47 Sarga बालकाण्डः

श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः सप्तचत्वारिंशः सर्गः सप्तधा तु कृते गर्भे दितिः परमदुःखिता । सहस्राक्षं दुराधर्षं वाक्यं सानुनयाब्रवीत् ।। 1.47.1 ।। सप्तधेत्यादि । दुराधर्षं दुर्जयम् ।। 1.47.1 ।। ममापराधाद् गर्भो ऽयं सप्तधा विफलीकृतः । नापराधो ऽस्ति देवेश तवात्र बलसूदन ।। 1.47.2 ।। ममेति । अपराधात् प्रमादात् । विफलीकृतः शकलीकृतः ।। 1.47.2 ।। प्रियं तु कर्तुमिच्छामि मम गर्भविपर्यये । मरुतां […]

46 Sarga बालकाण्डः

श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः षट्चत्वारिंशः सर्गः हतेषु तेषु पुत्रेषु दितिः परमदुःखिता । मारीचं काश्यपं राम भर्त्तारमिदमब्रवीत् ।। 1.46.1 ।। विष्णुपक्षविरोधे महानपि यत्नो विफलः स्यादित्याह षट्चत्वारिंशे–हतेष्वित्यादि । मारीचं मरीचिपुत्रम् ।। 1.46.1 ।। हतपुत्रास्मि भगवंस्तव पुत्रैर्महाबलैः । शक्रहन्तारमिच्छामि पुत्रं दीर्घतपोर्जितम् ।। 1.46.2 ।। हतेति । तपोर्जितं तपसा ऊर्जितं दृढम् । आर्षः सन्धिः ।। 1.46.2 ।। साहं तपश्चरिष्यामि गर्भं मे दातुमर्हसि […]

45 Sarga बालकाण्डः

श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः पञ्चचत्वारिंशः सर्गः विश्वामित्रवचः श्रुत्वा राघवः सहलक्ष्मणः । विस्मयं परमं गत्वा विश्वामित्रमथाब्रवीत् ।। 1.45.1 ।। एवं दशभिः सर्गैर्गङ्गागाङ्गेयसम्भ्ाववर्णनव्याजेन धातुमोक्षणगङ्गापूतत्वनिमित्तकं देवतान्तरावरत्वं दर्शितम् । अथ त्रिभिः सर्गैः महेन्द्रस्यावरत्वमुपपाद्यते–विश्वामित्रेत्यादि ।। 1.45.1 ।। अत्यद्भुतमिदं ब्रह्मन् कथितं परमं त्वया । गङ्गावतरणं पुण्यं सागरस्यापि पूरणम् ।। 1.45.2 ।। अत्यद्भुतमिति । पूरणं खननेनाभिवर्द्धनम् ।। 1.45.2 ।। क्षणभूतेव नौ रात्रिः संवृत्तेयं महातपः । […]

44 Sarga बालकाण्डः

श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः चतुश्चत्वारिंशः सर्गः स गत्वा सागरं राजा गङ्गयानुगतस्तदा । प्रविवेश तलं भूमेर्यत्र ते भस्मसात्कृताः ।। 1.44.1 ।। पूर्वसर्गान्ते सङ्ग्रहेणोक्तं विस्तृणीते चतुश्चत्वारिंशे–स गत्वेत्यादि । भूमेस्तलं पातालम् । भस्मसात्कृताः सर्वात्मना भस्मस्वभावापत्तये सम्पादिताः । “विभाषासाति कार्त्स्न्ये” इतिसातिः ।। 1.44.1 ।। भस्मन्यथाप्लुते राम गङ्गायाः सलिलेन वै । सर्वलोकप्रभुर्ब्रह्मा राजानमिदमब्रवीत् ।। 1.44.2 ।। भस्मनीति । स्पष्टम् ।। 1.44.2 ।। तारिता […]

43 Sarga बालकाण्डः

श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः त्रिचत्वारिंशः सर्गः देवदेवे गते तस्मिन् सो ऽङ्गुष्ठाग्रनिपीडिताम् । कृत्वा वसुमतीं राम संवत्सरमुपासत ।। 1.43.1 ।। अथ गङ्गाप्लवनेन सागराणां स्वर्गगतिस्त्रिचत्वारिंशे–देवदेव इत्यादि । उपासत उपास्त । शिवमिति शेषः ।। 1.43.1 ।। अथ संवत्सरे पूर्णे सर्वलोकनमस्कृतः । उमापतिः पशुपती राजानमिदमब्रवीत् ।। 1.43.2 ।। अथेति । उमापतिरित्यनेनोमया सहागत इत्युच्यते ।। 1.43.2 ।। प्रीतस्ते ऽहं नरश्रेष्ठ करिष्यामि तव प्रियम् […]

42 Sarga बालकाण्डः

श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः द्विचत्वारिंशः सर्गः कालधर्मं गते राम सगरे प्रकृतीजनाः । राजानं रोचयामासुरंशुमन्तं सुधार्मिकम् ।। 1.42.1 ।। अथ गङ्गायास्त्रिपथगमनहेतुप्रश्नस्य पूर्वप्रकृतस्य साक्षादुत्तरमाह–कालधर्ममित्यादि ।जातमात्रस्य कालेनावश्यं प्राप्तव्यो धर्मः कालधर्मः, मरणमिति यावत् । प्रकृतीजना इत्यत्र दीर्घश्छान्दसः । अमात्यवर्गाः । “प्रकृतिः सहजे योनावमात्ये परमात्मनि” इति वैजयन्ती । रोचयामासुः न्यायप्राप्तत्वादैच्छन् ।। 1.42.1 ।। स राजा सुमहानसीदंशुमान् रघुनन्दन । तस्य पुत्रो महानासीद्दिलीप इति विश्रुतः […]

41 Sarga बालकाण्डः

श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः एकचत्वारिंशः सर्गः पुत्रांश्चिरगतान् ज्ञात्वा सगरो रघुनन्दन । नप्तारमब्रवीद्राजा दीप्यमानं स्वतेजसा ।। 1.41.1 ।। पुत्रानिति । नप्तारं पौत्रम् ।। 1.41.1 ।। शूरश्च कृतविद्यश्च पूर्वैस्तुल्यो ऽसि तेजसा । पितृ़णां गतिमन्विच्छ येन चाश्वो ऽपवाहितः ।। 1.41.2 ।। शूर इति । पूर्वैः पितृभिः । पितृ़णां कनिष्ठपितृ़णाम् । गतिं मार्गम् । अन्विच्छ अन्वेषय । अश्वो येनापवाहितस्तस्य च गतिमन्विच्छ ।। […]

40 Sarga बालकाण्डः

श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः चत्वारिंशः सर्गः देवतानां वचः श्रुत्वा भगवान् वै पितामहः । प्रत्युवाच सुसन्त्रस्तान् कृतान्तबलमोहितान् ।। 1.40.1 ।। देवतानामित्यादि । कृतः अन्तो जननाशो यैस्ते कृतान्ताः सगरपुत्राः ।। 1.40.1 ।। यस्येयं वसुधा कृत्स्ना वासुदेवस्य धीमतः । कापिलं रूपमास्थाय धारयत्यनिशं धराम् । तस्य कोपाग्निना दग्धा भविष्यन्ति नृपात्मजाः ।। 1.40.2 ।। यस्येति, सार्द्धश्लोकः । आस्थाय, य इति शेषः ।। 1.40.2 […]

39 Sarga बालकाण्डः

श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः एकोनचत्वारिंशः विश्वामित्रवचः श्रुत्वा कथान्ते रघुनन्दनः । उवाच परमप्रीतो मुनिं दीप्तमिवानलम् ।। 1.39.1 ।। अथ रामेण स्वपूर्वकवृत्तान्तप्रस्तावेन कुतूहलात्पृष्टे सति विश्वामित्रेण तदुत्तरकथनमेकोनचत्वारिंशे–विश्वामित्रेत्यादि । कथान्ते यज्ञोपक्रमकथनानन्तरम् ।। 1.39.1 ।। श्रोतुमिच्छामि भद्रं ते विस्तरेण कथामिमाम् । पूर्वको मे कथं ब्रह्मन् यज्ञं वै समुपाहरत् ।। 1.39.2 ।। श्रोतुमिति । इमां यज्ञकथाम् । पूर्वकः मद्वंशकूटस्थः । समुपाहरत् कृतवान् ।। 1.39.2 […]

38 Sarga बालकाण्डः

श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः अष्टात्रिंशः सर्गः तां कथां कौशिको रामे निवेद्य कुशिकात्मजः । पुनरेवापरं वाक्यं काकुत्स्थमिदमब्रवीत् ।। 1.38.1 ।। एवं दिव्यसम्भवं विस्तरं प्रतिपाद्यमानुषलोकसम्भवविस्तरं वक्तुमुपक्रमते ऽष्टात्रिंशे–तामित्यादि । रामे रामाय । कौशिकशब्दार्थमाह कुशिकात्मज इति ।। 1.38.1 ।। अयोध्याधिपतिः शूरः पूर्वमासीन्नराधिपः । सगरो नाम धर्मात्मा प्रजाकामः स चाप्रजः ।। 1.38.2 ।। अयोध्येति । अप्रजः अत एव प्रजाकामः ।। 1.38.2 ।। वैदर्भदुहिता […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.