14 Sarga बालकाण्डः
श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः चतुर्दशः सर्गः अथ संवत्सरे पूर्णे तस्मिन् प्राप्ते तुरङ्गमे । सरय्वाश्चोत्तरे तीरे राज्ञो यज्ञो ऽभ्यवर्तत ।। 1.14.1 ।। पूर्वसर्गान्ते शालाप्रवेशानन्तरमश्वमेधारम्भस्सङ्ग्रहेण दर्शितः । तदनुष्ठानं विस्तरेण दर्शयिष्यन् तस्याश्वागमनपूर्वकत्वात्तदनुवादपूर्वकं यज्ञानुष्ठानं दर्शयति चतुर्दशे अथेत्यादि । अथ अश्वविमोचनानन्तरम् । तुरङ्गमे प्राप्ते क्रमेण प्राप्ते । तस्मिन्संवत्सरे पूर्णे राज्ञो यज्ञः अभ्यवर्तत प्रावर्तत । अश्वागमनक्रमस्तु विमुक्तमश्वं स्वैरं चरन्तं राजपुत्रराजोग्रसूतग्रामणिक्षत्रसङ्ग्रहितारश्चतुःशताः परिपालयन्तो नावर्तयन्तो ऽनुचरन्ति । ब्रह्माध्वर्युहोत्रुद्गातारश्चत्वार […]
12 Sarga बालकाण्डः
श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः द्वादशः सर्गः ततः काले बहुतिथे कस्मिंश्चित्सुमनोहरे । वसन्ते समनुप्राप्ते राज्ञो यष्टुं मनो ऽभवत् ।। 1.12.1 ।। एवं दशरथः सर्वकामसमृद्धो ऽपि पुत्रालाभसन्तप्तस्तन्मूलानि पापानि स्वाधिकारानुरूपेणाश्वमेधेन विना न विनश्यन्तीति मन्वानः “सर्वं पाप्पानं तरति तरति ब्रह्महत्यां यो ऽश्वमेधेन यजते” इति श्रुत्या “राजसार्वभौमो ऽश्वमेधेन यजेत” इति स्मृत्या च विहितमश्वमेधं यष्टुं सङ्कल्प्य तदानीमुद्बुद्धसंस्कारेण सुमन्त्रेणोदीरितवचनाज्जामात्रुपलालनव्याजेन शान्तया सह ऋश्यशृङ्गमानीय प्राप्तकाले पूर्वं सङ्कल्पितमश्वमेधं कर्तुमारभतेत्याह […]
11 Sarga बालकाण्डः
श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः एकादशः सर्गः भूय एव च राजेन्द्र शृणु मे वचनं हितम् । यथा स देवप्रवरः कथायामेवमब्रवीत् ।। 1.11.1 ।। एवं दशरथप्रश्नस्योत्तरमुक्त्वा कथाशेषं सुमन्त्रः प्रस्तौति भूय इत्यादि । देवप्रवरः सनत्कुमारः, कथायां कथाप्रसङ्गे, एवं वक्ष्यमाणरीत्या यथा उक्तवान् तथा शृणु ।। 1.11.1 ।। इक्ष्वाकूणां कुले जातो भविष्यति सुधार्मिकः । राजा दशरथो नाम श्रीमान् सत्यप्रतिश्रवः ।। 1.11.2 ।। इक्ष्वाकूणामिति […]
10 Sarga बालकाण्डः
श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः दशमःसर्गः सुमन्त्रश्चोदितो राज्ञा प्रोवाचेदं वचस्तथा । यथर्श्यशृङ्गस्त्वानीतः शृणु मे मन्त्रिभिः स ह ।। 1.10.1 ।। सुमन्त्र इत्यादि । मे मत्तः, स ऋश्यशृङ्गः यथा मन्त्रिभिरानीतः तथा शृणु । हेति प्रसिद्धौ ।। 1.10.1 ।। रोमपादमुवाचेदं सहामात्यपुरोहितः । उपायो निरपायो ऽयमस्माभिरभिचिन्तितः ।। 1.10.2 ।। रोमेति । निरपायः अव्यभिचारिफलः ।। 1.10.2 ।। ऋश्यशृङ्गो वनचरस्तपःस्वाध्यायने रतः । अनभिज्ञः स नारीणां […]
09 Sarga बालकाण्डः
श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः नवमः सर्गः एतच्छ्रुत्वा रहः सूतो राजानमिदमब्रवीत् । ऋत्विग्भिरुपदिष्टो ऽयं पुरावृत्तो मया श्रुतः ।। 1.9.1 ।। अथ भगवदवतारासाधारणकारणं पुत्रेष्टिमुपक्षिपति सर्गत्रयेण एतच्छ्रुत्वेत्यादि । सूतः सारथित्वेन मन्त्रित्वेन च स्थितः सुमन्त्रः । रह एकान्ते इदमब्रवीत्, अन्तःपुरमागत्योक्तवानित्यर्थः । अयं अश्वमेधप्रवृत्तिरूपः पुत्रार्थोपायः । ऋत्विग्भिः वसिष्ठादिभिः उपदिष्टः, मया तु पुरावृत्तः इतिहासरूपः यः श्रुतः ।। 1.9.1 ।। सनत्कुमारो भगवान् पूर्वं कथितवान् कथाम् । […]
08 Sarga बालकाण्डः
श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः अष्टमः सर्गः तस्यापुत्रत्वादश्वमेधकरणे सुमन्त्रेण सह संवादः, तत्र सम्मिलितानाममात्यानां समीपेश्वमेधप्र्तश्नः, तत्करणे वसिष्ठादीनामनुमतिः, अश्वमोचनम् सरयूत्तरतारे यज्ञभूमिविधानम्, गृहागतराजानं दाराणां पुत्रप्राप्त्यर्थं दीक्षाविषयकः प्रश्नश्च। तस्य चैवं प्रभावस्य धर्मज्ञस्य महात्मनः। सुतार्थं तप्यमानस्य नासीद्वंशकरः सुतः॥1.8.1॥ एवं धार्मिकत्वेन दशरथस्य भगवदवतारयोग्यत्वमुक्त्वा अथ तदुपयुक्ततदाराधनोपक्रमं दर्शयत्यष्टमे –तस्येति । उत्तरश्लोकवक्ष्यमाणचिन्ता युक्तेति सूचयितुं राज्ञो विशेषणानि तप्यमानस्य तपश्चरतः यद्वा पुत्रोत्पादनानुगुणदृष्टसामग्रीसत्त्वेपि पुत्राभावात्परितप्यमानस्य॥1.8.1॥ चिन्तयानस्य तस्यैवं बुद्धिरासीन्महात्मनः। सुतार्थं वाजिमेधेन किमर्थं न […]
07 Sarga बालकाण्डः
श्रीमद्वाल्मीकीयरामायणम् बालकाण्डःसप्तमः सर्गः तस्यामात्या गुणैरासन्निक्ष्वाकोस्तु महात्मनः । मन्त्रज्ञाश्चेङ्गितज्ञाश्च नित्यं प्रियहिते रताः ।। 1.7.1 ।। अथोक्तगुणसम्पन्नस्य दशरथस्य धर्मानुष्ठानसहायसाधिष्ठसचिवसम्पत्तिं दर्शयति सप्तमे तस्येत्यादि । महात्मनः महामतेः तस्य इक्ष्वाकोः, दशरथस्य तद्वंशजत्वात्तच्छब्दः । मन्त्रज्ञाः कार्यविचारज्ञाः । इङ्गितं पराभिप्रायः तं मुखविकाससङ्कोचव्यङ्ग्यवचनादिभिर्जानन्तीति इङ्गितज्ञाः । अमात्याः अमा राज्ञः सर्वराज्यव्यापारेषु सह भवन्तीत्यमात्याः । “अव्ययात्त्यप्” । गुणैः वक्ष्यमाणमन्त्रिगुणैः उपेता आसन् ।। 1.7.1 ।। अष्टौ बभूवुर्वीरस्य तस्यामात्या […]
06 Sarga बालकाण्डः
श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः षष्ठः सर्गः तस्यां पुर्यामयोध्यायां वेदवित्सर्वसङ्ग्रहः । दीर्घदर्शी महातेजाः पौरजानपदप्रियः ।। 1.6.1 ।। एवं भगवदवतारयोग्यदेशो दर्शितः, अथ तद्योग्यं पुरुषं दर्शयति सर्गे षष्ठे तस्यामित्यादि श्लोकचतुष्टयमेकान्वयम् । दशरथः तस्यां वसन् सन् जगत् अपालयत् । स कीदृशः ? वेदं वेदार्थं वेत्तीति वेदवित्, सङ्गृह्णाति धनप्रदानादिना स्वीकरोतीति सङ्ग्रहः । पचाद्यच् । सर्वेषां शूराणां विदुषां च सङ्ग्रहः सर्वसङ्ग्रहः । दीर्घदर्शी दीर्घं चिरकालभाविपदार्थं […]
05 Sarga बालकाण्डः
श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः पञ्चमः सर्गः सर्वापूर्वमियं येषामासीत्कृत्स्ना वसुन्धरा । प्रजापतिमुपादाय नृपाणां जयशालिनाम् ।। 1.5.1 ।। अथ परमकारुणिको भगवान् वाल्मीकिः रामायणाख्यं काव्यमारभमाणः प्रारिप्सितप्रबन्धस्य निर्विघ्नपरिसमाप्त्यर्थं प्रचयगमनार्थं च “आशीर्नमस्क्रिया वस्तुनिर्देशो वापि तन्मुखम्” इत्युक्तरीत्या काव्यमुखत्वेनादौ कर्तव्यं वस्तुनिर्देशं कुर्वन् अर्थाद्विषयप्रयोजने च दर्शयन् कर्तव्यं प्रतिजानानः सत्परिग्रहमर्थयते सर्वापूर्वमित्यादिश्लोकचतुष्टयेन । सर्वेति । कृत्स्ना सप्तद्वीपात्मिका इयं वसुन्धरा भूमिः । जयेन शालन्ते भासन्त इति जयशालिनः तेषाम् । […]
04 Sarga बालकाण्डः
श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः चतुर्य: सर्गः प्राप्तराज्यस्य रामस्य वाल्मीकिर्भगवानृषिः । चकार चरितं कृत्स्नं विचित्रपदमात्मवान् ।। 1.4.1 ।। पूर्वस्मिन् सर्गे प्रतिपाद्यवैलक्षण्यमुक्तम्, सम्प्रति प्रबन्धवैलक्षण्यं कथ्यते । प्रबन्धस्य वैलक्षण्यं नाम परमाप्तप्रणीतत्वं पुण्यश्लोकविषयत्वं महाजनपरिगृहीतत्वं प्रबन्धनायकश्लाघितत्वमित्यादि । परमाप्तप्रणीतत्वं पुण्यश्लोकविषयत्वं चानेनोच्यते । प्राप्तराज्यस्य स्वीकृतराजभावस्य । पुरोहितादित्वाद्यक्प्रत्ययः । लोकरक्षणाय रघुकुले ऽवतीर्णस्येत्यर्थः । रामस्य सकलगुणाभिरामस्य, अनेन प्रतिपाद्यमहिम्ना काव्यस्य आदरणीयतातिशय उक्तः । तदुक्तं भामहेन “उपश्लोक्यस्य माहात्म्यादुज्ज्वलाः काव्यसम्पदः” इति […]