तत्त्वदीपसंग्रहकारिका
श्रीमते रामानुजाय नमः । श्रीवादिकेसरिसौम्यजामातृमुनिविरचिता तत्त्वदीपसंग्रहकारिका ।। अथ मूलमन्त्रप्रकरणम् । अस्मद्गुरुमुखान्सर्वानभिवन्द्य गुरून् क्रमात्। आद्यं लक्ष्मीपतिं देवमाश्रये परमं गुरुम्।।१।। अस्मद्गुरुदयायातयतीन्द्राङ्गीक्रियान्वयः। लभेय लब्धविज्ञानो लक्ष्मीपतिपदद्वयम्।। २ ।। सद्गुरुस्नेहवर्त्यन्तस्फुरितस्य विधीयते। संविवेत्तुं रहस्यार्थं तत्त्वदीपस्य सङ्ग्रहः।। ३ ।। मूलमष्टाक्षरं मन्त्रं मन्त्ररत्नं दयाह्वयम्। चरमश्लोक एतस्तु रहस्यत्रितयं विदुः।। ४ ।। तत्रादौ मूलमन्त्रार्थो यथावदनुवर्ण्यते। स्वस्वरूपावबोधार्थं तत्त्वयाथात्म्यचिन्तकैः।। ५ ।। सप्रकारस्वरूपोक्तिसामर्थ्यान्मूलमन्त्रतः। तत्त्वस्वरूपयाथात्म्यं वर्ण्यते तत्त्वदर्शिभिः।। ६ ।। […]