितृयज्ञो भूतयज्ञो मनुष्ययज्ञो ब्रह्मयज्ञः इति […]
श्रीविष्णुपुराणम् Amsa 03 Ady 03
श्रीविष्णुपुराणम् अथ तृतीयोऽध्यायः मैत्रेय:- ज्ञातमेतन्मया त्वत्तो यथा सर्वमिदं जगत् । विष्णुर्विष्णौ विष्णुतश्च न परं विद्यते ततः ॥१॥ एतत्तु श्रोतुमिच्छामि व्यस्ता वेदा महात्मना । वेदव्यासस्वरूपेण यथा तेन युगेयुगे ॥ २ ॥ यस्मिन्यस्मिन्युगे व्यासो यो य आसीन्महामुने । तं तमाचक्ष्व भगवञ्छाखाभेदांश्च मे वद ॥३॥ श्रीपराशर:- वेदद्रुमस्य मैत्रेय शाखाभेदास्सहस्रशः । न शक्या विस्तराद्वक्तुं संक्षेपेण शृणुष्व त्वम् ॥४॥ […]
श्रीविष्णुपुराणम् Amsa 03 Ady 02
श्रीविष्णुपुराणम् अथ द्वितीयोऽध्यायः मैत्रेयः- प्रोक्तान्येतानि भवता सप्त मन्वन्तराणि वै । भविष्याण्यपि विप्रर्षे ममाख्यातुं त्वमर्हसि ॥१॥ श्रीपराशरैः- सूर्यस्य पत्नी संज्ञाऽभूत्तनया विश्वकर्मणः । मनुर्यमो यमी चैव तदपत्यानि वै मुने ॥२॥ सूर्यस्येति ॥ अष्टममनोः प्रसङ्गाद् यमादीनां जन्मेतिहासः ॥ १,२ ॥ असहन्ती तु सा भर्तुस्तेजश्छायां युयोज वै । भर्तुःशुश्रूषणेsरण्यं स्वयं च तपसे ययौ ॥३॥ संज्ञेयमित्यथार्कश्च छायायामात्मजत्रयम् । […]
श्रीविष्णुपुराणम् Amsa 03 Ady 01
श्रीविष्णुपुराणम् तृतीयेऽशे प्रथमोऽध्यायः मैत्रेयः- कथिता गुरुणा सम्यग्भूसमुद्रादिसंस्थितिः । सूर्यादीनां च संस्थानं ज्योतिषां चातिविस्तरात् ॥१॥ देवादीनां तथा सृष्टिर्ऋषीणां चापि वर्णिता । चातुर्वर्ण्यस्य चोत्पत्तिस्तिर्यग्योनिगतस्य च ॥२॥ ध्रुवप्रह्लादचरितं विस्तराच्च त्वयोदितम् । मन्वन्तराण्यशेषाणि श्रोतुमिच्छाम्यनुक्रमात् ॥३॥ मन्वन्तराधिपांश्चैव शक्रदेवपुरोगमान् । भवता कथितानेताञ्छ्रोतुमिच्छाम्यहं गुरो ॥ ४ ॥ उक्त: प्रथमांशे प्रजासर्गः । द्वितीये तच्छेषः प्रियव्रतवंशः, प्रसक्तः सृष्टानामावासभूतो लोकसन्निवेशः।अथ तृतीयचतुर्थयोर्वैदिकः मनुब्यासादिप्रवर्तितो धर्मः, […]
श्रीविष्णुपुराणम् Amsa 02 Ady 14
श्रीविष्णुपुराणम् अथ चतुर्दशोऽध्यायः श्रीपराशरः- निशम्य तस्येति वचः परमार्थसमन्वितम् । प्रश्रयावनतो भूत्वा तमाह नृपतिर्द्विजम् ॥१॥ पूर्वाध्याये देहादिव्यतिरिक्त आत्मेत्युक्तम् । अनन्तरेणाध्यायेन स एवं [नित्यत्वा– -नन्यार्थत्वानौपाधिकत्वादिभिः] परमपुरुषार्थ इत्युच्यते-निशम्येति ॥ परमार्थसमन्वितं परमार्थतया वक्ष्यमाणेनारमना समन्वितं– विषयम् ॥ १॥ राजोवाच – भगवन्यत्त्वया प्रोक्तं परमार्थमयं वचः । श्रुते तस्मिन्भ्रमन्तीव मनसो मम वृत्तयः ॥२॥ भगवन्निति ।। परमार्थमयम्-आत्मयाथात्म्यप्रतिपादकत्वेन परमप्रयोजनरूपम् । […]
श्रीविष्णुपुराणम् Amsa 02 Ady 13
श्रीविष्णुपुराणम् अथ त्रयोदशोऽध्यायः मैत्रेयः – भगवन्सम्यगाख्यातं यत्पृष्टोऽसि मयाऽखिलम् । भूसमुद्रादिसरितां संस्थानं ग्रहसंस्थितिः ॥१॥ विष्ण्वाधारं यथा चैतत् त्रैलोक्यं समवस्थितम् । परमार्थस्तु मे प्रोक्तो यथा ज्ञानं प्रधानतः ॥२॥ विश्वाधारमिति ॥ चिदचिदात्मकं जगद्यथा विष्ण्वात्मकं तथोक्तम् । यथा चिदंशो निजसिद्ध ज्ञानैकाकारत्वेनाविनाशित्वात्परमार्थः तथा प्राधान्येनोक्तः ॥१,२॥ यत्वेतद्भगवानाह. भरतस्य महीपतेः । श्रोतुमिच्छामि चरितं तन्ममाख्यातुमर्हसि ॥३॥ भरतः स महीपालः सालग्रामेऽवसत्किल । योगयुक्तः समाधाय […]