37 Sarga बालकाण्डः

श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः सप्तत्रिंशः सर्गः तप्यमाने तपो देवे देवाः सर्षिगणाः पुरा । सेनापतिमभीप्सन्तः पितामहमुपागमन् ।। 1.37.1 ।। अथ प्रतिज्ञातं स्कन्दोत्पादकत्वरूपं दिव्यसम्भववैभवमाह सप्तत्रिंशे–तप्यमान इत्यादि । तप्यमाने तपःकर्मकत्वादात्मनेपदकर्मवद्भावौ । देवसेनापतित्वं विहाय केवलतपःप्रवण इत्यर्थः ।। 1.37.1 ।। ततो ऽब्रुवन् सुराः सर्वे भगवन्तं पितामहम् । प्रणिपत्य सुराः सर्वे सेन्द्राः साग्निपुरोगमाः ।। 1.37.2 ।। तत इति । अग्निना पुरोगमेन सहिताः साग्निपुरोगमाः । […]

36 Sarga बालकाण्डः

श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः षट्त्रिंशः सर्गः उक्तवाक्ये मुनौ तस्मिन्नुभौ राघवलक्ष्मणौ । अभिनन्द्य कथां वीरावूचतुर्मुनिपुङ्गवम् ।। 1.36.1 ।। “भगवन् श्रोतुमिच्छामि गङ्गां त्रिपथगां नदीम्” इति गङ्गायास्त्रिपथगात्वप्रकारे पृष्टे अन्तरिक्षस्वर्गगमनयोः प्रत्युक्तत्वात्तत्र तृतीयपथगमनं कथमित्याशयेन पुनः पृच्छन्तं श्रीरामं प्रत्याह षट्त्रिंशे–उक्तवाक्य इत्यादि । मुनौ उक्तवाक्ये उक्तोत्तरे सति । अत्रोभावित्युक्तेः पूर्वसर्गे रामपदं लक्ष्मणस्याप्युपलक्षणं वेदितव्यम् । कथां पूर्वोक्ताम् ।। 1.36.1 ।। धर्मयुक्तमिदं ब्रह्मन् कथितं परमं त्वया । […]

35 Sarga बालकाण्डः

श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः पञ्चत्रिंशः सर्गः उपास्य रात्रिशेषं तु शोणाकूले महर्षिभिः । निशायां सुप्रभातायां विश्वामित्रो ऽभ्यभाषत ।। 1.35.1 ।। अथ स्वपादोद्भवगङ्गावैभवं लोके प्रवर्तयितुं पृच्छति पञ्चत्रिंशे उपास्येत्यादि । उपास्य स्थित्वा, शयित्वेति यावत् । रात्रिशेषमिति अत्यन्तसंयोगे द्वितीया । सुप्रभातायाम्, निवृत्तायामिति यावत् । अत्र रात्रिशेषमित्यनुवादात् पूर्वसर्गे गतो ऽर्द्धरात्र इत्यत्र निशीथ परत्वं स्वरसमिति गम्यते । यद्वा रात्रिशेषं ब्राह्मे मुहूर्त्ते । उपास्य परमात्मानमिति […]

34 Sarga बालकाण्डः

श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः चतुस्त्रिंशः सर्गः कृतोद्वाहे गते तस्मिन् ब्रह्मदत्ते च राघव । अपुत्रः पुत्रलाभाय पौत्रीमिष्टिमकल्पयत् ।। 1.34.1 ।। एवं प्रासङ्गिकं परिसमाप्य प्रकृतकथाशेषमाह चतुस्त्रिंशे कृतोद्वाह इत्यादि । अपुत्रः कुशनाभः । पुत्रायेयं पौत्री ताम् ।। 1.34.1 ।। इष्ट्यां च वर्तमानायां कुशनाभं महीपतिम् । उवाच परमोदारः कुशो ब्रह्मसुतस्तदा ।। 1.34.2 ।। इष्ट्यामिति । कुशः कुशनाभपिता ।। 1.34.2 ।। पुत्र ते […]

33 Sarga बालकाण्डः

श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः त्रयस्त्रिंशःसर्गः तस्य तद्वचनं श्रुत्वा कुशनाभस्य धीमतः । शिरोमिश्चरणौ स्पृष्ट्वा कन्याशतमभाषत ।। 1.33.1 ।। अथ कुशनाभस्य कन्यावचनं शृण्वतः क्षमाविशेष उच्यते त्रयस्त्रिंशे तस्येत्यादि । शिरोभिश्चरणौ स्पृष्ट्वा, पादयोः प्रणम्येत्यर्थः ।। 1.33.1 ।। वायुः सर्वात्मको राजन् प्रधर्षयितुमिच्छति । अशुभं मार्गमास्थाय न धर्मं प्रत्यवेक्षते ।। 1.33.2 ।। वायुरिति । प्रधर्षयितुम् अभिभवितुम् इच्छति । वर्तमानसामीप्याल्लट् । अशुभं बलात्काररूपम् ।। 1.33.2 […]

32 Sarga बालकाण्डः

श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः  द्वात्रिंशः सर्गः ब्रह्मयोनिर्महानासीत् कुशो नाम महातपाः । अक्लिष्टव्रतधर्मज्ञः सज्जनप्रतिपूजकः ।। 1.32.1 ।। एवं शोणकूलदेशवैभवे पृष्टे अयं मद्वंश्यानां देश इति विवक्षन् स्वान्वयं प्रदर्शयति द्वात्रिंशे ब्रह्मयोनिरित्यादि । ब्रह्मा योनिः कारणं यस्य सः ब्रह्मयोनिः अयोनिजो ब्रह्मपुत्रः । महान् ज्ञानशौर्यादिभिरितरब्रह्मपुत्रविलक्षणः । कौ भूमौ शेत इति कुशः । नारदादिवत् ब्रह्मलोके ऽनवस्थाय प्रजापालने दत्तादरतया भूमाववस्थानात् कुश इत्यस्य नाम, अत एव […]

31 Sarga बालकाण्डः

श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः  एकत्रिंशः सर्गः अथ तां रजनीं तत्र कृतार्थौ रामलक्ष्मणौ । ऊषतुर्मुदितौ वीरौ प्रहृष्टेनान्तरात्मना ।। 1.31.1 ।। एवं कृतार्थो विश्वामित्रो जनकसुतात्वेनावतीर्णया श्रिया रामं योजयितुं व्याजेन मिथिलाप्रस्थानं प्रस्तौत्येकत्रिंशे अथेत्यादि । कृतार्थौ कृतविश्वामित्रप्रयोजनौ । प्रहृष्टेन सन्तुष्टेन अन्तरात्मना अन्तःकरणेन उपलक्षितौ ।। 1.31.1 ।। प्रभातायां तु शर्वर्यां कृतपौर्वाह्णिकक्रियौ । विश्वामित्रं मुनींश्चान्यान् सहितावभिजग्मतुः ।। 1.31.2 ।। प्रभातायामिति । सहितौ अविनाभूतौ ।। […]

30 Sarga बालकाण्डः

श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः त्रिंशः सर्गः अथ तौ देशकालज्ञौ राजपुत्रावरिन्दमौ । देशे काले च वाक्यज्ञावब्रूतां कौशिकं वचः ।। 1.30.1 ।। सुबाहुमारीचप्रभृतिदुष्टनिग्रहस्त्रिंशे अथ तावित्यादि । देशकालज्ञाविति हेतुगर्भम् । देशकालज्ञत्वादुचिते देशे उचिते काले चाब्रूताम् ।। 1.30.1 ।। भगवन् श्रोतुमिच्छावो यस्मिन् काले निशाचरौ । संरक्षणीयौ तौ ब्रह्मन्नातिवर्तेत तत्क्षणम् ।। 1.30.2 ।। भगवन्निति । संरक्षणीयौ निवारणीयौ । धातूनामनेकार्थत्वात् विपरीतलक्षणा वा । यद्वा इष्टप्राप्तिरनिष्टनिवृत्तिश्च […]

29 Sarga बालकाण्डः

श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः एकोनत्रिंशः सर्गः अथ तस्याप्रमेयस्य तद्वनं परिपृच्छतः । विश्वामित्रो महातेजा व्याख्यातुमुपचक्रमे ।। 1.29.1 ।। अथ सिद्धाश्रमस्य नित्यं भगवत्सन्निधिमत्त्वेन दिव्यदेशत्वं तत्सन्निधाने पूर्वेषां सिद्धतपस्कत्वं भगवद्देशस्यैव वस्तव्यत्वमित्येतत्प्रतिपादनमुखेन स्थाण्वाश्रमाद्वैलक्षण्यं दर्शयत्येकोनत्रिंशे अथेत्यादि । अप्रमेयस्य अचिन्त्यवैभवस्य, मानुषभावनया पूर्ववृत्तमज्ञातमिव पृच्छत इत्यर्थः । चतुर्थ्यर्थे षष्ठी ।। 1.29.1 ।। इह राम महाबाहो विष्णुर्देववरः प्रभुः । वर्षाणि सुबहून्येव तथा युगशतानि च । तपश्चरणयोगार्थमुवास सुमहातपाः ।। 1.29.2 […]

28 Sarga बालकाण्डः

श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः अष्टाविंशः सर्गः प्रतिगृह्य ततो ऽस्त्राणि प्रहृष्टवदनः शुचिः । गच्छन्नेव च काकुत्स्थो विश्वामित्रमथाब्रवीत् ।। 1.28.1 ।। अस्त्रसंहारकप्रतिग्रहो ऽष्टाविंशे प्रतिगृह्येत्यादि । गच्छन् गमिष्यन् । “वर्तमानसामीप्ये वर्तमानवद्वा” इति लट् ।। 1.28.1 ।। गृहीतास्त्रो ऽस्मि भगवन् दुराधर्षः सुरासुरैः । अस्त्राणां त्वहमिच्छामि संहारं मुनिपुङ्गव ।। 1.28.2 ।। गृहीतेति । संहारम् अवगतप्रयोगानामस्त्राणां पुनरुपसंहारम्, तत्तदस्त्रमूलमन्त्रवर्तितत्तदस्त्रोपसंहारमन्त्रजातमित्यर्थः । जात्येकवचनम् ।। 1.28.2 ।। एवं ब्रुवति […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.