26 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे षड्विश: सर्ग: अभिवाद्य च कौसल्यां राम: संप्रस्थितो वनम् । कृतस्वस्त्ययनो मात्रा धर्मिष्ठे वर्त्मनि स्थित: ।। 2.26.1 ।। विराजयन् राजसुतो राजमार्गं नरैर्वृतम् । हृदयान्याममन्थेव जनस्य गुणवत्तया ।। 2.26.2 ।। एवं मातरमनुमान्य सीतामनुमानयितुं निर्गच्छति–अभिवाद्येत्यादि श्लोकद्वयमेकं वाक्यम् । वनं संप्रस्थित: वनं गन्तुं प्रवृत्त: । धर्मिष्ठे अतिशयितधर्मे आममन्थेव विलोडयामासेत्यर्थ: । गुणवत्तया पूर्वभाषी प्रियवादी चेत्याद्युक्तगुणविशिष्टतया ।। […]

25 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे पञ्चविंश: सर्ग: सा ऽपनीय तमायासमुपस्पृश्य जलं शुचि: । चकार माता रामस्य मङ्गलानि मनस्विनी ।। 2.25.1 ।। तान्येव स्वस्त्ययनानि दर्शयतिसेत्यादि । आयासं क्लेशम् । अप्तनीय त्यक्त्वा । जलमुपस्पृश्य आचम्येत्यर्थ: । “उपस्पर्शस्त्वाचमनम्” इत्यमर: । रोदनस्याशुचिताहेतुत्वात् देवताप्रार्थनस्य शुचिना कर्त्तव्यत्वादुपस्पर्शनमुक्तम् । अत एव शुचिरित्युच्यते । मङ्गलानि मङ्गलाशासनानि ।। 2.25.1 ।। न शक्यसे वारयितुं गच्छेदानीं रघूत्तम […]

24 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे चतुर्विंश: सर्ग: तं समीक्ष्य त्ववहितं पितुर्निर्देशपालने । कौसल्या बाष्पसंरुद्धा वचो धर्मिष्ठमब्रवीत् ।। 2.24.1 ।। अथ धर्म्यस्य रामनिश्चयस्यानुमोदनं कौसल्या करोति–तं समीक्ष्येत्यादिना । तं रामं समीक्ष्य निश्चित्य । अवहितं सावधानम् । निर्देशो नियोग: ।। 2.24.1 ।। अदृष्टदु:खो धर्मात्मा सर्वभूतप्रियंवद: । मयि जातो दशरथात् कथमुञ्छेन वर्त्तयेत् ।। 2.24.2 ।। अदृष्टदु:ख इति । उञ्छो नाम–दैवात्प्रकीर्णानां […]

23 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे त्रयोविंश: सर्ग: इति ब्रुवति रामे तु लक्ष्मणो ऽधश्शिरा मुहु: । श्रुत्वा मध्यं जगामेव मनसा दु:खहर्षयो: ।। 2.23.1 ।। पूर्वं दैवस्य प्रबलत्वेन राज्यविपर्यये न संताप: कार्य: । धर्मस्य सर्वश्रेयस्साधनत्वात् तन्मूलभूते । पितृवचनकरणसत्ये अवश्यं कर्त्तव्ये मातृवचनं च पश्चात्तनत्वात्पश्चात्पालनीयमित्येतावत् सयुक्तिकमुपपादितम् । तत्र पौरुषमेव बलं बलीय: । दैवबलं तु दुर्बलानुसरणीयम्, धर्मश्चार्थकामविरोधेन कर्त्तव्य इति पूर्वपक्षं पूर्वं […]

22 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे द्वाविंश: सर्ग: अथ तं व्यथया दीनं सविशेषममर्षितम् । श्वसन्तमिव नागेन्द्रं रोषविस्फारितेक्षणम् ।। 2.22.1 ।। आसाद्य राम: सौमित्रिं सुहृदं भ्रातरं प्रियम् । उवाचेदं स धैर्येण धारयन् सत्त्वमात्मवान् ।। 2.22.2 ।। अथ राम: सौमित्रे: कैकेयीविषयं रोषमुपशमयति–अथेत्यादिश्लोकद्वयमेकं वाक्यम् । सविशेषमन्तरङ्गजनापेक्षया सातिशयम् । अमर्षितं प्राप्तासहनम् । रोषविस्फारितेक्षणं क्रोधविस्तारितनयनम् । आसाद्य अभिमुखीकृत्य । सुहृत्त्वादिविशेषणं कोपेप्यनुपेक्षणीयत्वाय । […]

21 Sarga अयोध्याकाण्डम्

श्रीमद्वाल्मीकीयरामायणम् अयोध्याकाण्डे एकविंश: सर्ग: रामविवासनश्रवणदुःखितां कौसल्यामाश्वासयँल्लक्ष्मणो रामवनगमनं स्वस्यानभिमतमित्युक्त्वा दशरथं विगर्ह्य स्वस्यापि रामानुगमनं निश्चिकाय । कैकेयीवचसोsधर्म्यत्वेन वनगमनं निषेधन्तीं कौसल्यां रामः पितृवचस्त्वात्तस्य धर्म्यत्वं निश्चित्य स्वगमनमनुमन्तुं प्रस्थानमङ्गलानि च विधातुं कौसल्यां प्रार्थयत । तथा तु विलपन्तीं तां कौसल्यां राममातरम् । उवाच लक्ष्मणो दीनस्तत्कालसदृशं वचः ॥ 2.21.1 ॥ एवमुपक्रान्तस्य पितृवचनपरिपालनस्य स्थैर्यमस्मिन्सर्गे प्रतिपाद्यते–तथेति । तत्कालसदृशं कौसल्यादुःखकालोचितम् एतेन वक्ष्यमाणलक्ष्मणवचनं केवलं कौसल्याशोकशान्त्यर्थं न […]

20 Sarga अयोध्याकाण्डम्

श्रीमद्वाल्मीकीयरामायणम् अयोध्याकाण्डे विंश: सर्ग: तस्मिंस्तु पुरुषव्याघ्रे निष्क्रामति कृताञ्जलौ । आर्त्तशब्दो महान् जज्ञे स्त्रीणामत:पुरे तदा ।। 2.20.1 ।। तस्मिन्निति । आर्तशब्द: आर्तानां यादृश: शब्दस्तादृश इत्यर्थ: ।। 2.20.1 ।। कृत्येष्वचोदित: पित्रा सर्वस्यान्त:पुरस्य च । गतिर्य: शरणं चापि स रामो ऽद्य प्रवत्स्यति ।। 2.20.2 ।। कृत्येष्विति । अन्त:पुरस्य कृत्येषु कर्त्तव्येषु विषये । गति: कर्तृत्वेन प्राप्य: । शरणं रक्षिता […]

19 Sarga अयोध्याकाण्डम्

श्रीमद्वाल्मीकीयरामायणम् अयोध्याकाण्डे एकोनविंश:सर्ग: तदप्रियममित्रघ्नो वचनं मरणोपमम् । श्रुत्वा न विव्यथे राम: कैकेयीं चेदमब्रवीत् ।। 2.19.1 ।। तदिति । मरणोपममिति लोकदृष्ट्या ।। 2.19.1 ।। एवमस्तु गमिष्यामि वनं वस्तुमहं त्वित: । जटाजिनधरो राज्ञ: प्रतिज्ञामनुपालयन् ।। 2.19.2 ।। एवमिति । इत: अस्मान्नगरात् ।। 2.19.2 ।। इदं तु ज्ञातुमिच्छामि किमर्थं मां महीपति: । नाभिनन्दति दुर्द्धर्षो यथापुरमरिन्दम: ।। 2.19.3 ।। […]

18 Sarga अयोध्याकाण्डम्

श्रीमद्वाल्मीकीयरामायणम् अयोध्याकाण्डे अष्टादश: सर्ग: स ददर्शासने रामो निषण्णं पितरं शुभे । कैकेयीसहितं दीनं मुखेन परिशुष्यता ।। 2.18.1 ।। स पितुश्चरणौ पूर्वमभिवाद्य विनीतवत् । ततो ववन्दे चरणौ कैकेय्या: सुसमाहित: ।। 2.18.2 ।। स इति । आसने पर्यङ्के । ‘मूर्च्छितो न्यपतत्तस्मिन् पर्यङ्के हेमभूषिते’ इत्युत्तरत्र वक्ष्यमाणत्वात् । मुखेनेत्युपलक्षणे तृतीया ।। 2.18.12 ।। रामेत्युक्त्वा च वचनं बाष्पपर्याकुलेक्षण: । शशाक […]

17 Sarga अयोध्याकाण्डम्

श्रीमद्वाल्मीकीयरामायणम् अयोध्याकाण्डे सप्तदश: सर्ग: स रामो रथमास्थाय सम्प्रहृष्टसुहृज्जन: । पताकाध्वजसम्पन्नं महार्हागरुधूपितम् । अपश्यन्नगरं श्रीमान्नानाजनसमाकुलम् ।। 2.17.1 ।। अथ रामस्य राजसमीपगमनं सप्तदशे–स राम इत्यादि । पताकाध्वजसम्पन्नं पताका: अनामाङ्किता:, तदङ्कितानि ध्वजानि ।। 2.17.1 ।। स गृहैरभ्रसङ्काशै: पाण्डरैरुपशोभितम् । राजमार्गं ययौ रामो मध्येनागरुधूपितम् ।। 2.17.2 ।। सगृहैरिति । मध्येन वीथीमध्येन । प्रकृत्यादित्वात्तृतीया ।। 2.17.2 ।। चन्दनानां च मुख्यानामगरूणां […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.