16 Sarga अयोध्याकाण्डम्

श्रीमद्वाल्मीकीयरामायणम् अयोध्याकाण्डे षोडश: सर्ग: स तदन्त:पुरद्वारं समतीत्य जनाकुलम् । प्रविविक्तां तत: कक्ष्यामाससाद पुराणवित् ।। 2.16.1 ।। प्रासकार्मुकबिभ्रद्भिर्युवभिर्मृष्टकुण्डलै: । अप्रमादिभिरेकाग्रै: स्वनुरक्तैरधिष्ठिताम् ।। 2.16.2 ।। एवं सुमन्त्रस्य रामोपस्थानमुक्त्वा रामस्य दशरथोपस्थानमाह षोडशे–स तदित्यादि ।। 2.16.12 ।। तत्र काषायिणो वृद्धान् वेत्रपाणीन् स्वलंकृतान् । ददर्श विष्ठितान् द्वारि स्त्र्यध्यक्षान् सुसमाहितान् ।। 2.16.3 ।। ते समीक्ष्य समायान्तं रामप्रियचिकीर्षव: । सह सोत्पतिता: सर्वे […]

15 Sarga अयोध्याकाण्डम्

श्रीमद्वाल्मीकीयरामायणम् अयोध्याकाण्डे पञ्चदश: सर्ग: ते तु तां रजनीमुष्य ब्राह्मणा वेदपारगा: । उपतस्थुरुपस्थानं सह राजपुरोहिता: ।। 2.15.1 ।। अथ रामाभिषेकसामग्रीसन्निधानमाह पञ्चदशे–ते त्विति । उष्य उषित्वा । उपस्थानं सद: ।। 2.15.1 ।। अमात्या बलमुख्याश्च मुख्या ये निगमस्य च । राघवस्याभिषेकार्थे प्रीयमाणास्तु सङ्गता: ।। 2.15.2 ।। निगमस्य पुरस्य “निगमो निश्चये वेदे पुरे पथिवणिक्पथे” इति वैजयन्ती ।। 2.15.2 ।। […]

14 Sarga अयोध्याकाण्डम्

श्रीमद्वाल्मीकीयरामायणम् अयोध्याकाण्डे चतुर्दश: सर्ग: पुत्रशोकार्दितं पापा विसंज्ञं पतितं भुवि । विवेष्टमानमुद्वीक्ष्य सैक्ष्वाकमिदमब्रवीत् ।। 2.14.1 ।। अथ रामविवासननिर्द्धारणं दर्शयति चतुर्दशे–पुत्रेत्यादि ।। 2.14.1 ।। पापं कृत्वैव किमिदं मम संश्रुत्य संश्रवम् । शेषे क्षितितले सन्न: स्थित्यां स्थातुं त्वमर्हसि ।। 2.14.2 ।। पापमिति । संश्रवं दास्यामीति प्रतिज्ञाम् । संश्रुत्य कृत्वेत्यर्थ: । पाकं पचतीतिवन्निर्देश: । पापं प्रतिज्ञाताकरणरूपं पापं कृत्वैव क्षितितले […]

13 Sarga अयोध्याकाण्डम्

श्रीमद्वाल्मीकीयरामायणम् अयोध्याकाण्डे त्रयोदश: सर्ग: अतदर्हं महाराजं शयानमतथोचितम् । ययातिमिव पुण्यान्ते देवलोकात्परिच्युतम् ।। 2.13.1 ।। अनर्थरूपा सिद्धार्थाह्यभीता भयदर्शिनी । पुनराकारयामास तमेव वरमङ्गना ।। 2.13.2 ।। ‘न ते करिष्यामि वच:’ इत्युक्त्वापि धर्मपाशबद्धतया पश्चात्तप्त: पुनस्तां सान्त्वयति त्रयोदशेअतदर्हमित्यादि श्लोकद्वयमेकान्वयम् । अतदर्हं तादृश दु:खानर्हम् । अतथोचितम् अध:शयनानुचितम् । अनर्थरूपा पापरूपा । असिद्धार्था अनिष्पन्नप्रयोजनो । अभीता लोकापवादभीतिरहिता । भयदर्शिनी । दशरथस्येति […]

12 Sarga अयोध्याकाण्डम्

श्रीमद्वाल्मीकीयरामायणम् अयोध्याकाण्डे द्वादश: सर्ग: तत: श्रुत्वा महाराज: कैकेय्या दारुणं वच: । चिन्तामभिसमापेदे मुहूर्त्तं प्रतताप च ।। 2.12.1 ।। अथ सत्यपाशबद्धस्य राज्ञ: शोकं वर्णयति–तत इति । प्रतताप मुमूर्च्छेति यावत् ।। 2.12.1 ।। किं नु मे यदि वा स्वप्नश्चित्तमोहो ऽपि वा मम । अनुभूतोपसर्गो वा मनसो वाप्युपद्रव: । इति सञ्चिन्त्य तद्राजा नाभ्यगच्छत्तदा सुखम् ।। 2.12.2 ।। चिन्तां […]

11 Sarga अयोध्याकाण्डम्

श्रीमद्वाल्मीकीयरामायणम् अयोध्याकाण्डे एकादश: सर्ग: तं मन्मथशरैर्विद्धं कामवेगवशानुगम् । उवाच पृथिवीपालं कैकेयी दारुणं वच: ।। 2.11.1 ।। अथ ‘व्यवस्थाप्य महाराजं त्वमिमं वृणुया वरम्’ इति मन्थरयोपदिष्टमनुतिष्ठति–तमित्यादिना ।। 2.11.1 ।। नास्मि विप्रकृता देव केन चिन्नावमानिता । अभिप्रायस्तु मे कश्चित्तमिच्छामि त्वया कृतम् ।। 2.11.2 ।। नास्मीति । विप्रकृता रोगग्रस्ता । नार्थकामा ऽस्मीत्यपि द्रष्टव्यम् । निग्रहानुग्रहपक्षं मनसि कृत्वाह–अभिप्राय: अभिप्रेतोर्थ:, अस्तीति […]

10 Sarga अयोध्याकाण्डम्

श्रीमद्वाल्मीकीयरामायणम् अयोध्याकाण्डे दशम: सर्ग: विदर्शिता यदा देवी कुब्जया पापया भृशम् । तदा शेते स्म सा भूमौ दिग्धविद्धेव किन्नरी ।। 2.10.1 ।। अथ पूर्वोक्तं कैकेयीक्रोधमविचाल्यत्वसूचनायानुवदन् राज्ञ: कैकेयीदर्शनानुनयौ दर्शयति–विदर्शितेति । विदर्शिता विपरीतं बोधिता । दिग्धविद्धा विषलिप्तबाणेन प्रहृता । “विषक्ते दिग्धलिप्तकौ” इत्यमर: ।। 2.10.1 ।। निश्चित्य मनसा कृत्यं सा सम्यगिति भामिनी । मन्थरायै शनै: सर्वमाचचक्षे विचक्षणा ।। 2.10.2 […]

09 Sarga अयोध्याकाण्डम्

श्रीमद्वाल्मीकीयरामायणम् अयोध्याकाण्डे नवमः सर्गः । मन्थरादुर्बोध्नेन विकृतहृदया कैकेयी रामनिर्वासनपूर्वकं भरताभिषेचनं प्रतिज्ञाय मन्थरां प्रत्येव तत्सिद्ध्युपायं पप्रच्छ । मन्थरा दैवासुरसङ्ग्राममुपन्यस्य तत्समये दशरथात्सम्पादितवरयो रामप्रवासनभरताभिषेचनसंसिद्धिं प्रदर्श्य तद्वरणे कैकेयीं चोदयामास । कैकेय्यपि मन्थरामभि -प्रशस्याभरणान्युन्मुच्य क्रोधागारक्षितिमधिशिश्ये । एवमुक्था तु कैकेयी क्रोधेन ज्वलितानना। दीर्घमुष्णं विनिःश्वस्य मन्थरामिदमब्रवीत्॥2.9.1॥ अद्य राममितः क्षिप्रं वनं प्रस्थापयाम्यहम्। यौवराज्येन भरतं क्षिप्रमद्याभिषेचये॥2.9.2॥ अथ रामगुणज्ञापि कैकेयी कार्यपरैर्देवैः क्षुब्धहृदया सती मन्थरावचनमनुमोदितवतीत्याह—एवमित्यादि । […]

08 Sarga अयोध्याकाण्डम्

श्रीमद्वाल्मीकीयरामायणम् अयोध्याकाण्डे अष्टमः सर्गः ।     रामस्य यौवराज्यं भरतानर्थहेतुरिति प्रतिपादयन्तीं मन्थरां कैकेयी रामगुणान् प्रशशंस तदभिषेकस्यैव च स्वाभीष्टत्वं समर्थयाम्बभूव । पुनश्च मन्थरा बहून्हेतूनुपन्यस्य रामाभिषेकस्यानर्थहेतुत्वप्रतिपादनेन तद्विघाते कैकेयीं प्रैरयत् । मन्थरात्वभ्यसूय्यैनामुत्सृज्याभरणं हि तत्। उवाचेदं ततो वाक्यं कोपदुःखसमन्विता॥2.8.1॥ अथ कुमतिजनसंसर्गवशेन महतामपि कदाचिच्चित्तचलनं स्यादित्यमुमर्थं द्योतयन्नाह—मन्थरेत्यादि । अभ्यसूय असूयां कृत्वा एनां प्रतीति शेषः । कोपदुःखसमन्विताहितं न शृणोतीति कोपः आगमिष्यत्यनर्थं इति दुःखम्॥1॥ […]

07 Sarga अयोध्याकाण्डम्

श्रीमद्वाल्मीकीयरामायणम् अयोध्याकाण्डे सप्तमः सर्गः । यदृच्छतः प्रासादोपरिभुवमारूढा मन्थरा नाम्नि कैकेय्याः कुब्जा ज्ञातिदासी तमुत्सवं ब्रह्मणेभ्यो बहुधनं वितरन्न्तीं कौसल्यां च प्रेक्ष्य किंनिमित्तकोयमारम्भ इति रामधात्री पप्रच्छ तया संज्ञापिता च रामाभिषेकमसहमाना कैकेयीमेत्य दशरथं विनिन्द्याभिषेकं विहन्तुं कैकेयीं प्रेरयत्तथापि रामाभिषेक एव स्वाभीष्ट इति मोदमाना कैकेयी तन्निवेदनपारितोषिकतया किञ्चिदाभरणं कुब्जायै ददौ। ज्ञातिदासी यतो जाता कैकय्या तु सहोषिता। प्रासादं चन्द्रसङ्काश्मरुरोह यदृच्छया ॥2.7.1॥ अथ रावणवधकाङ्क्षिभिर्देवैराविष्टमन्थरावाक्याद्रामाभिषेकविघ्नः […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.