36 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे षङ्त्रिंश: सर्ग: तत: सुमन्त्रमैक्ष्वाक: पीडितो ऽत्र प्रतिज्ञया । स बाष्पमतिनिश्वस्य जगादेदं पुन:पुन: ।। 2.36.1 ।। तत इत्यादि । तत: कैकेयीसम्मत्यभावानन्तरम् । अत्र वरदानविषये ।। 2.36.1 ।। सूत रत्नसुसम्पूर्णा चतुर्विधबला चमू: । राघवस्यानुयात्रार्थं क्षिप्रं प्रतिविधीयताम् ।। 2.36.2 ।। सूतेति । अनुयात्रार्थं प्रतिविधीयतां प्रेष्यताम् ।। 2.36.2 ।। रूपाजीवाश्च वादिन्यो वणिजश्चमहाधना: । शोभयन्तु कुमारस्य […]

35 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे पञ्चत्रिंश: सर्ग: ततो निर्द्धूय सहसा शिरो निश्वस्य चासकृत् । पाणिं पाणौ विनिष्पिष्य दन्तान् कटकटाप्य च ।। 2.35.1 ।। सुमन्त्रस्य कैकेयीविषयकोपानुभावं दर्शयति–तत इत्यादि । कटकटाप्य कटकटाशब्दयुक्तान् कृत्वा । कटकटाश्ाब्दात् “तत्करोति” इति ण्यन्ताल्ल्यप् ।। 2.35.1 ।। लोचने कोपसंरक्ते वर्णं पूर्वोचितं जहत् । कोपाभिभूत: सहसा सन्तापमशुभं गत: ।। 2.35.2 ।। मन: समीक्षमाणश्च सूतो दशरथस्य […]

34 Sarga अयोध्याकाण्डम्

श्रीरामायणे श्रीमदयोध्याकाण्डे चतुस्त्रिंश: सर्ग: तत: कमलपत्राक्ष: श्यामो निरुदरो महान् । उवाच रामस्तं सूतं पितुराख्याहि मामिति ।। 2.34.1 ।। स रामप्रेषित: क्षिप्रं सन्तापकलुषेन्द्रिय: । प्रविश्य नृपतिं सूतो निश्वसन्तं ददर्श ह ।। 2.34.2 ।। पूर्वसर्गान्तोक्तमर्थं वक्ष्यमाणसङ्घटनार्थं सङ्ग्रहेण दर्शयति–तत इति । विशेषणैर्निर्विकारत्वं सूच्यते । निरुदर: तनुमध्य इत्यर्थ: ।। 2.34.12 ।। उपरक्तमिवादित्यं भस्मच्छन्नमिवानलम् । तटाकमिव निस्तोयमपश्यज्जगतीपतिम् ।। 2.34.3 ।। […]

33 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे त्रयस्त्रिंश: सर्ग: दत्त्वा तु सह वैदेह्या ब्राह्मणेभ्यो धनं बहु ।जग्मतु: पितरं द्रष्टुं सीतया सह राघवौ ।। 2.33.1 ।। पूर्वं पित्रानुज्ञातो ऽपि सीतालक्ष्मणयोरनुज्ञापनाय पुन: रामो दशरथसमीपं गच्छति–दत्त्वेत्यादि ।। 2.33.1 ।। ततो गृहीते दुष्प्रेक्षे त्वशोभेतां तदायुधे । मालादामभिराबद्धे सीतया समलङ्कृते ।। 2.33.2 ।। तत इति । तदायुधे तयोरायुधे, धनुषी इति यावत् । खङ्गादीनामप्युपलक्षणमेतत् […]

32 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे द्वात्रिंश: सर्ग: तत: शासनमाज्ञाय भ्रातु: शुभतरं प्रियम् । गत्वा स प्रविवेशाशु सुयज्ञस्य निवेशनम् ।। 2.32.1 ।। एवं निश्चितसीतालक्ष्मणानुयात्रस्य रामस्य यात्रादानं प्रस्तूयते द्वात्रिंशे–तत इत्यादि । आज्ञाय अङ्गीकृत्य । शुभतरं ब्राह्मणोपकारत्वात् । प्रियम् आत्मनोनुगमनाङ्गीकारफलत्वात् ।। 2.32.1 ।। तं विप्रमग्न्यगारस्थं वन्दित्वा लक्ष्मणो ऽब्रवीत् । सखे ऽभ्यागच्छ पश्य त्वं वेश्म दुष्करकारिण: ।। 2.32.2 ।। तमिति […]

31 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकत्रिंश: सर्ग: एवं श्रुत्वा तु संवादं लक्ष्मण: पूर्वमागत: । बाष्पपर्याकुलमुख: शोकं सोढुमशक्नुवन् ।। 2.31.1 ।। स भ्रातुश्चरणौ गाढं निपीड्य रघुनन्दन: । सीतामुवाचातियशा राघवं च महाव्रतम् ।। 2.31.2 ।। एवं रामेण सीतागमने ऽङ्गीकृते लक्ष्मणस्यानुगमनप्रार्थनमुपक्षिपति–एवमित्यादिना । श्लोकद्वयमेकं वाक्यम् । एवं संवादं पूर्वोक्तं सीतारामयोस्संवादम् । पूर्वमागत: कौसल्यागृहाद्रामेण सह पूर्वमेवागत: । शोकम् अर्द्धशरीरभूताया: सीताया अपि […]

30 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये श्रीमदयोध्याकाण्डे त्रिंश: सर्ग: सान्त्व्यमाना तु रामेण मैथिली जनकात्मजा । वनवासनिमित्ताय भर्तारमिदमब्रवीत् ।। 2.30.1 ।। सान्त्व्यमानेति । जनकात्मजेतिविशेषणं स्वकुलोचिता चारदार्ढ्याय । वनवासनिमित्ताय वनवास एव निमित्तं प्रयोजनं तस्मै ।। 2.30.1 ।। सा तमुत्तमसंविग्ना सीता विपुलवक्षसम् । प्रणयाच्चाभिमानाच्च परिचिक्षेप राघवम् ।। 2.30.2 ।। सेति । उत्तमसंविग्ना उत्तममत्यन्तं कम्पमाना । विपुलवक्षमं शूरमिति यावत् । शूरमपि कथं चिक्षेपेत्यत्राह […]

29 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकोनत्रिंश: सर्ग: एतत्तु वचनं श्रुत्वा सीता रामस्य दु:खिता । प्रसक्ता श्रुमुखी मन्दमिदं वचनमब्रवीत् ।। 2.29.1 ।। एतदिति । पूर्वसर्गान्ते इदमित्युक्तावपि पुनरिदमित्युक्तिर्विशेषणविशेषाभिधानार्था । प्रसक्ताश्रुमुखी ईषदश्रुमुखीत्यर्थ: ।। 2.29.1 ।। ये त्वया कीर्त्तिता दोषा वने वस्तव्यतां प्रति । गुणानित्येव तान् विद्धि तव स्नेहपुरस्कृतान् ।। 2.29.2 ।। य इति । वस्तव्यतां वासित्वम् । तान् दोषान् […]

28 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये श्रीमदयोध्याकाण्डे अष्टाविंश: सर्ग: स एव ब्रुवतीं सीतां धर्मज्ञो धर्मवत्सल: । न नेतुं कुरुते बुद्धिं वने दु:खानि चिन्तयन् ।। 2.28.1 ।। सान्त्वयित्वा पुनस्तां तु बाष्पदूषितलोचनाम् । निवर्त्तनार्थे ध्ार्मात्मा वाक्यमेतदुवाच ह ।। 2.28.2 ।। ‘वने निवासस्य च दु:खिताम्’ इत्युक्तं विवृणोति–स एवमित्यादिना ।। 2.28.12 ।। सीते महाकुलीनासि धर्मे च निरता सदा । इहाचरस्व धर्मं त्वं मा […]

27 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे सप्तविंश: सर्ग: एवमुक्ता तु वैदेही प्रियार्हा प्रियवादिनी । प्रणयादेव संक्रुद्धा भर्त्तारमिदमब्रवीत् ।। 2.27.1 ।। एवं रामायणपुरुषेषु रामकर्तव्यं सामान्यधर्मानुष्ठानं दर्शितम् । अथ सीतानुष्ठेयं पातिव्रत्यधर्मं संक्षेपेणोपक्षिपति–एवमुक्तेत्यादि । अप्रियवादिन्यपि प्रियार्हा प्रियभाषणार्हा । तदुपरि प्रियवादिनी । तथाप्येवमुक्ता अप्रियमुक्ता । प्रणयादेव सौहृदादेव, न तु वैरात् संक्रुद्धा ।। 2.27.1 ।। किमिदं भाषसे राम वाक्यं लघुतया ध्रुवम् । […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.