23 Sarga बालकाण्डः
श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः त्रयोविंशः सर्गः प्रभातायां तु शर्वर्यां विश्वामित्रो महामुनिः । अभ्यभाषत काकुत्स्थौ शयानौ पर्णसंस्तरे ।। 1.23.1 ।। अथैषामङ्गदेशप्राप्तिं पूर्ववृत्तकथनव्याजेन व्यञ्जयति त्रयोविंशे प्रभातायामित्यादि । पर्णसंस्तरे पर्णमयास्तरणे । पूर्वसर्गान्ते तृणशयनस्योक्तत्वादत्र तृणमिश्रपर्णशयने इति बोध्यम् ।। 1.23.1 ।। कौसल्या सुप्रजा राम पूर्वा सन्ध्या प्रवर्तते । उत्तिष्ठ नरशार्दूल कर्त्तव्यं दैवमाह्निकम् ।। 1.23.2 ।। उभयप्रबोधनार्थमागतो विश्वामित्रो रामस्य “स मया बोधितः श्रीमान् सुखसुप्तः परन्तपः” […]
22 Sarga बालकाण्डः
श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः द्वाविंशः सर्गः तथा वसिष्ठे ब्रुवति राजा दशरथः सुतम् । प्रहृष्टवदनो राममाजुहाव सलक्ष्मणम् ।। 1.22.1 ।। अथ प्रसन्नहृदयेन राज्ञा रामविसर्जनं द्वाविंशे तथेत्यादि । सलक्ष्मणं राममिति तयोरविनाभावज्ञानादिति भावः ।। 1.22.1 ।। कृतस्वस्त्ययनं मात्रा पित्रा दशरथेन च । पुरोधसा वसिष्ठेन मङ्गलैरभिमन्त्रितम् ।। 1.22.2 ।। स पुत्रं मूर्ध्न्युपाघ्राय राजा दशरथः प्रियम् । ददौ कुशिकपुत्राय सुप्रीतेनान्तरात्मना ।। 1.22.3 ।। कृतेत्यादि […]
21 Sarga बालकाण्डः
श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः एकविंशः सर्गः तच्छ्रुत्वा वचनं तस्य स्नेहपर्याकुलाक्षरम् । समन्युः कौशिको वाक्यं प्रत्युवाच महीपतिम् ।। 1.21.1 ।। एवं रामप्रेषणवृत्तान्तव्याकुलं राजानं वसिष्ठः प्रतिबोधयति एकविंशे तच्छ्रुत्वेति । स्नेहेन पुत्रस्नेहेन पर्याकुलानि स्खलन्ति अक्षराणि यस्मिन् ।। 1.21.1 ।। पूर्वमर्थं प्रतिश्रुत्य प्रतिज्ञां हातुमिच्छसि । राघवाणामयुक्तो ऽयं कुलस्यास्य विपर्ययः ।। 1.21.2 ।। पूर्वमिति । अर्थं प्रार्थितार्थम् । अयं विपर्ययः प्रतिज्ञाहानिः, राघवाणामस्य कुलस्यायुक्तः […]
19 Sarga बालकाण्डः
श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः एकोनविंशः सर्गः तच्छ्रुत्वा राजसिंहस्य वाक्यमद्भुतविस्तरम् । हृष्टरोमा महातेजा विश्वामित्रो ऽभ्यभाषत ।। 1.19.1 ।। अथ विश्वामित्राभ्यर्थनमेकोनविंशे तच्छ्रुत्वेत्यादि । अद्भुतस्य विस्तरो यस्मिन् तदद्भुतविस्तरम् । हृष्टरोमा पुलकितरोमा ।। 1.19.1 ।। सदृशं राजशार्दूल तवैतद्भुवि नान्यथा । महाकुलप्रसूतस्य वसिष्ठव्यपदेशिनः ।। 1.19.2 ।। सदृशमिति । नान्यथा न मिथ्योच्यत इत्यर्थः । वसिष्ठेन व्यपदेशः कीर्तिः उपदेशो वा । तृतीयेति योगविभागात् समासः । सो […]
20 Sarga बालकाण्डः
श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः विंशः सर्गः तच्छ्रुत्वा राजशार्दूलो विश्वामित्रस्य भाषितम् । मुहूर्तमिव निःसञ्ज्ञः सञ्ज्ञावानिदमब्रवीत् ।। 1.20.1 ।। कौशिकवचनश्रवणाद्दशरथविषादो विंशे तच्छ्रुत्वेत्यादि । निःसंज्ञ इव चेतनारहित इव, मूर्च्छित इत्यर्थः ।। 1.20.1 ।। ऊनषोडशवर्षो मे रामो राजीवलोचनः । न युद्धयोग्यतामस्य पश्यामि सह राक्षसैः ।। 1.20.2 ।। “यज्ञे विघ्नकरं हन्याम्” इत्युक्तरीत्या निजयज्ञविघ्ननिवर्तको ऽयं भविष्यतीति मत्वा आगत्य प्रार्थयमाने विश्वामित्रे वत्सलो दशरथः प्रेमान्धतया कलुषितहृदयः अहं […]
18 Sarga बालकाण्डः
श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः अष्टादशः सर्गः ।। श्रीरामावतारघट्टः ।। श्लोकसहितव्याख्यानम् (18सर्गतः 77सर्गपर्यन्तम्) निर्वृत्ते तु क्रतौ तस्मिन् हयमेधे महात्मनः । प्रतिगृह्य सुरा भागान् प्रतिजग्मुर्यथागतम् ।। 1.18.1 ।। “कोसलो नाम मुदितः स्फीतो जनपदो महान्” इत्यारभ्य भगवतो ऽवतारनिमित्तान्युक्तानि । अथावतारं दर्शयत्यष्टादशे निर्वृत्ते त्वित्यादि । अत्र ‘पुत्रोत्पत्तिं विचिन्तयन्’ इत्येवमन्तो ग्रन्थः ‘हुताशनादित्यसमानतेजसो ऽचिरेण गर्भान् प्रतिपेदिरे तदा’ इत्येतच्छेषो ऽनूद्यते । निर्वृत्ते समाप्ते हयमेधे, पुत्रेष्टिसहित इति […]
17 Sarga बालकाण्डः
श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः सप्तदशः सर्गः पुत्रत्वं तु गते विष्णौ राज्ञस्तस्य महात्मनः । उवाच देवताः सर्वाः स्वयम्भूर्भगवानिदम् ।। 1.17.1 ।। विष्णोरन्तर्द्धानानन्तरं कार्यद्वयं प्रवृत्तम्, पायसहस्तस्याग्निपुरुषस्योत्थानं देवान् प्रति ब्रह्मनियोगश्च । तत्र वाचः क्रमवर्तित्वेन प्रथमोपस्थितमग्नि पुरुषोत्थानं तत्प्रसक्तं च सर्वमुक्त्वा अथ ब्रह्मनियोगतत्फले दर्शयति सप्तदशे पुत्रत्वमित्यादि । गते गन्तुं प्रवृत्ते । भगवान् भाविकार्यज्ञः ।। 1.17.1 ।। सत्यसन्धस्य वीरस्य सवेषां नो हितैषिणः । विष्णोः सहायान् […]
16 Sarga बालकाण्डः
श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः षोडशः सर्गः ततो नारायणो विष्णुर्नियुक्तः सुरसत्तमैः । जानन्नपि सुरानेवं श्लक्ष्णं वचनमबव्रीत् ।। 1.16.1 ।। एवं मनुष्यलोके दशरथपुत्रत्वेनावतीर्य रावणवधः कर्तव्य इत्युक्तम्, तत्र किं मया उपेन्द्रादिवत् स्वस्वरूपेण स्थातव्यम्, उत प्रकारान्तरेणेति भगवान् बहुमानार्थं पृच्छति तत इत्यादि । न रिष्यन्ति न नश्यन्तीति नराः, नित्यवस्तूनि । “अन्येभ्यो ऽपि दृश्यते” इति डप्रत्ययः । सुप्सुपेति नगनैकादिवत् समासः । नराणां समूहो नारम् । […]
15 Sarga बालकाण्डः
श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः पञ्चदशः सर्गः मेधावी तु ततो ध्यात्वा स किञ्चिदिदमुत्तरम् । लब्धसञ्ज्ञस्ततस्तं तु वेदज्ञो नृपमबव्रीत् ।। 1.15.1 ।। अथ दशरथाराधनव्याजेन साधुलोकरक्षणाय भूमाववतितीर्षुर्भगवानानुषङ्गिकदुष्कृद्विनाशाय देवैरभ्यर्थ्यते पञ्चदशे मेधावीत्यादि । ततः प्रतिज्ञानन्तरम् । मेधावी मेधा धारणक्षमा धीः, तद्वान् । “अस्मायामेधास्रजो विनिः” इति विनिप्रत्ययः । वेदज्ञः अथर्वणवेदज्ञः स ऋश्यशृङ्गः किञ्चिद् ध्यात्वा किं कर्म कर्तुमत्रोचितमिति क्षणं विचिन्त्य, मेधावितया ततः तदुत्तरक्षण एव लब्धसञ्ज्ञः प्राप्तस्मृतिः […]
13 Sarga बालकाण्डः
श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः त्रयोदशः सर्गः पुनः प्राप्ते वसन्ते तु पूर्णः संवत्सरो ऽभवत् । प्रसवार्थं गतो यष्टुं हयमेधेन वीर्यवान् ।। 1.13.1 ।। एवं प्रथमवसन्ते चैत्रपौर्णमास्यां साङ्ग्रहणेष्टिं विधायद्वितीये ऽह्नि ब्रह्मौदनमेध्याश्वबन्धनस्नापनप्रोक्षणविमोचनादिकम् “चत्वार ऋत्विजः समुक्षन्ति” इत्युक्तरीत्या कृत्वा “सावित्रमष्टाकपालं प्रातर्निर्वपति” इत्युक्तरीत्या प्रतिदिनं सावित्रादिषु कर्मस्वनुष्ठीयमानेषु संवत्सरे पूर्णे देवयजनं प्रति प्रस्थानं दर्शयति त्रयोदशे पुनः प्राप्त इत्यादि । पुनर्वसन्ते द्वितीयवसन्ते प्राप्ते संवत्सरः पूर्णो ऽभवत्, अमावास्या प्राप्तेत्यर्थः […]