33 Sarga बालकाण्डः
श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः त्रयस्त्रिंशःसर्गः तस्य तद्वचनं श्रुत्वा कुशनाभस्य धीमतः । शिरोमिश्चरणौ स्पृष्ट्वा कन्याशतमभाषत ।। 1.33.1 ।। अथ कुशनाभस्य कन्यावचनं शृण्वतः क्षमाविशेष उच्यते त्रयस्त्रिंशे तस्येत्यादि । शिरोभिश्चरणौ स्पृष्ट्वा, पादयोः प्रणम्येत्यर्थः ।। 1.33.1 ।। वायुः सर्वात्मको राजन् प्रधर्षयितुमिच्छति । अशुभं मार्गमास्थाय न धर्मं प्रत्यवेक्षते ।। 1.33.2 ।। वायुरिति । प्रधर्षयितुम् अभिभवितुम् इच्छति । वर्तमानसामीप्याल्लट् । अशुभं बलात्काररूपम् ।। 1.33.2 […]
32 Sarga बालकाण्डः
श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः द्वात्रिंशः सर्गः ब्रह्मयोनिर्महानासीत् कुशो नाम महातपाः । अक्लिष्टव्रतधर्मज्ञः सज्जनप्रतिपूजकः ।। 1.32.1 ।। एवं शोणकूलदेशवैभवे पृष्टे अयं मद्वंश्यानां देश इति विवक्षन् स्वान्वयं प्रदर्शयति द्वात्रिंशे ब्रह्मयोनिरित्यादि । ब्रह्मा योनिः कारणं यस्य सः ब्रह्मयोनिः अयोनिजो ब्रह्मपुत्रः । महान् ज्ञानशौर्यादिभिरितरब्रह्मपुत्रविलक्षणः । कौ भूमौ शेत इति कुशः । नारदादिवत् ब्रह्मलोके ऽनवस्थाय प्रजापालने दत्तादरतया भूमाववस्थानात् कुश इत्यस्य नाम, अत एव […]
31 Sarga बालकाण्डः
श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः एकत्रिंशः सर्गः अथ तां रजनीं तत्र कृतार्थौ रामलक्ष्मणौ । ऊषतुर्मुदितौ वीरौ प्रहृष्टेनान्तरात्मना ।। 1.31.1 ।। एवं कृतार्थो विश्वामित्रो जनकसुतात्वेनावतीर्णया श्रिया रामं योजयितुं व्याजेन मिथिलाप्रस्थानं प्रस्तौत्येकत्रिंशे अथेत्यादि । कृतार्थौ कृतविश्वामित्रप्रयोजनौ । प्रहृष्टेन सन्तुष्टेन अन्तरात्मना अन्तःकरणेन उपलक्षितौ ।। 1.31.1 ।। प्रभातायां तु शर्वर्यां कृतपौर्वाह्णिकक्रियौ । विश्वामित्रं मुनींश्चान्यान् सहितावभिजग्मतुः ।। 1.31.2 ।। प्रभातायामिति । सहितौ अविनाभूतौ ।। […]
30 Sarga बालकाण्डः
श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः त्रिंशः सर्गः अथ तौ देशकालज्ञौ राजपुत्रावरिन्दमौ । देशे काले च वाक्यज्ञावब्रूतां कौशिकं वचः ।। 1.30.1 ।। सुबाहुमारीचप्रभृतिदुष्टनिग्रहस्त्रिंशे अथ तावित्यादि । देशकालज्ञाविति हेतुगर्भम् । देशकालज्ञत्वादुचिते देशे उचिते काले चाब्रूताम् ।। 1.30.1 ।। भगवन् श्रोतुमिच्छावो यस्मिन् काले निशाचरौ । संरक्षणीयौ तौ ब्रह्मन्नातिवर्तेत तत्क्षणम् ।। 1.30.2 ।। भगवन्निति । संरक्षणीयौ निवारणीयौ । धातूनामनेकार्थत्वात् विपरीतलक्षणा वा । यद्वा इष्टप्राप्तिरनिष्टनिवृत्तिश्च […]
29 Sarga बालकाण्डः
श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः एकोनत्रिंशः सर्गः अथ तस्याप्रमेयस्य तद्वनं परिपृच्छतः । विश्वामित्रो महातेजा व्याख्यातुमुपचक्रमे ।। 1.29.1 ।। अथ सिद्धाश्रमस्य नित्यं भगवत्सन्निधिमत्त्वेन दिव्यदेशत्वं तत्सन्निधाने पूर्वेषां सिद्धतपस्कत्वं भगवद्देशस्यैव वस्तव्यत्वमित्येतत्प्रतिपादनमुखेन स्थाण्वाश्रमाद्वैलक्षण्यं दर्शयत्येकोनत्रिंशे अथेत्यादि । अप्रमेयस्य अचिन्त्यवैभवस्य, मानुषभावनया पूर्ववृत्तमज्ञातमिव पृच्छत इत्यर्थः । चतुर्थ्यर्थे षष्ठी ।। 1.29.1 ।। इह राम महाबाहो विष्णुर्देववरः प्रभुः । वर्षाणि सुबहून्येव तथा युगशतानि च । तपश्चरणयोगार्थमुवास सुमहातपाः ।। 1.29.2 […]
28 Sarga बालकाण्डः
श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः अष्टाविंशः सर्गः प्रतिगृह्य ततो ऽस्त्राणि प्रहृष्टवदनः शुचिः । गच्छन्नेव च काकुत्स्थो विश्वामित्रमथाब्रवीत् ।। 1.28.1 ।। अस्त्रसंहारकप्रतिग्रहो ऽष्टाविंशे प्रतिगृह्येत्यादि । गच्छन् गमिष्यन् । “वर्तमानसामीप्ये वर्तमानवद्वा” इति लट् ।। 1.28.1 ।। गृहीतास्त्रो ऽस्मि भगवन् दुराधर्षः सुरासुरैः । अस्त्राणां त्वहमिच्छामि संहारं मुनिपुङ्गव ।। 1.28.2 ।। गृहीतेति । संहारम् अवगतप्रयोगानामस्त्राणां पुनरुपसंहारम्, तत्तदस्त्रमूलमन्त्रवर्तितत्तदस्त्रोपसंहारमन्त्रजातमित्यर्थः । जात्येकवचनम् ।। 1.28.2 ।। एवं ब्रुवति […]
27 Sarga बालकाण्डः
श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः सप्तविंशः सर्गः अथ तां रजनीमुष्य विश्वामित्रो महायशाः । प्रहस्य राघवं वाक्यमुवाच मधुराक्षरम् ।। 1.27.1 ।। अस्त्रगणलाभः सप्तविंशे अथेत्यादि । उष्य उषित्वा । प्रहस्य प्रहर्षेण मन्दहासं कृत्वा ।। 1.27.1 ।। परितुष्टो ऽस्मि भद्रं ते राजपुत्र महायशः । प्रीत्या परमया शुक्तो ददाम्यस्त्राणि सर्वशः ।। 1.27.2 ।। परीति । महायश इति सम्बुद्धित्वान्न दीर्घः । प्रीत्या परमया युक्त इति […]
26 Sarga बालकाण्डः
श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः षड्विंशः सर्गः मुनेर्वचनमक्लीबं श्रुत्वा नरवरात्मजः । राघवः प्राञ्जलिर्भूत्वा प्रत्युवाच दृढव्रतः ।। 1.26.1 ।। अथ ताटकावधः षड्विंशे मुनेरित्यादि । अक्लीबं धृष्टम् ।। 1.26.1 ।। पितुर्वचननिर्देशात्पितुर्वचनगौरवात् । वचनं कौशिकस्येति कर्तव्यमविशङ्कया ।। 1.26.2 ।। पितुरिति । पितुर्वचननिर्देशात् नियोगात्, कौशिकवचनं त्वया कर्तव्यमित्येवंरूपात् पितृवचनगौरवात् । बहुमानाच्च । इति उक्तप्रकारं कौशिकस्य वचनं कर्तव्यमिति मानसव्यापारः ।। 1.26.2 ।। अनुशिष्टो ऽस्म्ययोध्यायां गुरुमध्ये महात्मना […]
25 Sarga बालकाण्डः
श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः पञ्चविशः सर्गः अथ तस्याप्रमेयस्य मुनेर्वचनमुत्तमम् । श्रुत्वा पुरुषशार्दूलः प्रत्युवाच शुभां गिरम् ।। 1.25.1 ।। स्त्रिया अपि सर्वलोकविनाशिन्या वधे न दोष इत्याह पञ्चविंशे अथेत्यादि । अप्रमेयस्य अप्रमेयप्रभावस्य ।। 1.25.1 ।। अल्पवीर्या यदा यक्षाः श्रूयन्ते मुनिपुङ्गव । कथं नागसहस्रस्य धारयत्यबला बलम् ।। 1.25.2 ।। अल्पेति । यदा यस्मात्, यदायत्रादयो हेतावपि मुनिभिः प्रयुज्यन्ते । यस्माच्छ्रूयन्ते तस्मात् अबला स्त्री […]
24 Sarga बालकाण्डः
श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः चतुर्विंशः सर्गः ततः प्रभाते विमले कृत्वाह्निकमरिन्दमौ । विश्वामित्रं पुरस्कृत्य नद्यास्तीरमुपागतौ ।। 1.24.1 ।। एवं कामाश्रमपदं रामचरणनलिनविन्यासेन कृतार्थीकृत्य ताटकावनमपि निष्कल्मषीकर्तुं रामं प्रापयति मुनिश्चतुर्विंशे तत इत्यादि । विमले सूर्योदय इत्यर्थः । नद्याः गङ्गायाः ।। 1.24.1 ।। ते च सर्वे महात्मानो मुनयः संशितव्रताः । उपस्थाप्य शुभां नावं विश्वामित्रमथाब्रुवन् ।। 1.24.2 ।। ते चेति । उपस्थाप्य आनाय्य ।। 1.24.2 […]