17 Sarga बालकाण्डः
श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः सप्तदशः सर्गः पुत्रत्वं तु गते विष्णौ राज्ञस्तस्य महात्मनः । उवाच देवताः सर्वाः स्वयम्भूर्भगवानिदम् ।। 1.17.1 ।। विष्णोरन्तर्द्धानानन्तरं कार्यद्वयं प्रवृत्तम्, पायसहस्तस्याग्निपुरुषस्योत्थानं देवान् प्रति ब्रह्मनियोगश्च । तत्र वाचः क्रमवर्तित्वेन प्रथमोपस्थितमग्नि पुरुषोत्थानं तत्प्रसक्तं च सर्वमुक्त्वा अथ ब्रह्मनियोगतत्फले दर्शयति सप्तदशे पुत्रत्वमित्यादि । गते गन्तुं प्रवृत्ते । भगवान् भाविकार्यज्ञः ।। 1.17.1 ।। सत्यसन्धस्य वीरस्य सवेषां नो हितैषिणः । विष्णोः सहायान् […]
16 Sarga बालकाण्डः
श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः षोडशः सर्गः ततो नारायणो विष्णुर्नियुक्तः सुरसत्तमैः । जानन्नपि सुरानेवं श्लक्ष्णं वचनमबव्रीत् ।। 1.16.1 ।। एवं मनुष्यलोके दशरथपुत्रत्वेनावतीर्य रावणवधः कर्तव्य इत्युक्तम्, तत्र किं मया उपेन्द्रादिवत् स्वस्वरूपेण स्थातव्यम्, उत प्रकारान्तरेणेति भगवान् बहुमानार्थं पृच्छति तत इत्यादि । न रिष्यन्ति न नश्यन्तीति नराः, नित्यवस्तूनि । “अन्येभ्यो ऽपि दृश्यते” इति डप्रत्ययः । सुप्सुपेति नगनैकादिवत् समासः । नराणां समूहो नारम् । […]
15 Sarga बालकाण्डः
श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः पञ्चदशः सर्गः मेधावी तु ततो ध्यात्वा स किञ्चिदिदमुत्तरम् । लब्धसञ्ज्ञस्ततस्तं तु वेदज्ञो नृपमबव्रीत् ।। 1.15.1 ।। अथ दशरथाराधनव्याजेन साधुलोकरक्षणाय भूमाववतितीर्षुर्भगवानानुषङ्गिकदुष्कृद्विनाशाय देवैरभ्यर्थ्यते पञ्चदशे मेधावीत्यादि । ततः प्रतिज्ञानन्तरम् । मेधावी मेधा धारणक्षमा धीः, तद्वान् । “अस्मायामेधास्रजो विनिः” इति विनिप्रत्ययः । वेदज्ञः अथर्वणवेदज्ञः स ऋश्यशृङ्गः किञ्चिद् ध्यात्वा किं कर्म कर्तुमत्रोचितमिति क्षणं विचिन्त्य, मेधावितया ततः तदुत्तरक्षण एव लब्धसञ्ज्ञः प्राप्तस्मृतिः […]
13 Sarga बालकाण्डः
श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः त्रयोदशः सर्गः पुनः प्राप्ते वसन्ते तु पूर्णः संवत्सरो ऽभवत् । प्रसवार्थं गतो यष्टुं हयमेधेन वीर्यवान् ।। 1.13.1 ।। एवं प्रथमवसन्ते चैत्रपौर्णमास्यां साङ्ग्रहणेष्टिं विधायद्वितीये ऽह्नि ब्रह्मौदनमेध्याश्वबन्धनस्नापनप्रोक्षणविमोचनादिकम् “चत्वार ऋत्विजः समुक्षन्ति” इत्युक्तरीत्या कृत्वा “सावित्रमष्टाकपालं प्रातर्निर्वपति” इत्युक्तरीत्या प्रतिदिनं सावित्रादिषु कर्मस्वनुष्ठीयमानेषु संवत्सरे पूर्णे देवयजनं प्रति प्रस्थानं दर्शयति त्रयोदशे पुनः प्राप्त इत्यादि । पुनर्वसन्ते द्वितीयवसन्ते प्राप्ते संवत्सरः पूर्णो ऽभवत्, अमावास्या प्राप्तेत्यर्थः […]
14 Sarga बालकाण्डः
श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः चतुर्दशः सर्गः अथ संवत्सरे पूर्णे तस्मिन् प्राप्ते तुरङ्गमे । सरय्वाश्चोत्तरे तीरे राज्ञो यज्ञो ऽभ्यवर्तत ।। 1.14.1 ।। पूर्वसर्गान्ते शालाप्रवेशानन्तरमश्वमेधारम्भस्सङ्ग्रहेण दर्शितः । तदनुष्ठानं विस्तरेण दर्शयिष्यन् तस्याश्वागमनपूर्वकत्वात्तदनुवादपूर्वकं यज्ञानुष्ठानं दर्शयति चतुर्दशे अथेत्यादि । अथ अश्वविमोचनानन्तरम् । तुरङ्गमे प्राप्ते क्रमेण प्राप्ते । तस्मिन्संवत्सरे पूर्णे राज्ञो यज्ञः अभ्यवर्तत प्रावर्तत । अश्वागमनक्रमस्तु विमुक्तमश्वं स्वैरं चरन्तं राजपुत्रराजोग्रसूतग्रामणिक्षत्रसङ्ग्रहितारश्चतुःशताः परिपालयन्तो नावर्तयन्तो ऽनुचरन्ति । ब्रह्माध्वर्युहोत्रुद्गातारश्चत्वार […]
12 Sarga बालकाण्डः
श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः द्वादशः सर्गः ततः काले बहुतिथे कस्मिंश्चित्सुमनोहरे । वसन्ते समनुप्राप्ते राज्ञो यष्टुं मनो ऽभवत् ।। 1.12.1 ।। एवं दशरथः सर्वकामसमृद्धो ऽपि पुत्रालाभसन्तप्तस्तन्मूलानि पापानि स्वाधिकारानुरूपेणाश्वमेधेन विना न विनश्यन्तीति मन्वानः “सर्वं पाप्पानं तरति तरति ब्रह्महत्यां यो ऽश्वमेधेन यजते” इति श्रुत्या “राजसार्वभौमो ऽश्वमेधेन यजेत” इति स्मृत्या च विहितमश्वमेधं यष्टुं सङ्कल्प्य तदानीमुद्बुद्धसंस्कारेण सुमन्त्रेणोदीरितवचनाज्जामात्रुपलालनव्याजेन शान्तया सह ऋश्यशृङ्गमानीय प्राप्तकाले पूर्वं सङ्कल्पितमश्वमेधं कर्तुमारभतेत्याह […]
11 Sarga बालकाण्डः
श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः एकादशः सर्गः भूय एव च राजेन्द्र शृणु मे वचनं हितम् । यथा स देवप्रवरः कथायामेवमब्रवीत् ।। 1.11.1 ।। एवं दशरथप्रश्नस्योत्तरमुक्त्वा कथाशेषं सुमन्त्रः प्रस्तौति भूय इत्यादि । देवप्रवरः सनत्कुमारः, कथायां कथाप्रसङ्गे, एवं वक्ष्यमाणरीत्या यथा उक्तवान् तथा शृणु ।। 1.11.1 ।। इक्ष्वाकूणां कुले जातो भविष्यति सुधार्मिकः । राजा दशरथो नाम श्रीमान् सत्यप्रतिश्रवः ।। 1.11.2 ।। इक्ष्वाकूणामिति […]
10 Sarga बालकाण्डः
श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः दशमःसर्गः सुमन्त्रश्चोदितो राज्ञा प्रोवाचेदं वचस्तथा । यथर्श्यशृङ्गस्त्वानीतः शृणु मे मन्त्रिभिः स ह ।। 1.10.1 ।। सुमन्त्र इत्यादि । मे मत्तः, स ऋश्यशृङ्गः यथा मन्त्रिभिरानीतः तथा शृणु । हेति प्रसिद्धौ ।। 1.10.1 ।। रोमपादमुवाचेदं सहामात्यपुरोहितः । उपायो निरपायो ऽयमस्माभिरभिचिन्तितः ।। 1.10.2 ।। रोमेति । निरपायः अव्यभिचारिफलः ।। 1.10.2 ।। ऋश्यशृङ्गो वनचरस्तपःस्वाध्यायने रतः । अनभिज्ञः स नारीणां […]
09 Sarga बालकाण्डः
श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः नवमः सर्गः एतच्छ्रुत्वा रहः सूतो राजानमिदमब्रवीत् । ऋत्विग्भिरुपदिष्टो ऽयं पुरावृत्तो मया श्रुतः ।। 1.9.1 ।। अथ भगवदवतारासाधारणकारणं पुत्रेष्टिमुपक्षिपति सर्गत्रयेण एतच्छ्रुत्वेत्यादि । सूतः सारथित्वेन मन्त्रित्वेन च स्थितः सुमन्त्रः । रह एकान्ते इदमब्रवीत्, अन्तःपुरमागत्योक्तवानित्यर्थः । अयं अश्वमेधप्रवृत्तिरूपः पुत्रार्थोपायः । ऋत्विग्भिः वसिष्ठादिभिः उपदिष्टः, मया तु पुरावृत्तः इतिहासरूपः यः श्रुतः ।। 1.9.1 ।। सनत्कुमारो भगवान् पूर्वं कथितवान् कथाम् । […]
08 Sarga बालकाण्डः
श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः अष्टमः सर्गः तस्यापुत्रत्वादश्वमेधकरणे सुमन्त्रेण सह संवादः, तत्र सम्मिलितानाममात्यानां समीपेश्वमेधप्र्तश्नः, तत्करणे वसिष्ठादीनामनुमतिः, अश्वमोचनम् सरयूत्तरतारे यज्ञभूमिविधानम्, गृहागतराजानं दाराणां पुत्रप्राप्त्यर्थं दीक्षाविषयकः प्रश्नश्च। तस्य चैवं प्रभावस्य धर्मज्ञस्य महात्मनः। सुतार्थं तप्यमानस्य नासीद्वंशकरः सुतः॥1.8.1॥ एवं धार्मिकत्वेन दशरथस्य भगवदवतारयोग्यत्वमुक्त्वा अथ तदुपयुक्ततदाराधनोपक्रमं दर्शयत्यष्टमे –तस्येति । उत्तरश्लोकवक्ष्यमाणचिन्ता युक्तेति सूचयितुं राज्ञो विशेषणानि तप्यमानस्य तपश्चरतः यद्वा पुत्रोत्पादनानुगुणदृष्टसामग्रीसत्त्वेपि पुत्राभावात्परितप्यमानस्य॥1.8.1॥ चिन्तयानस्य तस्यैवं बुद्धिरासीन्महात्मनः। सुतार्थं वाजिमेधेन किमर्थं न […]