श्रीमते रामानुजाय नमः ।
श्रीवादिकेसरिसौम्यजामातृमुनिविरचिता
तत्त्वदीपसंग्रहकारिका ।।
अथ मूलमन्त्रप्रकरणम् ।
अस्मद्गुरुमुखान्सर्वानभिवन्द्य गुरून् क्रमात्।
आद्यं लक्ष्मीपतिं देवमाश्रये परमं गुरुम्।।१।।
अस्मद्गुरुदयायातयतीन्द्राङ्गीक्रियान्वयः।
लभेय लब्धविज्ञानो लक्ष्मीपतिपदद्वयम्।। २ ।।
सद्गुरुस्नेहवर्त्यन्तस्फुरितस्य विधीयते।
संविवेत्तुं रहस्यार्थं तत्त्वदीपस्य सङ्ग्रहः।। ३ ।।
मूलमष्टाक्षरं मन्त्रं मन्त्ररत्नं दयाह्वयम्।
चरमश्लोक एतस्तु रहस्यत्रितयं विदुः।। ४ ।।
तत्रादौ मूलमन्त्रार्थो यथावदनुवर्ण्यते।
स्वस्वरूपावबोधार्थं तत्त्वयाथात्म्यचिन्तकैः।। ५ ।।
सप्रकारस्वरूपोक्तिसामर्थ्यान्मूलमन्त्रतः।
तत्त्वस्वरूपयाथात्म्यं वर्ण्यते तत्त्वदर्शिभिः।। ६ ।।
निर्मलज्ञाननिर्वाणस्वरूपश्चेतनस्स्मृतः।
नित्यं ज्ञातृत्वकर्तृत्वभोक्तृत्वनिजधर्मभाक् ।। ७ ।।
सोऽयं भगवदायत्तस्वरूपस्थितिवृत्तिकः।
तत्प्रकारतया सिध्दतच्छेषत्वस्वरूपवान्।। ८ ।।
तद्दास्यैकरतिर्नित्यं तदेकानुभवप्रियः ।
तद्भोगजनितानन्दनित्ययोग्यः पुमानसौ।। ९ ।।
तथाप्यनादिस्सृष्टैरविद्याकर्मवासना–
रुचिप्रकृतिबन्धैश्चेत्येतैर्बीजांकुरक्रमः।। १० ।।
स्वस्वरूपतिरोधानाहंमानेन दूषितः।
अर्थकामाभिभूतोऽयमुन्मत्तश्ववृत्तिकः।। ११ ।।
तदेकशेषमात्मानं तदेकशरणं तथा।
तदेकभोगं मन्त्रोऽयं प्रब्रवीति पदक्रमात्।। १२ ।।
तस्माच्छेषं शरण्यञ्च भोग्यं च भगवानिति।
ज्ञानान्निहन्यते ज्ञानमहंकारार्थकामजम्।। १३ ।।
एवं ज्ञातृत्वकर्तृत्वभोक्तृत्वमपि चात्मनः।
परायत्तमिति प्रोक्तमिति मन्त्रार्थसङ्ग्रहः।। १४ ।।
ऋष्यादिकं च माहात्म्यं तत्त्वदीपेऽस्य वर्णितम्।
अर्थमात्रन्त्विदं तत्र सुग्रहत्वाय कथ्यते।। १५ ।।
तत्राद्याक्षर ओङ्कारस्त्यक्षरः श्रुतिचोदितः।
अकारश्चाप्युकारश्च मकारश्च तथा स्मृतः।। १६ ।।
अकारस्सर्ववर्णादिः कारणत्वस्य वाचकः।
यत एव त्वकारो वै सर्वा वागिति च श्रुतिः।। १७ ।।
समानत्वादिति ब्रह्मेत्यस्य ब्रह्माभिधानता।
श्रूयते ब्रह्मणश्चापि जगज्जन्मादिलक्षणम्।। १८ ।।
तस्मात् समस्तशब्दादेरकारस्य स्वभावतः।
समस्तकारणब्रह्मवाचित्वमुपपद्यते।। १९ ।।
एतेन कारणत्वेन ह्युपादानत्वमिष्यते।
वाच्यवाचकयोस्सर्वप्रकृतित्वप्रसिद्धितः ।। २० ।।
‘तस्य प्रकृतिलीनस्येत्यकारस्य च तच्छ्रुतम्।
‘प्रकृतिश्चेति सूत्रेण ब्रह्मणश्चोपपादितम्।। २१ ।।
एवञ्च सत्युपादानं लयस्थानञ्च गम्यते।
‘इदमग्रे सदेवासीदेकमित्यादिवाक्यतः।। २२ ।।
किञ्चावधातोः कर्र्त्रथक्विबुत्पादनरूपतः।
व्याकृतोऽयमकारोऽत्र सर्वरक्षकवाचकः।। २३ ।।
एवं ब्रह्म जगज्जन्मलयस्थेमादिकारणम्।
विष्णुरेवेति च प्राहुरकारो विष्णुवाचकः ।। २४ ।।
चतुर्थ्यर्थं तथा चास्य पदत्वं विद्यते ततः।
तादार्थ्ये प्रतिसम्बन्धिशेषिवाचकता मता।। २५ ।।
तस्माद्विष्णुः परं ब्रह्म शेषीति प्रतिपादितः।
तस्य सर्वातिशयित्वं लक्ष्मीशत्वेन लक्ष्यते।। २६ ।।
गुणसिद्धिनयाल्लक्ष्म्या: स्वरूपान्तर्गततत्त्वतः।
स्वरूपवाचिशब्दान्तर्भावसंस्थानजातिवत्।। २७ ।।
एवमक्षररूपेण कारणत्वमिहोदितम्।
रक्षकत्वञ्च धात्वर्थाच्छेषित्वं पदरूपतः।। २८ ।।
श्रीशत्वं वाच्यशक्त्या च युज्यते परमात्मनः।
तमुद्दिश्यात्मपारार्थ्यं विभक्त्या परिकीर्त्यते।। २९ ।।
विभक्तेश्च चतुर्थीत्वं श्रुत्यैव प्रतिपादितम्।
‘त्वं ब्रह्मणेऽस्मै महसे युजीते’ति विधानतः।। ३० ।।
इत्थं परस्योपायत्वमुपेयत्वं च सूचितम्।
सकारणत्वाद्रक्षित्वाच्छेषित्वाच्छ्रीपतित्वतः।। ३१ ।।
रक्षकत्वमुपायत्वमर्थ्यपेक्षाविशेषितम्।
अभीष्टार्थनिदानत्वात् कारणत्वं तदन्वितम्।। ३२ ।
शेषित्वमेवोपेयत्वं किञ्चित्कार्यत्वरूपतः।
श्रीशत्वं सर्वथोत्कर्षादुपेयत्वमपूरयत्।। ३३ ।।
एवंरूपः परश्शेषी तस्मै पारार्थ्यवान् पुमान्।
अनन्यार्हस्वभावोऽयमित्युकारेण वर्ण्यते।। ३४
‘तदेव भूतं तदु भव्यमिति स्थानमानतः।
अवधारणरूपत्वमुकारस्य प्रमीयते।। ३५ ।।
ततः परमशेषित्वमनन्याश्रयमित्यतः।
शेषत्वञ्चाप्यनन्यार्हमित्येतदवधार्यते।। ३६ ।।
तस्मात् सामान्यशास्त्रोक्तमन्यशेषत्वमात्मनः।
निरुपाधिकशेषस्य कर्मोपाधि निवार्यते।। ३७ ।।
एवं सत्यपृथक्सिद्धप्रकारत्वं निरूपितम्।
आत्मनः परशेषत्वमित्युकारेण निश्चितम्।। ३८ ।।
मकारेणोच्यतेऽथात्मा पञ्चविंशाक्षरेण वै।
‘पञ्चविंशक आत्मेति श्रुतं त्वक्षरसंख्यया।। ३९ ।।
पृथिव्यादिप्रकृत्यन्तात् पर: पुरुषः स्मृतः।
चतुर्विंशतिसंख्यातात् तत्त्वराशेर्विविच्यते।। ४० ।।
मनधातोश्च कर्त्रर्थ उप्रत्ययटिलोपतः।
व्युत्पन्नोऽत्र मकारोऽयं ज्ञातृवाचक इष्यते।। ४१ ।।
ज्ञातृस्वरूपवाचित्वात् स्वसंवेद्यत्वमुच्यते।
ज्ञातुर्ज्ञानाविलोपेन नित्यत्वं चापि लक्ष्यते।। ४२ ।।
ज्ञानाश्रयस्वभावत्वात् अहंबुद्ध्यादिगोचरः।
आत्मा मोक्षदशायामप्यहमन्नमिति श्रुतेः।। ४३ ।।
माङ्–मान इति धातोश्च व्युत्पत्त्या मानवत्त्वतः।
एवं शेषत्वधर्मीति प्राधान्येनोक्तमात्मनः।। ४४ ।।
स्वरूपमुचितो यत्र तत्पारार्थ्योपलक्षितम्।
प्रकृत्याद्यतिरेकादप्यादौ पारार्थ्यमात्मनः।। ४५ ।।
प्रधानत्वेन विज्ञेयं ज्ञातुः स्वोज्जीवनार्थतः ।
एवं दास्यस्वरूपत्वेऽप्यन्यथाप्रतिपत्तितः।। ४६ ।।
सर्वपापनिदानन्तत् आत्मापहरणं भवेत्।
प्रायश्चित्तञ्च तस्यैतदीश्वरेणान्तरात्मना।। ४७ ।।
अविवादात्मकं दास्यं न गङ्गाकुरुसङ्गमः।
इदं शेषत्वविज्ञानं पुण्यकर्मात्मकं मतम्।। ४८ ।।
‘स सन् यज‘ इति श्रुत्या यजनत्वप्रसिद्धितः।
ज्ञातव्यं ज्ञानमेवैतमिदमेवाप्युपासनम्।। ४९ ।।
तत्रोत्तमैक्यमन्त्रोक्तं शेषत्वमपृथग्भवम्।
न्यासरूपमिदं ज्ञानं युंजीतेति नियोगतः।। ५० ।।
अविभागमिदं दृष्टं दास्यमाविष्कृतं फलम्।
एवं सर्वाधिकं विष्णुं प्रत्यनान्यार्हलक्षणम्।। ५१ ।।
शेषभूतोऽयमात्मेति वाक्यार्थः प्रणवोदितः।
अथ वायमुकारोऽत्र लक्ष्मीवाचक इष्यते।। ५२ ।।
उद्धृता विष्णुना लक्ष्मीरुकारेणेति वाक्यतः।
तथावधारणत्वार्थमहिष्यादिपदक्रमात्।। ५३ ।।
तत्रापि मिथुनस्यैव शेष आत्मेति सुस्थितम्।
प्रणवो भगवद्वाची प्राधान्यादर्थसंभवात्।। ५४ ।।
शब्दतस्त्वात्मवाची स्यात् राजपुरुषशब्दवत्।
एवं स्वतः परार्थस्य स्वार्थत्वं दोषसम्भवम् ।। ५५ ।।
परार्थ्यप्रतिबन्धित्वान्नमसात्र निवार्यते।
हेयोपादेयविज्ञानमूलं ज्ञातृत्वमात्मनः।। ५६ ।।
तत्तत्प्रहाणोपादानचिकीर्षाकर्तृताश्रिया।
कर्तृत्वञ्च श्रिया सिद्धौ स्वातन्त्र्यमनुशासनात्।। ५७ ।।
‘कर्ता शास्त्रार्थवत्त्वादि’त्यात्मनस्तच्च सूत्रितम्।
शक्तस्स एव शास्त्रेषु कर्तृत्वेन नियुज्यते।। ५८ ।।
तस्मात् स्वातन्त्र्यरूपस्य कथं शेषत्वमात्मनः।
इत्याशङ्कानिवृत्त्यर्थं स्वाधीनस्वार्थकर्तृताम्।। ५९ ।।
व्युदस्यति नमश्शब्दस्तादर्थ्यस्थैर्यमावहन्।
म इत्यनेन षष्ट्यन्तमकारव्यञ्जनेन वै।। ६० ।।
ममत्वमहमर्थस्य न ज्ञातुर्नास्ति नोच्यते।
ममत्वमेव स्वार्थत्वमात्मात्मीयान्वयाद्द्विधा।। ६१ ।।
तच्चाहङ्कारममतारूपमत्र निरस्यते।
न मह्यमिति वक्तव्ये न ममेत्युक्तिरिष्यते।। ६२ ।।
षष्ट्यास्सम्बन्धसामान्यवाचित्वात् स्वार्थता भवेत्।
एवं निषिध्य स्वार्थत्वस्वातन्त्रस्वत्वधीमयम्।। ६३ ।।
पारार्थ्यमेव प्रकृतं स्थापितं नमसात्मनः।
अतः कर्तृत्वमत्रास्य परायत्तमिति स्थितम्।। ६४ ।।
‘परात्तु तच्छुते’रित्यत्रार्थे सूत्रोपपादनात्।
तथाविधिनिषेधेषु वैयर्थ्यं तन्न संभवम्।। ६५ ।।
‘कृतप्रयत्नापेक्षं त्वित्यान्मनः प्रतिपादितम्।
इत्थं स्वार्थत्ववैधुर्यादस्याभीष्टार्थकारकः।। ६६ ।।
परमात्मेत्यतस्तस्य ह्युपायत्वं च गम्यते।
उपायाद्यधिकारार्थमाकिञ्चन्यमपेक्षितम्।। ६७ ।।
स्वरक्षणक्रियात्यागादत्रेव समुदीरितम्।
स्वरक्षणक्रियात्यागादत्रैव समुदीरितम्।। ६८ ।।
त्यागोऽयममृतस्यैष सेतुश्रुत्येव दर्शितः।
‘त्यागश्च न्यासपर्याय इति शास्त्रसमीरितः।। ६९ ।।
अतः स्वस्य स्वसंरक्षानन्वयप्रतिपादनात्।
स्वप्रवृत्तिनिवृत्त्यात्मपत्तिः प्रतिपादिता।। ७० ।।
शरण्यवर्जनाकारनमनं शरणागतिः।
अन्तोऽस्य चानुकूलादि षडङ्गं शास्त्रदर्शितम्।। ७१ ।।
अथ वोपायमात्मेशं ते न्यासात्मकं नमः।
शास्त्रे तथैवादेशाच्च न्यासो ब्रह्मेति च श्रुतेः।। ७२ ।।
अनादिपरमेशो यरशक्तिमानच्युतः प्रभुः।
स्वप्राप्तये प्रधानोऽयं पन्था नमननामवान्।। ७३ ।।
इत्येवं नमसरशास्त्रं परमार्थं प्रदर्शयन्।
नावसथयोपायभूतस्य नमस्त्वं समुपादितम्।। ७४ ।।
शब्दतश्चार्थतश्चैवं नमसा प्रतिपादितम् ।
अनन्योपायरूपत्वमनन्याङ्गस्य चात्मनः।। ७५ ।।
स्वरूपस्यानुरूपत्वात् भक्तेरप्यत्र सूचनम् ।
यतेर्नमस्कुर्वित्यस्य भजनत्वविधानतः।। ७६ ।।
तथाप्ययं नमश्शब्दः प्रपत्तिप्रतिपादकः।
अनन्योपायतार्थत्वादात्मन्यासोक्तितोऽपि च।। ७७ ।
अथोक्तार्थपरार्थत्वयुक्तये चरमं पदम्।
शरीरात्मत्वसम्बन्धं प्राहात्मपरमात्मनोः ।। ७८ ।।
तत्र नारायणपदं समस्तत्वात् पदद्वयम्।
प्रोक्तं नारपदं तत्र नरसंघातवाचकम्।। ७९ ।।
रि–क्षयेति क्षयार्थस्य उप्रत्ययटिलोपतः।
र इत्युक्त क्षयिष्ण्वर्थं निषेधो नेति चोच्यते।। ८० ।।
नित्याक्षरात्मा तु नरो नारस्तत्सङ्घ उच्यते।
सङ्घाश्च बहवो बद्ध–नित्य–मुक्तविभागतः।। ८१ ।।
इण्–धातोरय–धातोर्वा ल्युटोऽनादेशतोऽयनम्।
कर्मत्वकरणत्वोक्त्या प्राप्यं प्रापकमिष्यते।। ८२ ।।
अयनं वासवाचित्वादाधारस्य च वाचकम्।
आधाराधेयनैयत्यमात्मदेहत्वलक्षणम्।। ८३ ।।
एवं नारायणस्त्वात्मा सर्वेषामात्मनां सदा।
सर्वप्रकारप्राप्यश्च प्रापकश्चेत्युदीरितः।। ८४ ।।
मातृपितृगृहक्षेत्रदारपुत्रधनादिकः।।
स्वर्गाद्याश्च तथा मोक्षः पुमर्थः प्राप्य ईरितः।। ८५ ।।
साङ्गोपबृंहणं न्यायवेदार्थज्ञानपूर्वकः।
कर्मधीभजनं न्यासप्रमुखप्रापकस्तथा।। ८६ ।।
सर्वात्मकस्सदा साक्षात् स एव भगवानिति।
सर्वशास्त्रार्थनिष्कर्षो नारायणपदोदितः।। ८७ ।।
समासस्योत्तरपदप्रधानत्वान्नपुंसकम्।
पदं तत्पुरुषत्वे स्यादिति नात्र विचार्यता।। ८८ ।।
‘करणाधिकरणयोश्चेति सूत्रानुशासनम्।
सञ्ज्ञारूपपदस्यास्य सञ्ज्ञी लिङ्गिप्रसिद्धितः।। ८९ ।।
एवं तत्पुरुषत्वेऽपि पुंलिङ्गत्वोपपत्तितः।
नाराणामयनत्वाच्च नारायण इति स्मृतः ।। ९० ।।
अथ वा नारशब्देन कार्यजातमुदीर्यते।
नरजातपदार्थानां नारत्वप्रतिपादनात्।। ९१ ।।
नारा एवायनं वासो यस्य नारायणस्तु सः।
इति व्युत्पत्तितस्तस्य तदन्तर्वर्तितोदिता।। ९२ ।।
‘तत्सृष्ट्वा च तदेवानुप्राविशं‘च्च ततः परम्।
‘सच्च त्यच्चाभवच्चेत्याद्युक्तार्थो ऽत्रावगम्यते।। ९३ ।।
तद्भावस्तु तदात्मत्वात्तद्रूपवचनान्वयात्।
यतस्तेषां शरीरत्वं तस्यात्मत्वमपि श्रुतम्।। ९४ ।।
अत्र नारायणपदं नारशब्द इतीष्यते।
पर्यायेण प्रयुक्तोऽपि ‘जह्नुर्नारायणो नरः ।। ९५ ।।
नरशब्दोऽर्थवाचित्वादविकारत्ववाचकः।
उपादानादिभावेऽपि ब्रह्मणः परमात्मनः ।। ९६ ।।
एवं विकारदूरत्वात् व्याप्यादिगुणवैभवात्।
परस्योभयलिङ्गत्वं सर्वात्मत्वेन दृश्यते।। ९७ ।।
अतो नारायणस्साक्षाज्जगज्जन्मादिकारणम्।
श्रुत्यादिषु स एवैको न बह्मा न च शंकर: ।। ९८ ।।
उपादाननिमित्तैक्यादस्य ब्रह्मादिरूपतः।
सृष्ट्यादिकारणं तत्तत् कर्मत्वाच्चोपपद्यते।। ९९ ।।
कारणत्वमकारोक्तं शेषित्वस्योपपादनम्।
आ व्याप्त्यर्थमुदितं पौनरुक्त्यमतो न च ।। १०० ।।
समासद्वयतश्चैवं व्युत्पत्तिरुपपादिता।
व्याप्यैकदेशतात्पर्यवचनार्थानुसारतः।। १०१ ।।
चेतनाश्रयरूपत्वमात्रं तत्पुरुषोदितम्।
कार्यमात्रशरीरत्वं बहुव्रीहौ च दर्शितम्।। १०२ ।।
तथा नारायणपदं समस्तेष्वपि वस्तुषु।
अन्तर्बहिश्च व्याप्तिश्च संज्ञात्वेन श्रुतीरितम्।। १०३ ।।
तत्र नारपदं नित्यवस्तुसंघाभिधायकम्।
स्वत: प्रवाहतश्चेति नित्यत्वञ्च द्विधोदिते।। १०४ ।।
नित्यानामपि वस्तूनां नित्येष्टत्वात् परात्मना।
तद्गुणादिवदेवेह नित्यत्वमवगम्यते।। १०५ ।।
अपृथक्सिद्धरूपेण नित्यं तत्पारतन्त्र्यतः।
परैकायत्तरूपत्वं नित्यानां श्रूयते परम्।। १०६ ।।
परस्य गुणरूपे च भूषणान्यायुधानि च।
पत्न्य: परिजनस्थानमिति भोगविभूतयः ।। १०७ ।।
विमोचकरणं कालः क्षेत्रज्ञः पुरुषस्तथा।
स्वतो नित्यमिदं संर्व प्रवाहेणान्यनित्यता।। १०८ ।।
महानहंकृतिश्चैव पञ्चतन्मात्रकं तथा।
एकादशेन्द्रियं पञ्च भूतान्यण्डञ्च तद्भवम्।। १०९ ।।
तदन्तर्वस्तुजातं यदण्डान्तरशतं च यत्।
संर्व नारपदेनोक्तमिति शास्त्रविदां मतम्।। ११० ।।
अथ वा नरसम्बन्धि नारमित्यभिधीयते।
नरश्च भगवान्नित्यो नाराश्चिदचिदात्मकाः।। १११ ।।
यस्यायनं ते तेषां य इति व्युत्पत्तिभेदतः।
अन्तर्बहिश्चेत्यत्रोक्तं व्याप्तिद्वयमुदीर्यते।। ११२ ।।
तत्रान्तर्व्याप्तितस्तस्य नियन्तुः परमात्मनः ।
सर्ववस्तुशरीरत्वं सिद्धं सर्वान्तरात्मनः ।। ११३ ।।
बहिर्व्याप्तेरनन्तस्य स्वरूपाल्पांशलेशतः।
सर्वाधारत्वरूपेण महार्थातिशयः स्पुटः ।। ११४ ।।
एवं व्याप्तिद्वयाकारः श्रूयते परमात्मनः।
‘अणोरणीयान् महतो महीयानिति वाक्यतः ।। ११५ ।।
नारायणस्य सर्वेषामणीयस्त्वमणीयसाम्।
समस्तानां महिष्ठानां महिष्ठत्वमपि श्रुतम्।। ११६ ।।
तस्मानारायणः साक्षादचितां च चितामपि।
अन्तरात्मा च सर्वेषामाधारश्चोपपादितः।। ११७ ।।
नारायणपदस्यास्य प्रोक्तोऽयं योजनाक्रमः।
व्याप्यसंकोचवृत्त्यैव पूर्णार्थप्रतिपादकः ।। ११८ ।।
वासुदेवपदे व्यक्तं व्याप्तिद्वयमिदं समम्।
तत्र चाध्याहृतं व्याप्यमत्र नारपदोदितम्।। ११९ ।।
पुरुषोत्तमशब्दश्च समानार्थे ऽवगम्यते।
क्षराक्षरोभयव्याप्तिभृतिस्वाम्यादिकस्तथा।। १२० ।।
एवं समस्तशब्दानां परतत्त्वाभिधायिनाम्।
नारायणपरत्वञ्च वेदान्तेषु नियम्यते।। १२१ ॥
प्रणवेन प्रतिज्ञातं परशेषत्वमात्मना।
तसिद्ध्यै स्वार्थताभावो नमसा प्रतिपादितः।। १२२ ।।
तस्योपपत्तये ज्ञातुः परमात्मशरीरता।
नारायणपदेनोक्ता तत्पारार्थ्यैकलक्षणा।। १२३ ।।
तस्मात्परैकशेषत्वं स्वरूपमिति चात्मनः।
उक्तं निगमयत्यत्र तादर्थ्यप्रत्यय: स्कुटम्।। १२४ ।।
अतः पारार्थ्यसिद्ध्यर्थं ज्ञातु: स्वार्थत्ववारणम्।
युक्तं परशरीरत्वात्ततस्तच्छेषता स्थिता ।। १२५ ।।
प्रथमेन स्वरूपस्य मध्यमेन स्थितेरपि।
चरमेण पदेनोक्ता प्रवृत्तेश्च तदर्थता ।। १२६ ।।
स्वरूपस्थितिवृत्तीनामेवं तादर्थ्ययसंभवात्।
तदर्थवृत्तिरूपं तत् कैंकर्यं प्रत्ययोदितम् ॥ १२७ ॥
सर्वदा सर्वदेशेषु सर्वावस्थासु सर्वथा।
तत्कैंकर्यैकभागत्वमात्मनश्शास्त्रदर्शितम्।। १२८ ।।
भोक्तृभोग्यार्थनित्यत्वादत्र भोगस्य नित्यता।
असङ्कोचपरिच्छेदात् सर्वत्र च समन्वयः।। १२९ ।।
अपृथक्सिद्धरूपत्वात् सर्वावस्थात्वसंभवः।
सर्वप्रकारसम्बन्धात् सिध्दस्सर्वविधान्वयः।। १३० ।।
एवं ज्ञातृत्वकर्तृत्वभोक्तृत्वमपि चात्मनः।
परायत्तमिति प्रोक्तं क्रमादत्र पदत्रये।। १३१ ।।
साक्षाद्भोक्ता परश्शेषी शेषस्य ज्ञातृतान्वयात्।
कर्तृत्ववत्तदायत्तं भोक्तृत्वमपि च स्थितम्।। १३२ ।।
भोग्यत्वादन्नभूतोऽहं मामदन्तं विपश्चितम्।
अत्तीति मुक्तस्यान्नत्वमन्नादत्वञ्च गीयते।। १३३ ।।
तस्मादनन्यशेषोऽयमनन्यशरणस्तथा।
अनन्यभोगश्चात्मेति पदत्रयसमीरितम्।। १३४ ।।
अतश्शेषी शरण्यश्च भोग्यश्च भगवानिति।
ज्ञानादपास्तमज्ञानमहङ्कारार्थकामनम्।। १३५ ।।
एवं प्रकारसम्पन्नं मन्त्रेणानेन कृत्स्नशः।
आत्मस्वरूपयाथात्म्यं सामान्येनोपवर्णितम्।। १३६ ।।
स्वानुसन्धानरूपत्वं मन्त्रस्यास्य यदीष्यते।
तदा नारायणायैव स्यामिति प्रार्थना मता।। १३७ ।।
सर्वावस्थोचिताशेषशेषतैकरतिस्तव।
भवेयमिति कैंकर्यप्रार्थनावचनोदयात्।। १३८ ।।
स्वांशशब्दार्थसंसर्गसिध्दवाक्यार्थबोधनात्।
पदत्रयस्य प्रत्येकं वाक्यत्वे संभवत्यपि।। १३९ ।।
वाक्यैकवाक्यन्यायेन परस्परसमन्वयात्।
अत्रावान्तरवाक्यत्वे नैकवाक्यत्वमिष्यते।। १४० ।।
परस्पराश्रयो वा स्यात् सर्वत्रान्योऽन्यदास्यतः।
इत्याशङ्का न कर्तव्या विषयस्य व्यवस्थितेः।। १४१ ।।
शेषत्वमनुसन्धेयं स्वासाधारणमात्मनः।
शेषित्वं स्वेतराशेषतदीयाश्रयमित्यतः।। १४२ ।।
एवं प्रत्येकतस्सिध्देर्न विरोधादिसंभवः।
तस्मात्तदीयशेषत्वमुपपन्नतरं भवेत्।। १४३ ।।
अनन्यशेषतायुक्तमाकारत्रयमात्मनः।
शेषित्वादिपराकारत्रितयप्रतियोगिकम् ।। १४४ ।।
तथा तदीयपारार्थ्ये ऽप्याकारत्रयमिष्यते।
शेषिणश्च शरण्याश्च प्राप्याश्चानेन ते मताः।। १४५ ।।
एतेषामिदमाकारत्रयञ्चात्रावगम्यते।
तत्तदाकारसंयुक्तपराशक्तिप्रभावता ।। १४६ ।।
अतः पदत्रयप्रोक्तमाकारत्रयमात्मनः।
तदीयान्वयपर्यन्तमित्येतत् प्रतिपादितम् ।। १४७ ।।
एकवाक्यत्वपक्षेऽपि विशिष्टविषयत्वतः।
तदीयान्वयपर्यन्ततच्छेषत्वपरं नमः ।। १४८ ।।
तस्मादितरसंसृष्टजनसंसर्गवर्जितम्।
तदीयदास्यं तत्त्वज्ञैः मन्त्रतात्पर्यमीरितम्।। १४९ ।।
सौम्यजामातृमुनिना गुरुस्नेहदशान्वयात्।
विहितो मूलमन्त्रार्थस्तत्त्वदीपस्य संग्रहः।। १५० ।।
इति तत्त्वदीपसंग्रहकारिकायां मूलमन्त्रप्रकरणं समाप्तम्।
अथ द्वयप्रकरणम्।
अथाष्टाक्षरमन्त्रार्थतत्त्वयाथात्म्यवेदिनः।
हित: प्रपदनाकारो द्वयार्थस्संप्रदर्श्यते।।१।।
उपायोपेययाथात्म्यप्रत्ययानुपुरस्सरात्।
तत्तद्वरणनिक्षेपरूपार्थद्वयबोधनात्।। २ ।।
वाक्यद्वयात्मकत्वाच्च द्वयमित्युच्यते बुधै:।
तदिदं मन्त्ररत्नं तु नाम पौराणिका जगुः।। ३ ।।
खिले च कठवल्यादावखिले तन्त्रविस्तरे।
पाद्मादिके पुराणे च द्वयं तत्त्वेन वर्ण्यते।। ४ ।।
उपायवरणं पूर्ववाक्येन प्रतिपाद्यते।
उत्तरेण फलेच्छाद्यवियुक्तात्मसमर्पणम्।। ५ ।।
पूर्वत्र वाक्ये प्रथमं समस्तत्रिपदं पदम्।
तत्र श्रीमत्पदं त्वाद्यं प्रकृतिप्रत्ययात्मकम्।।६।।
श्रीरिति प्रथमं नाम लक्ष्म्यास्तन्निर्वचक्रमै:।
तत्स्वभावविशेषाणां यथार्थ्यमवगम्यते।। ७ ।।
श्रयन्ती वैष्णवं भावं श्रीयमाणाखिलैर्जनेः।
शृण्वती तदपेक्षोक्तीः श्रावयन्ती च ताः परम्।। ८ ।।
शृणाति निखिलान् दोषान् शृणाति च गुणैर्जगत्।
इत्यादिभिर्निरुता या सा श्रीरिति निगद्यते॥९॥
तस्याः पुरुषकारत्वादीश्वराश्रयणे नृणाम्।
एते स्वभावा विज्ञेया घटकत्वोपयोगिन:।। १० ।।
‘अस्येशाना जगतो विष्णुपत्नीति च श्रुता।
लक्ष्मीरुभयसंबन्धाद् घटकत्वोचिता मता।। ११ ।।
वात्सल्यगुणतः श्रुत्वा स्वार्थ्यपेक्षावचःक्रमम्।
स्वप्रेयसे च विज्ञाप्य वाल्लभ्याद्घटयत्यसो।। १२ ।।
शरण्याश्रयणी पुंसां संशयादिव्युदस्य च।
विज्ञानव्यवसायादि करोति कमलालया।।१३।।
एवं कार्यकरत्वेन बहुव्युत्पत्तिभेदतः।।
लक्ष्म्या: पुरुषकारत्वं श्रीशब्देनोपपादितम्।। १४ ।।
मतुपा प्रत्ययेनास्या नित्यसंयोग उच्यते।
स्वप्रेयसा शरण्येन शरणार्थ्युपकारकः ।। १५ ।।
अनेन क्षणभंगिन्या रुचेरौत्पत्तिकक्षणे।
शरण्याश्रयणौचित्यं तत्सान्निध्येन दर्शितम्।। १६ ।।
उदधेरिव च स्थैर्यं महत्तेव विहायसः।
प्रभेव दिवशेशस्य ज्योत्स्नेव हिमदीधिते: ।। १७ ।।
स्वासाधारणरूपेण स्वरूपादिसमन्वयात् ।
सर्वातिशयिताकारा विष्णोः श्रीरनपायिनी।। १८
एवं श्रीमत्पदेनैव घटकत्वानुरूपया।
श्रिया सदैव संयुक्तः शरण्य इति गम्यते।। १९ ।।
भवेत् पुरुषकारस्तु शरण्यावर्जनाय चेत्।
न बिभेच्छरणागत्या तद्वशीकरणश्रिया।। २० ।।
शरणागतिसामर्थ्याच्छरण्यगुणवैभवात्।
फलस्याव्यभिचारस्तु लोके वेदे च दृश्यते।। २१ ।।
एवं विज्ञानतत्त्वानां शेषिसंश्रयणे नृणाम्।
कथं स्यादघटकापेक्षा पृथक्सिद्धेरभावतः।। २२ ।।
इत्याशंका न कर्तव्या स्वातन्त्र्यादेव शेषिणा।
अस्यैव घटकापेक्षा स्वापराधभयान्नृणाम्।। २३ ।।
अपि तत्त्वविदो पुंसामस्त्येव घटकार्थिता।
अनादावेव सम्बन्धेऽप्यपराधे क्षणाद्विभोः।। २४ ।।
पितेव भगवान् पुंसां नित्यं हितपरत्वतः।
अकृत्यकरणादौ हि कलुषो दण्डमावहेत्।। २५ ।।
उन्मदिष्णुं सुहत्वेन निगळाद्ये यथा पिता।
दण्डयेदेव मे वेगो नरकाद्यैरमार्गिकम्।। २६ ।।
एषा मातेव वात्सल्यं जनयित्री प्रियाशये।
विस्मार्य दोषानखिलान् लक्ष्मीस्वजनयत्यमून्।। २७ ।।
तस्मादात्मविदां पुंसां शरण्याश्रयणार्थिनाम्।
लक्ष्मीः पुरुषकारत्वे निर्दिष्टा परमर्षिभिः।। २८ ।।
एतद्व्यपेक्षसम्बन्धादन्येषाममलात्मनाम्।
देवीसूरिगुरूणाञ्च घटकत्वं न तु स्वतः ।। २९ ।।
स्वसम्बन्धस्तु शेषत्वमेषां श्रीमति शेषिणि।
यतस्सर्वस्य सर्वेशे तच्छ्रीद्वारा समन्वयः।। ३० ।।
अनयोर्मिलितं देवे गुणजातं निबोधयत्।
व्यक्त्याश्रयणीयत्वान्नारायणपदं ततः।। ३१ ।।
तत्र सूपसदत्वार्थाः कार्यार्थाश्च द्विधा गुणाः।
वात्सल्यप्रमुखाः पूर्वे ज्ञानशक्त्यादयोऽपरे।। ३२ ।।
वात्सल्यं स्वामिभावञ्च सौशील्यं सुलभत्वता।
ज्ञानं शक्तिश्च पूर्तिश्च प्राप्तिश्चेति गुणा मताः।। ३३ ।।
वात्सल्यं दोषभोग्यत्वं स्वाम्यं स्वेष्वभिमानिता।
सौशील्यं मन्दसंश्लेषः सौलभ्यं नित्यसन्निधिः।। ३४ ।।
निजापराधबन्धुत्वं नैच्यदूरस्थताभयम्।।
अपास्यतेऽर्थानामेतैश्शरण्यस्य गुणैः क्रमात्।। ३५ ।।
ज्ञानादभीष्टदर्शित्वं शक्या तद्घटनक्रिया।
पूर्त्या स्वाधीनविश्वत्वं प्राप्त्या शेषित्वमुच्यते।। ३६ ।।
स्वाज्ञानाशक्यपूर्वत्वप्राप्तिहानिनिबन्धना।
अर्थिनः कार्यवैघट्याशङ्कामीभिर्निवार्यते।। ३७ ।।
अपि स्वकर्मफलदं ज्ञानादिकचतुष्टयम्।
अस्यार्थितार्थकरणे दयासाहित्यमिष्यते।। ३८ ।।
सर्वकार्योपयोगिन्यप्यसावथ दया हरेः।
प्राधान्येन शरण्यस्य विज्ञेया शरणार्थिनाम्।। ३९ ।।
अत्र माता पिता भ्राता निवासः शरणं सुहृत्।
गतिर्नारायणः श्रुत्यैवेत्येते दर्शिता गुणाः।। ४० ।।
क्रमेणात्रोच्यते पूर्वं वात्सल्यादिचतुष्टयम्।
ज्ञानादिगुणजातञ्च सुहद्भावेन सूच्यते।। ४१ ।।
मातृत्वादिह वात्सल्यं पितृत्वात् स्वामितोच्यते।
भ्रातृत्वेन च सौशील्यं सौलभ्यं च निवासतः।। ४२ ।।
शरणत्वादुपायत्वं सुहृत्वाच्छुभकारिता।
गतित्वात् प्राप्यता चेति नारायणपदश्रुतिः।। ४३ ।।
अस्मिन् पदे शरण्यस्य कारणत्वञ्च कथ्यते।
कारणस्य शरण्यत्वं श्वेताश्वतरदर्शितम्।। ४४ ।।
उपास्यवच्छरण्येऽपि कारणत्वं विशेषतः।
अभीष्टार्थनिदानत्वादनुसन्धेयमर्थिनाम्।। ४५ ।।
स्वरूपादिसमस्तार्थं परेऽप्येते तु साम्प्रतम्।
नारायणपदे ग्राह्याः शरण्यत्वोचिता गुणाः।। ४६ ।।
एवं गुणविशिष्टत्वात् सौलभ्यातिशयादपि ।
अर्चावतारस्सर्वेषां सुशकाश्रयणं स्फुटम्।। ४७ ।।
न परव्यूहविभवस्वान्तर्यामितया स्थितेः।
देशकालाक्षिदूरत्वात् शक्याश्रयणता नृणाम्।। ४८ ।।
अथ वोपायवरणविश्वासप्रतिबन्धकम्।
हन्यते चित्तदोर्बल्यं श्रीमन्नारायणेत्यतः।। ४९ ।।
विरोध्युपायोपेयानां भूयस्त्वाल्पत्वगौरवै:।
जातं विश्वासशैथिल्यं निरस्तव्यं तु नित्यशः।। ५० ।।
अधिगम्यत्वसम्बन्धज्ञानशक्यादिसूचनात्।
व्युदस्यतेऽत्र शैथिल्यं श्रीमदादिपदद्वयात्।। ५१ ।।
नाराश्चेतनसंघातास्तेषामयनमित्यतः।
कारणत्वादुपायत्वं शरण्यस्यात्र गम्यते।। ५२ ।।
एवं नारायणपदे शरण्यत्वोपयोगिनः।
गुणाः सूपसादत्वार्थाः कार्यार्थाश्च निरूपिताः॥ ५३॥
एते पुरुषकारेण समुद्भाव्या गुणा यदि।
तद्युक्तोपायसाध्यत्वसापेक्षत्वं तदा भवेत्॥ ५४॥
उद्भावकत्वं सर्वत्र हेतृत्वमवगम्यते।
सत्कार्यवादानुमतेस्तथा श्रुत्यादिदर्शनात्।। ५५ ।।
स्वाविर्भावात्मको मोक्षो हेतुसाध्य: स्फुटो मतः।
अतो हेतुव्यपेक्षस्य सिद्धत्वादि न सिध्यति।। ५६ ।।
न केवलं हि वात्सल्यं प्रमुखस्यैव दृश्यते।
ज्ञानादेरप्यभीष्टार्थकारित्वे हेत्वपेक्षया।। ५७ ।।
दयासाहित्यमात्रेण नैरपेक्ष्यं च मा स्म भूत्।
तस्याः पुरुषकारेण समुद्भाव्यत्वसिद्धितः।। ५८ ।।
अन्यथा वत्सलत्वादेरुदयोऽपि न संभवेत्।
अतः पुरुषकारोऽत्र दयोद्भावक इष्यते।। ५९ ।।
तदपेक्षतया साध्यस्योन्मुख्यमपि जृम्भते।
उपाये तु न सिध्दत्वनिरपेक्षत्वसंभवः।। ६० ।।
इत्येतदसमीचीनं चोद्यमित्यवगम्यताम्।
अज्ञातोपायतत्त्वानां स्वबुद्ध्या कल्पितत्वतः।। ६१ ।।
उपायोपेयभावश्च वस्तुसत्तासमन्वितः।
हेयप्रतिभटत्वाच्च कल्याणात्मतोऽपि च ।। ६२ ।।
एवं परस्योपायत्वे स्वनिरूपकया श्रिया।
संभावितगुणोन्मेषात् सापेक्षत्वं न संभवेत्।। ६३ ।।
श्रियः स्वात्मैकशेषत्वात् स देवो रत्नदीपवत्।
तदायत्तार्थितायामप्यनन्याधीनवैभवः।। ६४ ।।
इत्याचार्योपदिष्टत्वाच्छास्त्रतात्पर्यतोऽपि वा।
परस्य श्रीनिवासत्वमपराधीनतावहम्।। ६५ ।।
एवं गुणविशिष्टस्य शरण्यस्य शुभाश्रयः।
चरणावित्यनेनैव विग्रहञ्चोपलक्ष्यते।। ६६ ।।
विग्रहस्य ह्युपायत्वं स्वरूपात्तद्गुणादपि।
सूच्यतेऽनेन तद्रूपं चिन्तयत्याश्च मुक्तिताः।। ६७ ।।
अथवा शेषभूतस्य शरण्याश्रयणार्थिनः।
स्वत्योचितं संश्रुतव्यमेव तच्चरणद्वयम्।।६८।।
लोके च पादपतनं पाण्यादिग्रहणादपि।
दयाहेतुतया दृष्टमित्युक्तं चरणाविति।। ६९ ।।
उक्तस्य गुणरूपादेरुपायेऽपि समन्वयान्।
ततश्शरणशब्दोऽयमुपायार्थत्ववाचकः।। ७० ।।
‘उपाये गृहरक्षित्रोश्शब्दश्शरणमित्ययम्।
वर्तते सांप्रतं चेष उपायार्थैकवाचकः।। ७१ ।।
तस्माच्छरणशब्देन गुणरूपादिसंयुतः।
नारायण: स्वयं सिद्धेरुपाय इति दृश्यते।। ७२ ।।
लक्ष्म्या विशेषणत्वेन शाब्देन च गुणादिवत्।
तद्वैशिष्ट्यमुपायस्य युक्तमित्यवगम्यते।। ७३ ।।
तथा च वस्तुसामर्थ्याच्छ्रुतिस्मृत्यादिदर्शनात् ।
राक्षसीरक्षणाच्चापि दृष्टा ह्यस्या उपायता।। ७४ ।।
वाचा परं प्रार्थयिता प्रपद्ये नियतश्रियम्।
‘तां पद्मनेमीं शरणं प्रपद्य इति च श्रुतेः।। ७५ ।।
‘सर्वकामप्रदां रम्यां संसारार्णवतारिणीम्।
क्षिप्रप्रसादिनीं लक्ष्मीं शरण्यामुनचिन्तयेत्।। ७६ ।।
अनेनैवं प्रपन्नस्य श्रियं देवीं सनातनीम्।
पापानुषङ्गस्सकलस्तत्क्षणादेव नश्यति।। ७७ ।।
इति स्वायम्भुवोक्तिश्च देव्या श्रिय उपायताम्।
‘सर्वेषु पुरुषार्थेषु विदधाति विशेषतः।। ७८ ।।
उपायं वृणु लक्ष्मीशं तमुपायं विचिन्तय ।
इत्यत्रिवचनेनापि वैशिष्ट्यं हि विधीयते।। ७९ ।।
‘अहं मत्प्राप्त्युपायो वै साक्षाल्लक्ष्मीपतिः स्वयम्।
इति स्वेनैव चोक्तत्वात् विशिष्टोपायता स्थिता।। ८० ।।
यच्च स्वरक्षणाशक्तिः काकवृत्तान्तलक्षिता।
यच्च रावणरुद्धाया: स्वविरोध्यनिवर्तनम्।। ८१ ।।
यच्चापि गुणवन्नास्या रक्षकत्वेन निश्चयः।
तत्सर्वं स्वात्मपारार्थ्यस्वरूपानुविधानजम्।। ८२ ।।
अन्यथानन्यथासिध्दवच:क्षोभो महान् भवेत्।
तस्माच्छ्रिय:पतेरेव साधनत्वं व्यवस्थितम्।। ८३ ।।
इत्थं लक्ष्मीविशिष्टस्य यद्यपि स्यादुपायता।
तथाप्यत्र विवेक्तव्यो विशेषः कश्चिदिष्यते।। ८४ ।।
उपायकार्यकर्तृत्वप्राधान्यं भगवद्गतम्।
देव्यास्तत्रानुमोदेन विद्यतेऽनुविधायिता।। ८५ ।।
अस्या नियतपारार्थ्यात् सर्वत्रैवं व्यवस्थितम्।
कारणत्वनियन्तृत्वभोगमोक्षविधौ हरेः।। ८६ ।।
‘लक्ष्म्या सह हृषीकेशो देव्या कारुण्यरूपया ।
रक्षकः सर्वसिद्धान्ते वेदान्तेऽपि च गीयते’ ।। ८७ ।।
इति कारुण्यरूपत्वमस्याः शास्त्रसमीरितम् ।
स्वसंश्लेषेण देवेऽपि करुणातिशयावहा ।। ८८ ।।
एवन्तु करुणामूर्तिश्शरण्यस्यानुयायिनी ।
ततः कारुणिकत्वेन रक्षत्यखिलमीश्वरः ।। ८९ ।।
सर्वत्र कर्तृव्यापारप्राधान्यं परमात्मनः ।
इयं तत्कार्यसंसिद्धिप्रीत्या तदनुमोदते ।। ९० ।।
तस्मादस्याविशिष्टत्वेऽप्युपायस्यावगम्यते ।
विशेष्यांशप्रधानत्वमनुगत्वविशेषणे ।। ९१ ।।
एवंविधस्योपायस्य प्रपद्य इति शब्दतः ।
अर्थानुष्ठानकालेऽर्थं भरणं प्रतिपाद्यते ।। ९२ ।।
पदलीगतिवायित्वादुपायवरणात्मिका ।
मनोवाक्कायनिष्पाद्या त्रिविधा गतिरिष्यते ।। ९३ ।।
मानसी तत्र विश्वासपूर्वकप्रार्थना मतिः ।
वाचिकी याचनोक्तिः स्यात् प्रणामादिस्तु याचिका ।। ९४ ।।
गतिस्तृतीयमेतत्तु यत्र संभूय वर्तते ।
तत्र पूर्णप्रपत्तिः स्यात् साजात्येष्वेव संभवेत् ।। ९५ ।।
एतदन्यतमा दृप्तेष्वत्र मुख्या तु मानसी ।
अमनस्का तदपरा वाचिकी कायिकी मता ।। ९६ ।।
आर्तेष्वियं प्रपत्तिस्तु नित्यमाहुः फलप्रदा ।
दृप्तेषु स्वाभिसन्धानसमानफलदा मता ।। ९७ ।।
आर्तोऽनिष्टस्य निश्शेषशीघ्रापनयनेच्छया ।
इष्टप्राप्त्यविळम्बार्थो दृप्तस्तदितरो मतः ।। ९८ ।।
आर्तः पूर्णाधिकारी स्याद् दृप्तस्तद्विकलोऽप्यथ ।
सर्वात्मना शरण्येन रक्ष्यो हि शरणागतः ।। ९९ ।।
अग्निविद्याङ्गवैधुर्याद्विशेषाश्रमिणामपि ।
सत्यादिवदियं व्याप्ता सर्वत्र शरणागतिः।। १०० ।।
सैषा स्वे शेषिचरणशरणप्रार्थनात्मिका ।
स्वतःसिद्धस्वपारार्थ्यस्वभावनियतोचिता ।। १०१ ।।
तत्प्रकर्षात् प्रशब्देन महाविश्वास ईरितः ।
प्रपत्तेर्वर्तमानत्वमत्रानुष्ठानकालजम् ।। १०२ ।।
उच्यते ‘देवसदनं बर्हिर्दामी’ति वाक्यवत् ।
अत्रानुवृत्त्या वृत्तत्वे वक्तव्ये शरणागतेः ।। १०३ ।।
सत्त्वात्प्रवृत्तिश्शास्त्रस्य शैथिल्यञ्च प्रसज्यते ।
अथ वात्र पदे त्वाद्ये समस्ते व्यस्ततां गते ।। १०४ ।।
श्रीमन् नारायणेति स्यात् सम्बुध्यन्तं पदद्वयम् ।
शरण्यस्य तु सम्बुध्दिराभिमुख्यकरी मता ।। १०५ ।।
ततः प्रत्यक्षसौलभ्यं परोक्षत्वाच्च युज्यते ।
तदानीं तवशब्दस्य तत्राध्याहार इष्यते ।। १०६ ।।
चरणावित्यतः पूर्वं शास्त्रेष्वेवं च दृश्यते ।
श्रीमन्नारायण स्वामिन् अनन्यशरणस्तव ।। १०७ ।।
चरणौ शरणं यात इत्याद्यैर्वचनैः स्फुटम् ।
समस्तत्वं च शास्त्रोक्तं षट्पदत्वोपदेशतः ।। १०८ ।।
उभयं भाष्यकारेण गद्यद्वयसमीरितम् ।
तस्मात् पूर्वेण वाक्येन श्रीमन्नारायणस्य तु ।। १०९ ।।
चरणौ शरणत्वेन वृणुते मतिमान्नरः ।
अथोत्तरेणोपायस्य फलप्रार्थनयान्वितः ।। ११० ।।
तत्र स्वाम्यवियोगेन स्वात्मन्यास इतीर्यते ।
असावैश्वर्यकैवल्यभगवत्प्राप्तिदायिनी ।। १११ ।।
आर्ताद्यधिकृतेर्भेदान् प्रपत्तिर्भक्तिवन्मता ।
प्रपत्त्याकारनिक्षेपपरेऽर्थेऽप्यस्य लक्षिते ।। ११२ ।।
वाक्यस्य शब्दतात्पर्यं नित्यदास्यैकबोधने ।
तत्र श्रीमत्पदं त्वाद्यं नारायणविशेषणात् ।। ११३ ।।
कैङ्कर्यप्रतिसम्बन्धिपूर्णत्वमवगम्यते ।
व्युत्पन्नः कर्तृकर्मार्थे श्रीशब्दः प्राह पूर्ववत् ।। ११४ ।।
श्रियः परैकाश्रयणं निखिलाश्रयणीयता ।
यतः स्वसंश्लेषोत्कर्षात् परस्यातिशयावहा ।। ११५ ।।
स्वयं चातिशयाकारा ततः श्रीरित्युदीर्यते ।
यथा परिमळाघ्रातुः पुष्पं श्लाध्यतरं मतम् ।। ११६ ।।
यथा स्वया च दीप्त्यैव रत्नं याति महार्घताम् ।
तथा नित्यानपयिन्या स्वतो माङ्गल्यरूपया ।। ११७ ।।
श्रिया भवति विश्वेशे मङ्गळानां च मङ्गळम् ।
अतः परस्य प्राप्यत्वं पूरयन्ती स्वसङ्गमात् ।। ११८ ।।
प्राप्यभूता च सर्वेषां श्रुतेति श्रीर्निरुच्यते ।
‘श्रद्धया देवो देवत्वमश्नुते’ स्वश्रिया तु सः ।। ११९ ।।
‘श्रद्धा प्रतिष्ठा लोकस्य देवी’ त्यत्र श्रुतिक्रमः ।
नित्यं श्रद्धेयरूपत्वात् श्रद्धेति श्रीः प्रकीर्तिता ।। १२० ।।
श्रद्धा मे येति सूक्तेषु तत्तन्नाम्ना च संश्रिता ।
ईशस्य श्रीसमाश्लोषो महार्थातिशयावहः ।। १२१ ।।
अस्या भगवदायत्ता सत्तेत्युक्ता परार्थता ।
इत्थं परार्थभावेन श्रीस्सा भगवदाश्रया ।। १२२ ।।
नित्यं तदीप्साविषयः श्रीः श्रीपरमः पुमान् ।
अनया नित्यसंयोग: परस्य मतुपोदितः ।। १२३ ।।
ततः सर्वातिशायित्वपूर्तिः प्राप्तिश्च गम्यते ।
एतेन देशकालादिष्वितरापेक्षवैभवात् ।। १२४ ।।
पुरुषार्थान्तरादस्य मिथुनप्राप्यभावतः ।
तस्मान्मिथुनशेषस्य मिथुनप्राप्यभावतः ।। १२५ ।।
स्वस्वरूपानुरूपत्वं पुरुषार्थस्य लभ्यते ।
एतदन्यतरस्यात्र विरहोऽनर्थ इष्यते ।। १२६ ।।
मुख्याङ्गहानिनाशश्च शूर्पणख्याञ्च रावणे ।
प्राप्यस्य परमस्यास्य नारायणपदात्ततः ।। १२७ ।।
स्वरूपरूपस्वगुणविभूत्यानन्त्यमुच्यते ।
तत्र नारपदेनोक्तं गुणरूपविभूतिषु ।। १२८ ।।
नित्यैकरूपासंख्येयनिस्सीमत्वादिवैभवम् ।
येषामाश्रयभूतस्य कोट्यर्बुदलवांशतः ।। १२९ ।।
स्वरूपस्य च माहात्म्यमुक्तं त्वयनशब्दतः ।
एवं नारायणस्यास्य श्रीमत्त्वपरिबृंहितम् ।। १३० ।।
स्वरूपादिसमस्तार्थवैलक्षण्यं प्रतीयते ।
शान्तानन्तचिदानन्दस्वरूपं परमात्मनः ।। १३१ ।।
स्वानुरूपस्वरूपश्रीश्रयणानन्दभाजनम् ।
अत्यद्भुतोज्ज्वलाकारदिव्यं नयननन्दनम् ।। १३२ ।।
रूपं च तादृशाकारश्रीसंश्रितभुजान्तरम् ।
ज्ञानादयश्च शीलाद्याः कान्त्याद्या निखिला गुणाः ।। १३३ ।।
दर्पणस्थायिनोऽन्योऽन्यं भोग्या श्रीश्रीशयोस्स्फुटम् ।
नित्यां विभूतिं परमां नित्यालोकोपबृंहितम्।। १३४ ।।
निवेदयन्ती नाथाय देवी तत्रात्र सेवते ।
व्यूहेषु चावतारेषु सदा तस्यानपायिनी ।। १३५ ।।
रूपाद्यैरनुरूपैः स्वैः संश्लिष्याह्लादकारिणी ।
जगत्सृष्ट्यादिलीलासु देवं श्रीर्मोदयत्यसौ ।। १३६ ।।
अपाङ्गैरनुमोदाद्यैर्जगत्स्फुरणकारिणी ।
एवं नारायणस्य श्रीः सर्वभावानुगामिनी ।। १३७ ।।
सर्वप्रकारभोग्यत्वं शेषित्वं पूरयत्यसौ ।
तस्मान्नारायणपदे श्रीमत्पदविशेषिते ।। १३८ ।।
सर्वाधिकस्स सम्पूर्णो भोग्यः शेषीति बोध्यते ।
एवं सत्यनुरूपत्वं तद्दास्यस्यावगम्यते ।। १३९ ।।
सेवा निषिद्धा ह्यन्यत्र विहिता भगवत्यसौ ।
तत्पूर्णानुभवोद्भूतप्रहर्षोत्कर्षकारितम् ।। १४० ।।
फलं स्वमात्मनो दास्यं चतुर्थ्या प्रार्थ्यते ततः ।
स्वरूपस्थितिवृत्तीनां तादर्थ्यं निखिलस्य च ।। १४१ ।।
शरीरात्मत्वसम्बन्धान्नारायणपदोदितम् ।
तस्मात्तादर्थ्यवाचिन्या चतुर्थ्यात्र प्रदर्श्यते ।। १४२ ।।
वृत्तिपर्यन्ततादार्थ्यरूपकैङ्कर्यमात्मनः ।
सदा सर्वत्र सकलास्ववस्थास्वप्यशेषतः ।। १४३ ।।
सिद्धिः कैङ्कर्यरूपस्य भोगस्यात्रावगम्यते ।
अस्मिन्नारायणपदे प्रोक्ता सर्वस्य नित्यता।। १४४ ।।
भोक्तभोग्यपरत्वेन भोगनित्यत्वबोधिनी ।
आविर्भूतस्वरूपाणामसङ्कोचादिहात्मनाम् ।। १४५ ।।
अखिलापाश्रयब्रह्मभोगस्सार्वत्रिको मतः ।
शरीरात्मत्वसंबन्धादपृथक्सिद्धलक्षणात् ।। १४६ ।।
भोक्तभोग्यगतो भोगस्सर्वावस्थास्ववस्थितः ।
तत्सम्बन्धप्रयुक्तस्य शेषत्वस्यात्मनामिह ।। १४७ ।।
सर्वप्रकारतस्सिद्धेर्भोगस्सर्वविधान्वितः ।
एतेन नित्यभोगेन यावदात्मानुवर्तिना ।। १४८ ।।
कर्मसाध्यास्थिरैश्वर्यभोगो व्यावर्त्यते स्पुटम् ।
भोगेन सर्वलोकेष्वप्यसङ्कोचवतात्मनः ।। १४९ ।।
स्वरूपाणुत्वतस्स्वल्पकैवल्यमपवारितम् ।
जगद्व्यापारसंमिश्रदुःखासहतान्वितान् ।। १५० ।।
परानन्दादयं भोगस्सर्वावस्थाविलक्षणः ।
पराश्लेषैकसंपन्नलक्ष्मीभोगादिहात्मनः ।। १५१ ।।
अखिलाकारसंयुक्तो भोगोऽत्यर्थं विशिष्यते।
एवं विशिष्टकैङ्कर्यभोगो यन्नित्यमात्मनः।। १५२ ।।
तादर्थ्यप्रत्ययेनात्र स्वरूपमिति बोधितः।
आत्मान्तरात्मदेहात्मभावसिद्धापृथक्स्थितेः।। १५३ ।।।
स्वात्मभोगात्मको भोगस्त्वविभागेन दृश्यते।
अयमेवाविभागो हि तादर्थ्यमवगम्यते ।। १५४ ।।
अत एवात्मनः सिद्धा फले स्वाम्यवियुक्तता ।
तस्मात् तादर्थ्यसंवित्तिरूपं श्रीशसमर्पणम् ।। १५५ ।।
फलेप्सासममत्रैव प्रतिपादितमात्मनः ।
अथात्मनो नमश्शब्दात् फले स्वाम्यनिबन्धनम् ।। १५६ ।।
भोक्ताहं मम भोगोऽयमिति द्वन्द्वं निवर्त्यते ।
निरस्यतेऽत्र ममता स्वातन्त्र्यस्वत्वधीमया ।। १५७ ।।
अहङ्कारममत्वात्मस्वत्मात्मीयसमन्वयात् ।
अथ वात्र चतुर्था तु नमःस्वस्त्यादिना मता ।। १५८ ।।
ततः श्रीश्रीशयोस्सिद्धा शेषत्वप्रतियोगिता ।
अयमत्र नमश्शब्दश्शेषत्वप्रतिपादकः ।। १५९ ।।
प्रह्वीभावाभिधायित्वात्तदेव फलमिष्यते ।
शाश्वती मम संसिद्धिरियं प्रह्वीभवामि यत् ।। १६० ।।
इति तस्य फलत्वेन शास्त्रेषु समुदीरणात् ।
अस्मिन्नेव द्वये सम्यक्छरणागतिसञ्ज्ञिके ।। १६१ ।।
लक्ष्यते तद्विधा षट्कमानुकूल्यादिकं क्रमात् ।
उपायविनिवृत्त्यर्थमानुकूल्यादिपञ्चकम् ।। १६२ ।।
अपराधभयान्निघ्नं श्रीमत्पदनिबोधितम् ।
विश्वासस्तु शरण्यस्य गुणवत्ता निबन्धनः ।। १६३ ।।
तद्गुणोद्देशनिर्देशनारायणपदादितः ।
गोप्तृत्ववरणं प्रोक्तं पूर्ववाक्यादशेषतः ।। १६४ ।।
उत्तरत्रात्मनिक्षेपं चतुर्थ्यन्तपदद्वयात् ।
कार्पण्यमुक्तं नमसा स्वातन्त्र्यस्य निवर्तनात् ।। १६५ ।।
अतष्षडङ्गसम्पन्ना प्रपत्तिर्द्वयदर्शिता ।
तस्मादेतद्द्वयं मन्त्ररत्नं वेदान्तसम्मितम्।। १६६ ।।
पूर्वाचार्यरुचिग्राह्यं पूर्णैव शरणागतिः ।
सौम्यजामातृमुनिना गुरुस्नेहदशान्वयात् ।
विहितो मन्त्ररत्नार्थतत्त्वदीपस्य संग्रहः ।।
इति तत्त्वदीपसंग्रहकारिकायां द्वयमन्त्रप्रकरणं समाप्तम्।
अथ चरमश्लोकप्रकरणम् ।
अथ प्रपत्तिरूपस्य हितस्य विधित: स्वयम् ।
शरण्याभिमतत्वात्मश्लोकवर्यार्थ उच्यते ।। १ ।।
शरण्याभिमतत्वं हि भजनाच्छरणागतेः ।
सर्वपापविमोकोक्त्या स्वयं संलक्ष्यतेतराम् ।। २ ।।
इदानीं शब्दसिद्धोऽर्थः श्लोकस्यास्य निरूप्यते ।
तत्र संप्रतिपन्नं हि विधानं शरणागतेः ।। ३ ।।
किं प्रपत्तिविधिस्तत्र भजनाङ्गतयोदितः ।
उत स्वतन्त्रोपायत्वतात्पर्येणेति चिन्त्यते ।। ४ ।।
यद्यप्यत्रास्य भक्त्यङ्गभावः प्रकरणोदितः ।
तथाप्यनन्यसाध्यत्वसाधनत्वमिह स्थितम् ।। ५ ।।
अनन्यसाध्ये स्वाभीष्टे महाविश्वासपूर्वकम् ।
तदेकोपायता याञ्चामतिर्हि शरणागतिः ।। ६ ।।
अत्राप्यसावनेकत्र प्रपत्तिः प्रतिपादिता ।
तत्राभीष्टार्थसंसिद्धिसाधकत्वेन सम्मता ।। ७ ।।
तस्मात् प्रपत्तेः सर्वत्र स्वत एव स्वतन्त्रता ।
भजनाद्यङ्गता तस्यास्तदपेक्षितसाधनात् ।। ८ ।।
एवं स्वतन्त्ररूपायाः प्रपत्तेरङ्गभावतः ।
सर्वधर्मपरित्यागः श्लोकेऽस्मिन् प्रतिपाद्यते ।। ९ ।।
अतस्स्वविधिभिस्त्यागविधिर्नात्र विरुध्यते ।
न ह्यन्यविधिनान्यार्थतस्त्यागस्य विरोधिता ।। १० ।।
उभयत्राधिकारस्य भेद एव व्यवस्थितः ।
विधौ फलार्थत्यागे तु शरण्यार्थ्यधिका भवेत् ।। ११ ।।
इत्थं सर्वत्र धर्मेषु वर्णाश्रमयुतेष्वपि ।
यथाधिकार एवोक्तस्वीकारत्यागसंभवः ।। १२ ।।
तस्मादनेन श्लोकेन चरमेण विधीयते ।
सर्वधर्मपरित्यागपूर्वका शरणागतिः ।। १३ ।।
धर्मशब्दोऽत्र शास्त्रोक्तकर्तव्यार्थप्रकाशकः ।
चोदनालक्षणार्थस्य धर्मत्वप्रतिपादनात् ।। १४ ।।
प्रत्ययोक्तबहुत्वेन तद्द्वैविध्यं प्रकाश्यते ।
कर्म ज्ञानं च भक्तिश्चेत्युक्तधर्माभिधास्त्रिधा ।। १५ ।।
एते त्रय उपायास्तु परस्परसमन्विताः ।
प्रत्येकं पुरुषार्थस्य बाधकत्वेन सम्मताः ।। १६ ।।
ज्ञानभक्त्यन्वितं कर्म जनकादिषु दृश्यते ।
कर्मभक्त्यन्वितं ज्ञानं प्रायेण भरतादिषु ।। १७ ।।
कर्मज्ञानान्वितां भक्तिं प्रह्लादप्रमुखाश्रया ।
तत्तत्साधनकर्तृणां भेदात् त्रित्वमिहोच्यते ।। १८ ।।
अत एव हि शास्त्रेषु त्रित्वमेषां प्रदृश्यते।
तथा प्रपदनस्यात्र चतुर्थोपायतापि च।। १९ ।।
उपायास्ते त्रयः पूर्वे कथिताश्चावधारिताः ।
व्याचक्षध्वं चतुर्थं तमुपायं परमित्यतः ।। २० ।।
तथा चावान्तरो भेदः कर्मादीनाञ्च लक्ष्यते ।
प्रत्येकं निरपेक्षत्वात् पुरुषार्थस्य साधने ।। २१ ।।
नित्यं नैमित्तिकं काम्यं प्रकृतिर्विकृतिस्तथा ।
सत्रं याग इति प्रोक्ता विविधा कर्मणोऽभिधा ।। २२ ।।
विद्याविकल्पबाहुल्यात् ज्ञानयोगश्च भिद्यते ।
ध्यानार्चनप्रणामाद्यैर्भक्तियोगोऽपि तद्द्विधा ।। २३ ।।।
अवताररहस्यञ्च पुरुषोत्तमवेदनम् ।
नामसङ्कीर्तनाद्यत्र त्रैराश्यं तद्गतं मतम् ।। २४ ।।
तस्माद्बहुत्वं धर्मस्य प्रत्ययोक्तं विवक्षितम् ।
वक्ष्यमाणपरित्यागकर्मत्वं च द्वितीयया ।। २५ ।।
सर्वशब्दोऽत्र धर्माणां विशेषणतया स्थितः ।
त्यागकर्मत्वयुक्तानां निश्शेषत्वं तदत्यसौ ।। २६ ।।
अतो निरवशेषेण त्याज्या धर्मा मनीषिणाम् ।
नित्यं शरणजुष्टानामित्येतदवगम्यते।। २७ ।।
एष त्यागप्रकारोऽथ परित्यज्येत्युदीर्यते ।
स्वार्थसाधकताबुद्धित्यागस्त्विह विवक्षितः ।। २८ ।।
प्रत्ययादेशरूपेण ल्यपा त्यागस्य गम्यते ।
विधास्यमानस्वीकारस्याङ्गत्वेन विधीयते ।। २९ ।।
ननु त्यागस्य वैधत्वं न स्यात् स्वेनैव सिद्धितः ।
विकलेन्यतरालम्बादन्यत्यागोऽर्थतो भवेत् ।। ३० ।।
त्यागस्वीकारवैशिष्ट्यं विधेयमिति चेन्मतम् ।
तत्रापि न विधेयत्वं त्यागस्य स्वेन सिद्धितः ।। ३१ ।।
शरणागतिमन्त्रस्य विधेयत्वे तथा भवेत् ।
तदङ्गत्वेन धर्माणां त्यागोऽप्यत्र विधित्सतः ।। ३२ ।।
अत एव हि शास्त्रेष्वपरापायसंगमे ।
प्रायश्चित्तसमानत्वं प्रपत्तेः प्रतिपादितम् ।। ३३ ।।
तस्मात् कर्माद्युपायानां परित्याग इहोदितः ।
मानान्तरैरनारूढो विरोधपदवीं गतः ।। ३४ ।।
एतेनैव हि धर्मन्तु विहितांशे प्रतिष्ठितः ।
निषिद्धांशपरित्यागस्त्वपायस्सागदर्शितः ।। ३५ ।।
एवं समस्तधर्माणां त्याज्यत्वेऽपि निरूपिते ।
नियतस्य परित्यागो न कदाचित् प्रसज्यते ।। ३६ ।।
त्रैराश्यं कर्मणामुक्त्वा निषेधविधिभागिनाम् ।
तत्त्यागस्य प्रकारश्च शास्त्रेणात्र विविच्यते ।। ३७ ।।
हिंसास्तेयादिको राशिरपायोऽनर्थकारकः ।
कर्म सांख्यादिको राशिरुपायो ह्यर्थसाधकः ।। ३८ ।।
पूर्वो निष्टावहत्वेन संत्याज्यश्शरणार्थिनः ।
उपायवरणाङ्गत्वात् परित्याज्यस्तयोत्तरः ।। ३९ ।।।
अनर्थपरिहारार्थे राशावपि तृतीयके ।
पूर्वाज्ञाताघभाव्यंशप्रायश्चित्तात्मकास्तथा ।। ४० ।।
सर्वपापहरोपायनिष्ठस्यास्य मनीषिणः ।
साधनान्तरवन्नित्यं संत्यज्यत्वं व्रजेदिह ।। ४१ ।।
योऽशस्त्वकरणे स्वस्य प्रत्यवायवहो मतः ।
आगम्यनर्थरोधित्वात् सोऽनुष्ठेयो विधीयते ।। ४२ ।।
क्रियमाणं न कस्मैचिद्यदर्थाय प्रकल्पते ।
अक्रियावदनर्थाय तत्तु कर्म समाचरेत् ।। ४३ ।।
इत्यर्थानर्थहेतुत्वरहितस्यास्य कर्मणः ।
कर्तव्यत्वेऽप्यनुष्ठानमङ्गं स्यात् त्यागवन्न च ।। ४४ ।।
उपायानुपयोगेऽपि प्रयोजनबहुत्वतः ।
वैदिकस्यैव धर्मस्य कर्तव्यत्वमिहोच्यते ।। ४५ ।।
अविप्लवाय धर्माणां पाठनाय कुलस्य च ।
सङ्ग्रहाय च लोकस्य मर्यादास्थापनाय च ।। ४६ ।।
प्रियाधममविष्णोश्च देवदेवस्य शार्डिणः ।
मनीषी वैदिकाचारं मनसापि न लङ्घयेत् ।। ४७ ।।
यथा हि वल्लभा राज्ञो नदी राज्ञा प्रवर्तिताम् ।
लोकोपयोगिनीं रम्यां बहुसस्यविवर्धिनीम् ।। ४८ ।।
लङ्घयन् शूलमारोहेदनपेक्षोऽपि तां प्रति ।
एवं विलङ्घयन् मर्त्यो मर्यादां वेदनिर्मिताम् ।। ४९ ।।
प्रियोऽपि न प्रियोऽसौ मे मदाज्ञाव्यतिवर्तनात् ।
उपायत्वग्रहं तत्र वर्जयेन्मनसेत्यतः ।। ५० ।।
एवं ल्यपा तडागस्य प्रतिपाद्य विधेयताम् ।
परीति त्यागसाकल्यमुपसर्गादिहोच्यते ।। ५१ ।।
स्वयत्नसाधितोपायसाध्यं वाञ्छितमात्मनः ।
लोके वेदे च दृष्टं यदतस्तद्वासनाबलात् ।। ५२ ।।
कर्मादीनामुपायत्वबुद्धिः स्याच्चेन्मनीषिणः ।
प्रायश्चित्तत्वमात्रोक्तमपायकरणेष्विव ।। ५३ ।।
यथा कर्मविदां कर्मप्रायश्चित्तं प्रकीर्तितम् ।
यथावा योगनिष्ठानां योग एव विधीयते ।। ५४ ।।
प्रायश्चित्तं प्रपन्नस्य प्रपत्तिस्तद्वदुच्यते ।
अपायसंप्लवे सद्यः प्रायश्चित्तं समाचरेत् ।। ५५ ।।
प्रायश्चित्तिरियं सात्र यत्पुनः शरणं व्रजेत् ।
उपायानामुपायत्वस्वीकारोऽप्येतदित्यतः ।। ५६ ।।
इत्थं सवासनात्यागः कर्तव्य इति निश्चितः ।
तस्मात् समस्तधर्माणां परित्यागो विधानवान् ।। ५७ ।।
एवं धर्मपरित्यागविधेयं ल्यब्यदीष्यते ।
तदत्र शोकापनयवचनं स्यादसङ्गतम् ।। ५८ ।।
कर्तव्यनिश्चयाद्धर्मास्त्यजतः कस्याचिन्न हि ।
धर्मत्यागोद्भवश्शोकः कदाचिदपि संभवेत् ।। ५९ ।।
दुष्करत्वादिनोपायांस्त्यजतः स्वयमेव तत् ।
स्वाभीष्टोपायशून्यत्वात् शोकः सञ्जायतेतराम् ।। ६० ।।
दुष्करत्वञ्च शास्त्रीये चिरसाध्ये विलम्बिन ।
उपाये फलशीघ्रेत्सा त्वरया कारितं भवेत् ।। ६१ ।।
फलातिशयविज्ञानविलम्बाक्षमताबलात् ।
दुष्करोपायसन्त्यागः स्वत एव हि संभवेत् ।। ६२ ।।
एवं दुष्करसन्त्यागमनूद्य सुकरां गतिम् ।
विधाय शोकापनयान्न विधित्यागमालभेत् ।। ६३ ।।
किञ्च त्यागविधित्स्वत्र धर्मयोगस्य धर्मतः ।
शक्तं प्रति निषिध्दत्वात्तच्छास्त्रं स्यादनर्थकम् ।। ६४ ।।
अनन्यथाभावमानशतसिद्धाः क्रियादयः ।
तत्परित्यागसंयुक्ता प्रपत्तिश्च तथाविधा ।। ६५ ।।
तथाधिकारवैधुर्यात् कर्माद्यास्तु निरर्थकाः ।
तदसिद्धौ गुरूपाये नियमेनाप्रवृत्तितः ।। ६६ ।।
यद्वापि च लघूपायो नोदीयाद्गुरुसन्निधौ ।
तस्मात् त्यागमनूद्यैव विहिता शरणागतिः ।। ६७ ।।
एवं धर्मपरित्यागो यद्यपि स्वात्मतो मतः ।
तथाप्यत्रोदितस्त्यागो न तथाविध इष्यते ।। ६८ ।।
साधनान्तरसंसर्गराहित्यं नैरपेक्ष्यतः ।
अस्य साधनरत्नस्य विधिज्ञेयं न तु स्वतः ।। ६९ ।।
एतेन सर्वधर्माणां त्यागो विधिबलात् कृतः ।
न हि दौष्कर्यतस्सागे कृत्स्नत्यागस्य संभवः ।। ७० ।।
एवं त्यागान्वितोपायवरणार्थमनन्तरम् ।
वरणीयविशेषस्तु मामित्यत्राभिधीयते ।। ७१ ।।
अयं तु नित्यसिद्धत्वात् ज्ञानशक्त्यादियोगतः ।
समाभ्यधिकराहित्यादन्योपायविलक्षणः ।। ७२ ।।
तस्मात् कर्माद्युपायानां सर्वेषामतिरिक्तता ।
अस्यैव न्यासशब्देन श्रूयते स्मर्यतेऽपि च ।। ७३ ।।
एवं विलक्षणोपायभूतः कृष्णोऽत्र सम्मतः ।
‘एष नारायणः श्रीमानि’त्यादाववगम्यते ।। ७४ ।।
ततो वात्सल्यमुख्याश्च ज्ञानाद्याश्च तथा गुणाः ।
विश्वासार्थमिह ज्ञेयाः कृष्णगीतासु दर्शिताः ।। ७५ ।।
स्वधर्मबुद्धिमालक्ष्य रूपदोषानपेक्षणात् ।
परमार्थोपदेशेन वात्सल्यमुपदर्शितम् ।। ७६ ।।
वैश्वरूप्यानुभावेन सद्यः स्वामित्ववैभवम् ।
सारथित्वे नियोज्यत्वात् सौशील्यं च प्रदर्शितम् ।। ७७ ।।
दृष्टाद्भुतमहाकारगीतार्थार्थनावशात् ।
स्वाकाराविष्कृतैरेवं सौलभ्यमुपदर्शितम् ।। ७८ ।।
‘वेदाहं समतीतानी’त्यत्र दृष्ट्वाखिलेक्षिता ।
दिवा निशाविष्काराद्यैश्शक्तिस्सर्वातिशायिनी ।। ७९ ।।
सर्वात्मभावतो दृष्टं सर्वशेषित्वमुच्छ्रितम् ।
‘नानवाप्तमावाप्तव्य’मित्यत्रोक्ता च पूर्णता ।। ८० ।।
एवंविधविशेषाद्यशरण्यनिरपेक्षता ।
अवधारणरूपत्वादेकशब्देन बोध्यते ।। ८१ ।।
अवधारणरूपत्वमेकशब्दस्य विद्यते ।
स्थानप्रमाणान्मामेव त्वमेवेत्यादिवाक्यतः ।। ८२ ।।।
उपायस्यैकतोक्त्यात्र तत्स्वीकर्तृतयोद्भवम् ।
द्वित्वं व्यावर्त्यते तद्वदुपायोपेययोरपि ।। ८३ ॥
स्वीकारस्य ह्युपायत्वं स्वीकर्तुश्च तदन्वयः ।
स्वीकार्यस्यैव तद्भावश्शरण्योक्त्या प्रदर्श्यते ।। ८४ ।।
उपायान्तरसन्त्याग एव स्वीकार्यवस्तुनः ।
उपायत्वं व्यनक्तीति यद्यप्याशङ्कनीयता ।। ८५ ।।।
तथापि तस्य निष्कृष्टस्वीकाराङ्गत्वमित्यतः ।
व्युदस्य तदुपायत्वं स्वीकार्योपायता स्थिता ।। ८६ ।।
ततस्त्यक्ताखिलोपायप्रतियोगितयेष्यते ।
साक्षात् स एव भगवान् न तु तच्छरणागतिः ।। ८७ ।।
एवंविधस्योपायस्य वरणं तु विधीयते ।
व्रजेत्यनेन गत्यर्थात् करणत्रययोगिता ।। ८८ ।।
विधिश्चायं स्वविषयधात्वर्थं फलसंश्रये ।
करणं बोधयत्येव विध्युपास्तिपर्यया ।। ८९ ।।
तेन तेनाप्यते तत्तन्न्यासेनैव तृतीयया ।
करणत्वश्रुतेश्चात्र स्वीकारोपायतापि चेत् ।। ९० ।।
तथाप्यत्र विशेषोऽयमनुष्ठानेऽपि दृश्यते ।
उपासनादिवैषम्यं तत एवेह संभवेत् ।। ९१ ।।
यथा विकल्पे विद्यानां वेद्यरूपभिदोदिता ।
तथात्वनन्यसापेक्षा शरण्योपायतोदिता ।। ९२ ।।
एवं विशेषतः सिध्दा शरण्योपायता स्वयम् ।
स्थगयेद्बुद्धिगत्यर्थात् तत्प्रपत्तेरुपायताम् ।। ९३ ।।
फलदत्वेन हेतुत्वं नोपायत्वविवक्षितम् ।
किन्त्वत्र करणत्वेन साधकत्वं विशेषतः ।। ९४ ।।
एतेन फलदस्यापि नेत्रत्वात् प्रापकत्वधीः ।
संभवेदिति संभूताशङ्कापि विनिवारिता ।। ९५ ।।
इत्थमेकफलत्वेन सोऽयं विद्याविशेषवत् ।
भजनान्तर्गता च स्यात् प्रपत्तिरिति सम्मता ।। ९६ ।।
प्रारब्धभङ्गरूपस्य फलस्याधिक्यसंभवात् ।
प्रपत्तेर्भजनादत्र पृथक्त्वं प्रतिपाद्यते ।। ९७ ।।
भजनस्य प्रपत्तेश्च क्रियारूपविभेदतः ।
उभयोश्च पृथग्भावो विशेषेण प्रकीर्त्यते ।। ९८ ।।
भजनादसकृत् कार्यात् भेदः प्रपदनस्य च ।
कर्मवत् ज्ञानरूपस्याप्युच्यतेऽत्र सकृद्विधिः ।। ९९ ।।
एवं भक्तिप्रपत्त्योश्च रूपभेदविवक्षया ।
नानाशब्दादिभेदादित्युक्तवान् सूत्रकुन्मनिः ।। १०० ।।
विकल्पो नैव तुल्यत्वविरहादुभयोरिह ।
व्यवस्थितौ च न स्याद्वा प्रपत्तिस्सर्वगामिनी ।। १०१ ।।
इत्यत्र च समाधिस्तु पूर्वाचार्यनिरूपितः ।
रत्नवाणिज्यकृष्यादिदृष्टान्तार्थप्रदर्शनात् ।। १०२ ।।
अर्थसाधनभूतेषु कृष्याद्या बहुळोद्यमाः ।
मन्दयत्नात्तथा रत्नवाणिज्याद्याश्च लक्षिताः ।। १०३ ।।
एवं बहुप्रयासैर्वा स्वल्पायासैरथापि वा ।
स्वाभीष्टं साधयन्त्येव स्वभाग्यवशगा नराः ।। १०४ ।।
तस्मात् भाग्यानुगुण्येन केषाञ्चिच्छरणागतिः ।
केषाञ्चित् कर्मयोगादि स्वरुचेर्गोचरो भवेत् ।। १०५ ।।
नैवात्र रत्नवाणिज्यं सुकरस्य निदर्शनम् ।
तत्र रत्नपरीक्षार्थं शास्त्रेऽप्यायाससंभवात् ।। १०६ ।।
तदशक्ताश्च कृष्यादौ गतिभाग्याधिकुर्वते ।
आत्मयोगाद्यशक्तांस्तु प्रपत्ताविति निश्चयात् ।। १०७ ।।
वेदे गुरुलधूनां च फलवैषम्यसंभवात् ।
न तुल्यत्वं फलैक्ये च विषयस्य व्यवस्थितेः ।।१०८ ।।
तस्माद्भक्तिप्रपत्त्योश्च नैव तुल्यत्वसंभवः ।
इति नाशङ्क्यमात्रापि महाविश्वासगौरवात् ।। १०९ ।।
विश्वासवासभूम्नैव समाने गौरवे सति ।
न्यासोपासनयोश्चैवं विकल्पो रुचिगोचरः ।। ११० ।।
वैषम्येऽप्युभयोस्साम्ये प्रपत्तिस्तु गरीयसी ।
विश्वासगौरवाशक्या योगादिष्ववतारतः ।। १११ ।।
यथारत्नपरीक्षादिष्वशक्तः कर्षणादिभाक् ।
तथायं बुद्धिदौर्बल्यादुपायान्तरभाग्भवेत् ।। ११२ ।।
अत एवेह दृष्टान्तस्सामान्याकारतस्समः ।
अन्तरः फलभेदोऽत्र साधनाकारभेदजः ।। ११३ ।।
प्रारब्धभङ्गादत्रापि फलाधिक्यस्य संभवे ।
भजनेऽपि फलाधिक्यमत्यर्थप्रीतिसंभवम् ।। ११४ ।।
एवन्त्ववान्तराकारवैषम्यविरहा सती ।
मोक्षैकफलहेतुत्वात् विकल्पः कल्प्यते द्वयोः ।। ११५ ।।
तत्र प्रपत्तियोग्यस्तु भाष्याधिकपरिग्रहः ।
अत एवास्य चाधिक्यं साधकेभ्यः प्रदर्शितम् ।। ११६ ।।
सत्कर्मनिरताश्शुध्दास्सांख्ययोगविदस्तथा ।
नार्हन्ति शरणस्तस्य कलां कोटितमीमिति ।। ११७ ।।
यद्वायासमनायासमेत्य गौरवलाघवात् ।
वक्तव्येऽतिविकल्प: स्यात् कर्तृभेदव्यवस्थितेः ।। ११८ ।।
तद्भेदोऽकिञ्चित्वार्थशोकातिशयसंभवः ।
गोदानसमिदाधानश्राध्दकक्षप्रदाभवत् ।। ११९ ।।
एवं सत्यनुकल्पत्वं प्रपत्तेरत्र संभवेत् ।
सोमाभावे च प्रतीकग्रहणस्य विधिर्यथा ।। १२० ।।
‘शरणं त्वां प्रपन्ना ये ध्यानयोगविवर्जिताः ।
तेऽपि मृत्युमतिक्रम्य यान्ति तद्वैष्णवं पदम्’ ।। १२१ ।।
इत्यत्र चापिशब्दोक्ता प्रपत्तेरनुकल्पता ।
इति नैवात्र वक्तव्यमुभयोः फलसाम्यतः ।। १२२ ।।
कर्तृभेदेन नियमान्न च दोषानुकल्पतः ।
अपिशब्दोऽनुकल्पत्वद्योतनश्चेन्न नेष्यति ।। १२३ ।।
उपायान्तरशून्यत्वविरोध्यभिभवेऽपि च ।
प्रपन्नस्य फलसिद्धिमपिशब्दो व्युदस्यति ।। १२४ ।।
इत्थं गद्यद्वये स्पष्टं भाष्यकारेण दर्शितम् ।
तस्माद्भक्तिप्रपत्त्योर्न मुख्यगौणत्वसंभवः ।। १२५ ।।
एवं व्यवस्थिते चापि न सर्वाधिपतेर्हतिः ।
प्रवृत्तेस्सर्ववर्णेष्वप्याकिञ्चन्यस्य संभवात् ।। १२६ ।।
एतेन परवी …..रुचिभेदपरिग्रहात् ।
विकल्पेऽप्यैकराश्यं स्यादपृथक्त्वं शरणागतेः ।। १२७ ।।
अस्याश्च तुल्यतापक्षे रुचिभेदात् परिग्रहे ।
सिध्देऽप्यनितरोपायभावयोगात् पृथक्स्थितिः ।। १२८ ।।
एवं सर्वेतरोपायत्याज्यत्वत्यागशोधनम् ।
वरणीयगुणाधिक्यं ततस्तन्निरपेक्षता ।। १२९ ।।
तस्यैवोपायभावत्वसिद्धिस्तद्वरणस्य च ।
श्लोकस्यास्य यथातत्त्वं पूर्वार्धेनोपपादितम् ।। १३० ।।
अथानिष्टनिवृत्तीष्टप्राप्तिरूपफलान्वयात् ।
शरणागतकार्यार्थमुत्तरार्धेन बोध्यते ।। १३१ ।।
तत्र पूर्वमनिष्टस्य निवृत्तिं वक्तुमादितः ।
निवर्तकस्य याथात्म्यमहमित्यभिधीयते ।। १३२ ।।
स्वीकृतस्येश्वरस्तत्र ज्ञानशक्तिदयादयः ।
गुणाश्चोपायकार्यार्थमुपदेशान्विता मताः ।। १३३ ।।
अत्रैवं फलदा ह्येते पूर्वं विश्वासगोचराः ।
कः पुनः स्त्वाशङ्कात्र न कार्याकार्यभेदतः ।। १३४ ।।
एवं सत्याशयोऽत्रायं यस्तु बन्धकरः पुरा ।
सोऽहं विमोचक: स्याच्चेत् को निषेध्दा भवेदिति ।। १३५ ।।
स्वीकृतोपायशक्त्यैव स्वकपापनिबर्हणम् ।
निश्चितं निर्भरं ब्रूते त्वाशब्दः शरणागतम् ।। १३६ ।।
शरण्योऽनन्यसापेक्षो निर्भरोऽर्थात्वकिञ्चनः ।
उभयोस्सदृशस्त्वेवं कार्यार्थे घटनक्रमः ।। १३७ ।।
एवं निर्भरतासिद्धप्रपञ्चकृतकृत्यता ।
यज्ञरूपधरत्वेन प्रपत्तव्यनिरूपणात् ।। १३८ ।।
कृतान्यनेन सर्वाणि तपांसि तपतां वर ।
सर्वे तीर्थास्सर्वयज्ञास्सर्वदानानि च क्षणात् ।। १३९ ।।
कृतान्यनेन मोक्षश्च तस्य हस्ते न संशयः ।
इत्यहिर्बुध्यफणिते ततः पृच्छति नारदः ।। १४० ।।
कथं तपांसि यज्ञाश्च तीर्थदानानि सर्वशः ।
तस्यैव न्यासमात्रेण सिध्यन्तीत्यत्र चोत्तरम् ।। १४१ ।।
यानि निःश्रेयसार्थानि चोदितानि तपांसि वै ।
तेषां तु तपसां न्यासमतिरिक्तं तपः श्रुतम् ।। १४२ ।।
समिस्ताधनकादीनां यज्ञानां न्यासमात्मनः ।
मनसा योऽकरोदेवे स स्वध्वर ईरितः ।। १४३ ।।
योगसाधनभूतेन स्वात्मना चेज्यमीश्वरम् ।
अयजन्तानि धर्माणि प्रथमानीति च श्रुतम् ।। १४४ ।।
यज्ञरूपधरं देवं यजते श्रद्धयैव यः ।
तेन सर्वे कृता यज्ञा भवन्तीह महात्मना ।। १४५ ।।
एवंरूपं समभ्यर्च प्रक्षीणाशेषपातकः ।
अनुष्ठितत्वकृशतो भवेदेव न संशयः ।। १४६ ।।
इत्येवं श्रुतिशास्त्रोक्तं प्रपन्नस्य महात्मनः ।
कृतकृत्यत्वनैर्भर्यं त्वाशब्दप्रतिपादितम् ।। १४७ ।।
तस्मादेनं हनतपत्यकृत्यकरणादिकम् ।
सिध्दोपायनिवर्त्यत्वात्तदघानामशेषतः ।। १४८ ।।
ततो निवर्तनीयस्य पापवर्गस्य सर्वशः ।
स्वरूपमिह बोध्दव्यं सर्वपापेभ्य इत्यतः ।। १४९ ।।
पापशब्दस्त्वभीष्टार्थविरोधवचनो मतः ।
अतोऽत्र मोक्षरोधित्वात् पुण्यपापोभयान्वयः ।। १५० ।।
पुण्यश्च सुखहेतोश्च पापत्वं मोक्षकांक्षिणः ।
स्वानिष्टभूतब्रह्मादिपदप्राप्तिप्रदानतः ।। १५१ ।।
महिष्ठमपि मोक्षेच्छोऽरिष्टं बन्धकं सुखम् ।
स्वैरं जिगमिषो स्वर्णनिगळेन निरोधवत् ।। १५२ ।।
श्रूयते चास्य सुकृतदुष्कृतोभयधूननम् ।
तत्तत्कर्मविभागश्च प्रियाप्रियजनाश्रयः ।। १५३ ।।
पापेभ्य इत्यनिष्टस्य बहुत्वं प्रतिपाद्यते ।
अविद्याकर्मसङ्घातवासनारुचिभेदतः ।। १५४ ।।
तत्राज्ञानमविप्रेति भिद्यते बहुधा च तत् ।
ज्ञानाभावान्यथाज्ञानविपरीतावबोधकः ।। १५५ ।।
कर्माप्यकृत्यकरणकृत्याकरणरूपतः।
अपचाराच्च लक्ष्मीशे तदीयेष्वपि दुस्सहात् ।। १५६ ।।
पूर्वोत्तराघशब्दैश्च बहुधा भिन्नमिष्यते ।
देहबन्धश्च देवादिभेदैर्बहुविधो मतः ।। १५७ ।।
वासना च रुचिभिन्ना स्वहेतुविषयैस्तथा ।
एषामुद्देश्यरोधित्वसाम्यात् पापत्वनिश्चयः ।। १५८ ।।
सर्वशब्देन साकल्यं निवर्त्यानां निबोधितम् ।
अत एव प्रपन्नस्य फलशैघ्यं प्रदर्श्यते।। १५९ ।।
भाष्यकारेण गद्येऽपि कालत्रितयभाविनाम् ।
सर्वागसामशेषेण शरण्यक्षान्तिरर्थिता ।। १६० ।।
अशेषेणाखिलं पापं क्षान्तं भगवता यदि ।
फलस्य त्वविलम्बेन प्रपत्तिक्षणसंभवात् ।।१६।।
शोच्यस्य तच्छरीरस्याप्यनुवृत्तिः कथं भवेत् ।
अन्यथात्र न संगच्छेच्छोकस्य विनिवर्तनम् ।। १६२ ।।
इति चेन्नात्र कैवल्यादुपायस्य विळम्बने ।
यस्य चादुःखताबुद्धिस्तदेहस्य स्थितौ भवेत् ।। १६३ ।।
अस्य शोकनिमित्तन्तु देहान्तरमपोह्यते ।
एवंविधविरोधिभ्यः प्रपन्नस्य विनिश्चितः ।। १६४ ।।
मोक्षयिष्यामिशब्देन प्रोच्यते मोचनक्रमः ।
पूर्वाघस्योत्तराघस्य विनाशोऽश्लेषणं तथा ।। १६५ ।।
प्रियाप्रियेषु संक्रान्तिः पुण्यापुण्यविशेषयोः ।
अधिकारिविशेषमारब्धांशनिबर्हणम् ।। १६६ ।।
सर्वं क्रियापदे त्वत्र धात्वर्थो मोक्ष उच्यते ।
णिचात्रोपायभूतस्य प्रयोक्तृत्वं प्रमीयते ।। १६७ ।।
अतो निरस्यं सान्निध्यात् पापमर्केऽन्धकारवत् ।
भविष्यद्वचनं तत्र सङ्कल्पस्यैव सूचकम् ।। १६८ ।।
तत्तत्कर्म करिष्यामीत्यादिवाक्येष्विवेष्यते ।
भगवन्निग्रहत्वेन पापस्य निखिलस्य च।। १६९ ।।
क्षमासङ्कल्प एवात्र युक्तो ह्यस्य निवर्तकम् ।
अतो यत्पापमुद्दिश्य वर्ततेऽस्य भयं पुरा ।। १७० ।।
तद्देशेषु स्वयं भीत्या नश्येत् सङ्कल्पसन्निधौ ।
निवर्ताखिलपापस्य स्वाभीष्टप्राप्तिसंभवम् ।। १७१ ।।
उन्नीयतेऽथ कर्ताख्यं शोकस्यात्र निषेधतः ।
पूर्वश्लोकोदितप्राप्तिरनुषङ्गोऽत्र चेत्यतः ।। १७२ ।।
युक्तं तत्प्रतिबन्धस्य प्राधान्येन निवारणम् ।
समस्तहेयप्रध्वंसे स्वस्वरूपानुबन्धिनी ।। १७३ ॥
भगवत्प्राप्तिरस्यैव स्वतो ह्याविर्भवेत्तथा ।
अतो विरोधिविध्वंससमनन्तरसंभवः ।। १७४ ।।
शोकापनयनं त्विष्टं स्थललाभविभावितम् ।
फलासिध्दिविलम्बाभ्यां फलिनश्शोकसंभवः ।। १७५ ।।
उपायोपेयदौष्कर्यान्निदानो वा निरूप्यते ।
त्यक्तसाध्येतरोपायात् सिध्दोपायपरिग्रहात् ।। १७६ ।।
गुणवन्निरपेक्षत्वात् न दौष्कर्यव्यपायधीः ।
फलप्रदत्वशक्तेश्च निश्शेषापनिबर्हणात् ।। १७७ ।।
फलासिद्धिविळम्बेनेत्यतश्शोकोऽत्र नोचितः ।
एवं त्वकिञ्चनस्यास्य शरणागतिशालिनः ।। १७८ ।।
हस्ताहितफलप्राप्त्या निःश्लोकत्वमिहोदितम् ।
अत्र केचिदयं श्लोकः पूर्वश्लोकेन संहितः ।। १७९ ।।
प्रपत्तिं स्वाङ्गसंपूर्ण विदधातीति मन्वते ।
अत्रोक्तनिखिलोपायविलक्षणतयोदितम् ।। १८० ||
सर्वगुह्येतरोपायविधानं श्लोकयुग्मतः ।
‘इदं तु ते गुह्यतममि’ति प्रस्तुत्य पूर्वतः ।। १८१ ।।
ज्ञानं नियमितं यत्तु गुह्याद्गुह्यतरं ततः ।
तद्वक्ष्यमाणोपायस्य सर्वगुह्यतमत्वतः ।। १८२ ।।
इत्येवं ज्ञायते भूयश्शब्दोऽप्यत्रातिशायिभाक् ।
राजगुह्याच्च भवनाद्देवानां गुह्यभावतः ।। १८३ ।।
सर्वगुह्यतमत्वं तु न्यासस्यैवात्र युज्यते ।
पूर्वोक्तभजनश्लोकसारूप्येण निगम्यते ।। १८४ ।।
अनेन भजनत्वेन तदङ्गत्वविचार्यता ।
ध्यानार्चनप्रणामास्तु योगशेषतयोदिताः ।। १८५ ।।
तत्र युक्त्वैवमात्मानमिति योगस्य दर्शनान्।
अन्योपायपरत्वेऽत्र मन्मनाभववाक्यतः ।। १८६ ।।
तेन स्थैर्यविधानेन विश्वासोऽत्र प्रदर्श्यते ।
मद्भक्ता इत्यनेनान्यपुरुषार्थाभिलाषिता ।। १८७ ।।
मद्याजीति प्रपन्नस्य समाचारविधिः क्रमः ।
अत्रोक्तमानुकूल्यञ्च प्रातिकूल्यविवर्जनम् ।। १८८ ।।।
मां नमस्कुर्विति न्यासस्साक्षादत्र विधीयते ।
नमसो न्यासवाचित्वं मूलमन्त्रे प्रदर्शितम् ।। १८९ ।।
शास्त्रे च नमसास्यैव प्रपत्तित्वं प्रकीर्तितम् ।
एवं विधाय निक्षेपं विश्वासादिविशेषितम् ।। १९० ।।
प्राप्तिरूपं फलञ्चोक्तं ‘मामेवैष्यसि’ वाक्यतः ।
तस्यानपायस्सत्यं ते प्रतिजान इतीरितः ।। १९१ ।।
प्रियोऽसि मयि वक्तव्या विषयीकारयोग्यता ।
ततस्तदितरोपायवरणं शरणस्य च ।। १९२ ।।
विधायाघविलोपस्य प्राधान्यं च प्रदर्शितम् ।
तस्माच्छ्लोकद्वयेनात्र निक्षेपवरणात्मकम् ।। १९३ ।।
अर्थद्वयमशेषाङ्गवाक्यद्वयवदीरितम् ।
निक्षेपस्य प्रधानत्वात् पूर्वत्वं वरणस्य च ।। १९४ ।।
इदं ते नातपस्कायेत्यधिकारिविशोधनम् ।
य इदं परमं गुह्यमित्युपायस्य वैभवम् ।। १९५ ।।
न च तस्य इति प्रोक्तं शरणागतगौरवम् ।
अध्येष्यते चेत्मारभ्य प्रबन्धस्य प्रशस्यते ।। १९६ ।।
अतश्श्लोकद्वयाच्छ्रलोकाच्चरमाद्वापि केवलात् ।
सर्वोपायसमुद्रिक्तपरैकोपायतोदिता ।। १९७ ।।
सौम्यजामातृमुनिना गुरुस्नेहदशान्वयात् ।
विहितश्श्लोकवर्यार्थस्तत्त्वदीपस्य संग्रहः ।। १९८ ।।
इति तत्त्वदीपसंग्रहकारिकायां चरमश्लोकप्रकरणं समाप्तम्।
इति श्रीवादिकेसरिसौम्यजामातृमुनिकृतिषु
तत्त्वदीपसङ्ग्रहः समाप्तः ॥