27 Sarga बालकाण्डः
श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः सप्तविंशः सर्गः अथ तां रजनीमुष्य विश्वामित्रो महायशाः । प्रहस्य राघवं वाक्यमुवाच मधुराक्षरम् ।। 1.27.1 ।। अस्त्रगणलाभः सप्तविंशे अथेत्यादि । उष्य उषित्वा । प्रहस्य प्रहर्षेण मन्दहासं कृत्वा ।। 1.27.1 ।। परितुष्टो ऽस्मि भद्रं ते राजपुत्र महायशः । प्रीत्या परमया शुक्तो ददाम्यस्त्राणि सर्वशः ।। 1.27.2 ।। परीति । महायश इति सम्बुद्धित्वान्न दीर्घः । प्रीत्या परमया युक्त इति […]
26 Sarga बालकाण्डः
श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः षड्विंशः सर्गः मुनेर्वचनमक्लीबं श्रुत्वा नरवरात्मजः । राघवः प्राञ्जलिर्भूत्वा प्रत्युवाच दृढव्रतः ।। 1.26.1 ।। अथ ताटकावधः षड्विंशे मुनेरित्यादि । अक्लीबं धृष्टम् ।। 1.26.1 ।। पितुर्वचननिर्देशात्पितुर्वचनगौरवात् । वचनं कौशिकस्येति कर्तव्यमविशङ्कया ।। 1.26.2 ।। पितुरिति । पितुर्वचननिर्देशात् नियोगात्, कौशिकवचनं त्वया कर्तव्यमित्येवंरूपात् पितृवचनगौरवात् । बहुमानाच्च । इति उक्तप्रकारं कौशिकस्य वचनं कर्तव्यमिति मानसव्यापारः ।। 1.26.2 ।। अनुशिष्टो ऽस्म्ययोध्यायां गुरुमध्ये महात्मना […]
25 Sarga बालकाण्डः
श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः पञ्चविशः सर्गः अथ तस्याप्रमेयस्य मुनेर्वचनमुत्तमम् । श्रुत्वा पुरुषशार्दूलः प्रत्युवाच शुभां गिरम् ।। 1.25.1 ।। स्त्रिया अपि सर्वलोकविनाशिन्या वधे न दोष इत्याह पञ्चविंशे अथेत्यादि । अप्रमेयस्य अप्रमेयप्रभावस्य ।। 1.25.1 ।। अल्पवीर्या यदा यक्षाः श्रूयन्ते मुनिपुङ्गव । कथं नागसहस्रस्य धारयत्यबला बलम् ।। 1.25.2 ।। अल्पेति । यदा यस्मात्, यदायत्रादयो हेतावपि मुनिभिः प्रयुज्यन्ते । यस्माच्छ्रूयन्ते तस्मात् अबला स्त्री […]
24 Sarga बालकाण्डः
श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः चतुर्विंशः सर्गः ततः प्रभाते विमले कृत्वाह्निकमरिन्दमौ । विश्वामित्रं पुरस्कृत्य नद्यास्तीरमुपागतौ ।। 1.24.1 ।। एवं कामाश्रमपदं रामचरणनलिनविन्यासेन कृतार्थीकृत्य ताटकावनमपि निष्कल्मषीकर्तुं रामं प्रापयति मुनिश्चतुर्विंशे तत इत्यादि । विमले सूर्योदय इत्यर्थः । नद्याः गङ्गायाः ।। 1.24.1 ।। ते च सर्वे महात्मानो मुनयः संशितव्रताः । उपस्थाप्य शुभां नावं विश्वामित्रमथाब्रुवन् ।। 1.24.2 ।। ते चेति । उपस्थाप्य आनाय्य ।। 1.24.2 […]
23 Sarga बालकाण्डः
श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः त्रयोविंशः सर्गः प्रभातायां तु शर्वर्यां विश्वामित्रो महामुनिः । अभ्यभाषत काकुत्स्थौ शयानौ पर्णसंस्तरे ।। 1.23.1 ।। अथैषामङ्गदेशप्राप्तिं पूर्ववृत्तकथनव्याजेन व्यञ्जयति त्रयोविंशे प्रभातायामित्यादि । पर्णसंस्तरे पर्णमयास्तरणे । पूर्वसर्गान्ते तृणशयनस्योक्तत्वादत्र तृणमिश्रपर्णशयने इति बोध्यम् ।। 1.23.1 ।। कौसल्या सुप्रजा राम पूर्वा सन्ध्या प्रवर्तते । उत्तिष्ठ नरशार्दूल कर्त्तव्यं दैवमाह्निकम् ।। 1.23.2 ।। उभयप्रबोधनार्थमागतो विश्वामित्रो रामस्य “स मया बोधितः श्रीमान् सुखसुप्तः परन्तपः” […]
22 Sarga बालकाण्डः
श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः द्वाविंशः सर्गः तथा वसिष्ठे ब्रुवति राजा दशरथः सुतम् । प्रहृष्टवदनो राममाजुहाव सलक्ष्मणम् ।। 1.22.1 ।। अथ प्रसन्नहृदयेन राज्ञा रामविसर्जनं द्वाविंशे तथेत्यादि । सलक्ष्मणं राममिति तयोरविनाभावज्ञानादिति भावः ।। 1.22.1 ।। कृतस्वस्त्ययनं मात्रा पित्रा दशरथेन च । पुरोधसा वसिष्ठेन मङ्गलैरभिमन्त्रितम् ।। 1.22.2 ।। स पुत्रं मूर्ध्न्युपाघ्राय राजा दशरथः प्रियम् । ददौ कुशिकपुत्राय सुप्रीतेनान्तरात्मना ।। 1.22.3 ।। कृतेत्यादि […]
21 Sarga बालकाण्डः
श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः एकविंशः सर्गः तच्छ्रुत्वा वचनं तस्य स्नेहपर्याकुलाक्षरम् । समन्युः कौशिको वाक्यं प्रत्युवाच महीपतिम् ।। 1.21.1 ।। एवं रामप्रेषणवृत्तान्तव्याकुलं राजानं वसिष्ठः प्रतिबोधयति एकविंशे तच्छ्रुत्वेति । स्नेहेन पुत्रस्नेहेन पर्याकुलानि स्खलन्ति अक्षराणि यस्मिन् ।। 1.21.1 ।। पूर्वमर्थं प्रतिश्रुत्य प्रतिज्ञां हातुमिच्छसि । राघवाणामयुक्तो ऽयं कुलस्यास्य विपर्ययः ।। 1.21.2 ।। पूर्वमिति । अर्थं प्रार्थितार्थम् । अयं विपर्ययः प्रतिज्ञाहानिः, राघवाणामस्य कुलस्यायुक्तः […]
19 Sarga बालकाण्डः
श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः एकोनविंशः सर्गः तच्छ्रुत्वा राजसिंहस्य वाक्यमद्भुतविस्तरम् । हृष्टरोमा महातेजा विश्वामित्रो ऽभ्यभाषत ।। 1.19.1 ।। अथ विश्वामित्राभ्यर्थनमेकोनविंशे तच्छ्रुत्वेत्यादि । अद्भुतस्य विस्तरो यस्मिन् तदद्भुतविस्तरम् । हृष्टरोमा पुलकितरोमा ।। 1.19.1 ।। सदृशं राजशार्दूल तवैतद्भुवि नान्यथा । महाकुलप्रसूतस्य वसिष्ठव्यपदेशिनः ।। 1.19.2 ।। सदृशमिति । नान्यथा न मिथ्योच्यत इत्यर्थः । वसिष्ठेन व्यपदेशः कीर्तिः उपदेशो वा । तृतीयेति योगविभागात् समासः । सो […]
20 Sarga बालकाण्डः
श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः विंशः सर्गः तच्छ्रुत्वा राजशार्दूलो विश्वामित्रस्य भाषितम् । मुहूर्तमिव निःसञ्ज्ञः सञ्ज्ञावानिदमब्रवीत् ।। 1.20.1 ।। कौशिकवचनश्रवणाद्दशरथविषादो विंशे तच्छ्रुत्वेत्यादि । निःसंज्ञ इव चेतनारहित इव, मूर्च्छित इत्यर्थः ।। 1.20.1 ।। ऊनषोडशवर्षो मे रामो राजीवलोचनः । न युद्धयोग्यतामस्य पश्यामि सह राक्षसैः ।। 1.20.2 ।। “यज्ञे विघ्नकरं हन्याम्” इत्युक्तरीत्या निजयज्ञविघ्ननिवर्तको ऽयं भविष्यतीति मत्वा आगत्य प्रार्थयमाने विश्वामित्रे वत्सलो दशरथः प्रेमान्धतया कलुषितहृदयः अहं […]
18 Sarga बालकाण्डः
श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः अष्टादशः सर्गः ।। श्रीरामावतारघट्टः ।। श्लोकसहितव्याख्यानम् (18सर्गतः 77सर्गपर्यन्तम्) निर्वृत्ते तु क्रतौ तस्मिन् हयमेधे महात्मनः । प्रतिगृह्य सुरा भागान् प्रतिजग्मुर्यथागतम् ।। 1.18.1 ।। “कोसलो नाम मुदितः स्फीतो जनपदो महान्” इत्यारभ्य भगवतो ऽवतारनिमित्तान्युक्तानि । अथावतारं दर्शयत्यष्टादशे निर्वृत्ते त्वित्यादि । अत्र ‘पुत्रोत्पत्तिं विचिन्तयन्’ इत्येवमन्तो ग्रन्थः ‘हुताशनादित्यसमानतेजसो ऽचिरेण गर्भान् प्रतिपेदिरे तदा’ इत्येतच्छेषो ऽनूद्यते । निर्वृत्ते समाप्ते हयमेधे, पुत्रेष्टिसहित इति […]