श्रीविष्णुपुराणम् Amsa 02 Ady 12

श्रीविष्णुपुराणम् अथ द्वादशोऽध्यायः1  श्रीपराशरः – रथस्त्रिचक्रः सोमस्य कुन्दाभास्तस्य वाजिनः । वामदक्षिणतो युक्ता दश तेन चरत्यसौ ॥१॥ वीथ्याश्रयाणि ऋक्षाणि ध्रुवाधारेण वेगिना । हासवृद्धिक्रमस्तस्य रश्मीना सवितुर्यथा ॥२॥ अर्कस्येव हि तस्याश्वाः सकृद्युक्ता वहन्ति ते । कल्पमेकं मुनिश्रेष्ठ वारिगर्भसमुद्भवाः ॥३॥            अर्कस्यैवेति । वारिगर्भसमुद्भवाः-जलमयाः, * वारिगर्भसमुद्भूतो रथस्साश्वस्ससारथि–   –रित्यादित्यपुराणे ॥१-३॥ क्षीणं पीतं सुरैस्सोममाप्याययति दीप्तिमान् । मैत्रेयैककलं सन्तं रश्मिनैकेन भास्करः ॥४॥ […]

श्रीविष्णुपुराणम् Amsa 02 Ady 11

श्रीविष्णुपुराणम् अथैकादशोऽध्यायः        मैत्रेयः – यदेतद्भगवानाह गणस्सप्तविधो रवेः । मण्डले हिमतापादेः कारणं तन्मया श्रुतम् ॥१॥ व्यापारश्चापि कथितो गन्धर्वोरगरक्षसाम् । ऋषीणां वालखिल्यानां तथैवाप्सरसां गुरो ॥२॥ यक्षाणां च रथे भानोर्विष्णुशक्तिधृतात्मनाम् । किं चादित्यस्य यत्कर्म तन्नात्रोक्तं त्वया मुने ॥३॥ यदि सप्तगणो वारि हिममुष्णं च वर्षति । तत्किमत्र रवेर्येन वृष्टिः सूर्यादितीर्यते ॥ ४ ॥ विवस्वानुदितो मध्ये यात्यस्तमिति किं जनः […]

श्रीविष्णुपुराणम् Amsa 02 Ady 10

श्रीविष्णुपुराणम् अथ दशमोऽध्यायः श्रीपराशरै:- त्र्यशीतिमण्डलशतं काष्ठयोरन्तरं द्वयोः । आगेहणावरोहाभ्यां भानोरब्देन या गतिः॥१॥ अथ भानुरथस्य दिनभ्रमणवृत्तसंख्यामाह-त्र्यशीतीति ॥ काष्ठयोरन्तरम्-उदग्दक्षिणसीमयोर्मध्यस्थ. वियत्प्रदेशः त्र्यशीतिशतधा भिन्नः, आरोहणावरोहणाभ्यां भानोरब्देन या गतिः स्यात् । गम्यत इति गतिः ॥.. महाक्षे हि तत्तद्वृत्तरेखान्तरालमुदगयनेऽनुदिनं मेर्वभिमुखो रथो यावत्काष्ठान्तमारोहति, याम्यायने तु तान्येव मण्डलान्तरालानि प्रत्यहं मानसोत्तराभिमुखोऽवरोहति यावत्काष्ठम् । एवं च भानोरेकाब्दसाध्या द्वादशराशिभोगा रिमका षट्पष्टयुत्तरत्रिशतवारभ्रमेण गति: स्यात् । सर्वोत्तरमेरुपतितगंगाप्रवाहणां तत्तद्दक्षिणाब्धिप्रवेशोत्या […]

श्रीविष्णुपुराणम् Amsa 02 Ady 09

श्रीविष्णुपुराणम् अथ नवमोऽध्यायः श्रीपराशरः – तारामयं भगवतः शिंशुमाराकृति प्रभोः। दिवि रूपं हरेर्यत्तु तस्य पुच्छे स्थितो ध्रुवः ॥१॥ सैष भ्रमन् भ्रामयति चन्द्रादित्यादिकान् ग्रहान् । भ्रमन्तमनु तं यान्ति नक्षत्राणि च चक्रवत् ॥ २॥ अथ ध्रुवप्रसंगात्तद्वारा सर्वाधारं तारापुञ्जकल्पितावयवं शिंशुमाराकृति भगवतो रूपमाह-तारा मयमिति ॥ १, २ ॥ सूर्याचन्द्रमसौ तारा नक्षत्राणि ग्रहैः सह । वातानीकमयधैर्धवे बद्धानि तानि वै ॥३॥ सूर्याचन्द्रमसाविति […]

श्रीविष्णुपुराणम् Amsa 02 Ady 08

श्रीविष्णुपुराणम् अथ अष्टमोऽध्यायः श्रीपराशर: – व्याख्यातमेतद्ब्रह्माण्डसंस्थानं तव सुत्रत । ततः प्रमाणसंस्थाने सूर्यादीनां शृणुष्व मे ॥१॥ अथ ज्योतिश्चकम् । व्याख्यातमिति ॥ एतत्-ब्रह्माण्डसंस्थान मथा तव व्याख्यातम् ॥ १॥ योजनानां सहस्राणि भास्करस्य रथो नव । ईषादण्डस्तथैवास्य द्विगुणो मुनिसत्तम ॥२॥ योजनानामिति ॥ भास्करस्य देहव्याप्तो रथभागों नवसाहस्रः, वक्ष्यमाणगंधर्वादिपरिवारावकाशार्थों रथांशश्च सहनमात्रः, इत्थं दशसहस्रो रथः, * मण्डलं भास्करस्याथ योजना(प्रा)नान्निबोधत । नवयोजन साहस्रो […]

श्रीविष्णुपुराणम् Amsa 02 Ady 07

श्रीविष्णुपुराणम् अथ सप्तमोऽध्यायः । मैत्रेय: – कथितं भूतलं ब्रह्मन्ममैतदखिलं त्वया । भुवर्लोकादिकॉल्लोकाञ्छोतुमिच्छाम्यहं मुने ॥ १ ॥ तथैव ग्रहसंस्थान प्रमाणानि यथा तथा। समाचक्ष्व महाभाग तन्मह्य परिपृच्छते ॥ २ ॥ कथितमिति ॥ कथितमित्यादि भुवनशेषस्य ज्योतिश्चक्रस्य च प्रश्नः ॥ १, २ ॥ श्रीपराशरः— रविचन्द्रमसोर्यावन्मयूखैरवभास्यते । ससमुद्रसरिचोला तावती पृथिवी स्मृता ॥३॥ रवीति ॥ तावती भूलोकाख्या ॥ ३ ॥ यावत्प्रमाणा पृथिवी […]

श्रीविष्णुपुराणम् Amsa 02 Ady 06

श्रीविष्णुपुराणम् अथ षष्ठोऽध्यायः ततश्च नरका विप्र भुवोऽधस्मलिलस्य च । पापिनो येषु(पच्यन्ते)पात्यन्ते ताञ्छृणुध महामुने॥१॥ उक्ता पुण्योगभूमिः । अथ पापभोगभूमिरुच्यने-ततश्चेति ॥ सलिलस्य-तमोगोंदकस्य, अवः ॥ १॥ रौरवस्सूकरो रोधस्तालो विशमनस्तथा । महाज्वालस्तप्तकुम्भो लवणोऽथ विलोहितः ॥२॥ रौरव इति ।। रोरवसूकरौ रुरुवराहकृतपीडात्मको। निखातवद्यत्र रुद्धयते स रोधः । तालद्रुमात्पातनं तत्पर्णकाण्डेन च छेदनं यत्र स नालः । करपत्रादिना तीक्ष्णशस्त्रेण यत्र च्छेदनं स विशसनः […]

श्रीविष्णुपुराणम् Amsa 02 Ady 05

श्रीविष्णुपुराणम् अथ पञ्चमोऽध्यायः विस्तार एष कथितः पृथिव्या भवतो मया । सप्ततिस्तु सहस्राणि द्विजोच्छायोऽपि कथ्यते ॥१॥          विस्तार इति ॥ सप्ततिसहस्रोंच्छ्रायत्वं सप्तभूमिकप्रासादन्यायेन ॥ १ ॥ दशसाहस्रमेकैकं पातालं मुनिसत्तम । अतलं वितलं चैव नितलं च गभस्तिमत् । महाख्यं सुतलं चाग्र्यं पातालं चापि सप्तमम् ॥ २ ॥ शुक्लकृष्णारुणाः पीताः शर्कराश्शैलकाञ्चनाः । भूमयो यत्र मैत्रेय वरप्रासादमण्डिताः ॥३॥ तेषु दानवदैतेयजातयश्शतशस्तथा […]

श्रीविष्णुपुराणम् Amsa 02 Ady 04

श्रीविष्णुपुराणम् अथ चतुर्थोऽध्यायः |  श्रीपराशरः– क्षारोदेन यथा द्वीपो जम्बूसंज्ञोऽभिवेष्टितः । संवेष्ट्य क्षारमुदधिं प्लक्षद्वीपस्तथा स्थितः ॥१॥ सम्बूद्वीपस्य विस्तारः शतसाहस्रसंमितः । स एव द्विगुणो ब्रह्मन् प्लक्षद्वीप उदाहृतः ॥२॥ सप्त मेधातिथेः पुत्राः प्लक्षद्वीपेश्वरस्य वै। ज्येष्ठः शान्तहयो नाम शिशिरस्तदनन्तरः ॥३॥ सुखोदयस्तथानन्दः शिवः क्षेमक एव च । ध्रुवश्च सप्तमस्तेषां प्लक्षद्वीपेश्वरा हि ते ॥४॥ पूर्वं शान्तहयं वर्षं शिशिरं च सुखं तथा […]

श्रीविष्णुपुराणम् Amsa 02 Ady 03

श्रीविष्णुपुराणम् अथ तृतीयोऽध्यायः         श्रीपराशरः- उत्तरं यत्समुद्रस्य हिमाद्रेश्चैव दक्षिणम् । वर्षं तद्भारतं नाम भारती यत्र सन्ततिः ॥१॥     उत्तरमिति ॥ समुद्रस्य–पुरातनस्य, न तु सगरसुताखातस्य । भारती-भरतस्य राज्ञः संबन्धिनी ॥१॥ नवयोजनसाहस्रो विस्तारोऽस्य महामुने । कर्मभूमिरियं स्वर्गमपवर्ग च गच्छताम् ॥ २॥ महेन्द्रो मलयः सह्यः शुक्तिमानृक्षपर्वतः । विंध्यश्च पारियात्रश्च सप्तात्र कुलपर्वताः॥ ३ ॥        नवयोजनेति ॥ विस्तारः–दक्षिणोत्तरतः ; आयामस्तु […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.