07 Sarga बालकाण्डः
श्रीमद्वाल्मीकीयरामायणम् बालकाण्डःसप्तमः सर्गः तस्यामात्या गुणैरासन्निक्ष्वाकोस्तु महात्मनः । मन्त्रज्ञाश्चेङ्गितज्ञाश्च नित्यं प्रियहिते रताः ।। 1.7.1 ।। अथोक्तगुणसम्पन्नस्य दशरथस्य धर्मानुष्ठानसहायसाधिष्ठसचिवसम्पत्तिं दर्शयति सप्तमे तस्येत्यादि । महात्मनः महामतेः तस्य इक्ष्वाकोः, दशरथस्य तद्वंशजत्वात्तच्छब्दः । मन्त्रज्ञाः कार्यविचारज्ञाः । इङ्गितं पराभिप्रायः तं मुखविकाससङ्कोचव्यङ्ग्यवचनादिभिर्जानन्तीति इङ्गितज्ञाः । अमात्याः अमा राज्ञः सर्वराज्यव्यापारेषु सह भवन्तीत्यमात्याः । “अव्ययात्त्यप्” । गुणैः वक्ष्यमाणमन्त्रिगुणैः उपेता आसन् ।। 1.7.1 ।। अष्टौ बभूवुर्वीरस्य तस्यामात्या […]
06 Sarga बालकाण्डः
श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः षष्ठः सर्गः तस्यां पुर्यामयोध्यायां वेदवित्सर्वसङ्ग्रहः । दीर्घदर्शी महातेजाः पौरजानपदप्रियः ।। 1.6.1 ।। एवं भगवदवतारयोग्यदेशो दर्शितः, अथ तद्योग्यं पुरुषं दर्शयति सर्गे षष्ठे तस्यामित्यादि श्लोकचतुष्टयमेकान्वयम् । दशरथः तस्यां वसन् सन् जगत् अपालयत् । स कीदृशः ? वेदं वेदार्थं वेत्तीति वेदवित्, सङ्गृह्णाति धनप्रदानादिना स्वीकरोतीति सङ्ग्रहः । पचाद्यच् । सर्वेषां शूराणां विदुषां च सङ्ग्रहः सर्वसङ्ग्रहः । दीर्घदर्शी दीर्घं चिरकालभाविपदार्थं […]
05 Sarga बालकाण्डः
श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः पञ्चमः सर्गः सर्वापूर्वमियं येषामासीत्कृत्स्ना वसुन्धरा । प्रजापतिमुपादाय नृपाणां जयशालिनाम् ।। 1.5.1 ।। अथ परमकारुणिको भगवान् वाल्मीकिः रामायणाख्यं काव्यमारभमाणः प्रारिप्सितप्रबन्धस्य निर्विघ्नपरिसमाप्त्यर्थं प्रचयगमनार्थं च “आशीर्नमस्क्रिया वस्तुनिर्देशो वापि तन्मुखम्” इत्युक्तरीत्या काव्यमुखत्वेनादौ कर्तव्यं वस्तुनिर्देशं कुर्वन् अर्थाद्विषयप्रयोजने च दर्शयन् कर्तव्यं प्रतिजानानः सत्परिग्रहमर्थयते सर्वापूर्वमित्यादिश्लोकचतुष्टयेन । सर्वेति । कृत्स्ना सप्तद्वीपात्मिका इयं वसुन्धरा भूमिः । जयेन शालन्ते भासन्त इति जयशालिनः तेषाम् । […]
04 Sarga बालकाण्डः
श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः चतुर्य: सर्गः प्राप्तराज्यस्य रामस्य वाल्मीकिर्भगवानृषिः । चकार चरितं कृत्स्नं विचित्रपदमात्मवान् ।। 1.4.1 ।। पूर्वस्मिन् सर्गे प्रतिपाद्यवैलक्षण्यमुक्तम्, सम्प्रति प्रबन्धवैलक्षण्यं कथ्यते । प्रबन्धस्य वैलक्षण्यं नाम परमाप्तप्रणीतत्वं पुण्यश्लोकविषयत्वं महाजनपरिगृहीतत्वं प्रबन्धनायकश्लाघितत्वमित्यादि । परमाप्तप्रणीतत्वं पुण्यश्लोकविषयत्वं चानेनोच्यते । प्राप्तराज्यस्य स्वीकृतराजभावस्य । पुरोहितादित्वाद्यक्प्रत्ययः । लोकरक्षणाय रघुकुले ऽवतीर्णस्येत्यर्थः । रामस्य सकलगुणाभिरामस्य, अनेन प्रतिपाद्यमहिम्ना काव्यस्य आदरणीयतातिशय उक्तः । तदुक्तं भामहेन “उपश्लोक्यस्य माहात्म्यादुज्ज्वलाः काव्यसम्पदः” इति […]
03 Sarga बालकाण्डः
श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः तृतीयः सर्गः श्रुत्वा वस्तु समग्रं तद्धर्मात्मा धर्मसंहितम् । व्यक्तमन्वेषते भूयो यद्वृत्तं तस्य धीमतः ।। 1.3.1 ।। पूर्वस्मिन्सर्गे स्वग्रन्थस्यात्यन्तादरणीयत्वद्योतनाय परमात्मतत्त्वरूपं वक्तृवैलक्षण्यं प्राधान्येनोक्तम् । सम्प्रति तदर्थमेव विषयवैलक्षण्यं दर्शयति । विषयस्य वैलक्षण्यं नाम सम्यग्ज्ञानावधृतत्वं लोकोत्तरनायकगुणपरिष्कृतत्वं च । तत्र प्रथमं सम्यग्ज्ञानावधृतत्वं विवक्षंस्तद्वस्त्वन्वेषणमाह श्रुत्वेति । धर्मे आत्मा स्वभावो यस्यासौ धर्मात्मा, इत्यन्वेषणहेतूक्तिः । धर्मसंहितं धर्मसहितम् । “समोवाहितततयोः” इति विकल्पितत्वान्मकारलोपाभावः । […]
02 Sarga बालकाण्डः
श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः द्वितीयः सर्गः नारदस्य तु तद्वाक्यं श्रुत्वा वाक्यविशारदः । पूजयामास धर्मात्मा सहशिष्यो महामुनिः ।। 1.2.1 ।। श्रीमच्छठारिगुरुणा गुरुणोपदिष्टं रामायणस्य हृदयं सरसं गृहीत्वा । श्रीकौशिकान्वयकुलेन्दुरशेषबन्धुर्गोविन्दराजविबुधो विशदीकरोति ।। 1 ।। अथ परमकारुणिको वाल्मीकिः “इष्टं हि विदुषां लोके समासव्यासधारणम्” इत्युक्तरीत्या सङ्क्षेपेणोक्तं रामचरित्रं पुनर्विस्तरेण प्रतिपिपादयिषुस्तत्र प्रेक्षावत्प्रवृत्त्यर्थं वक्तृवैलक्षण्यं प्रबन्धवैलक्षण्यं प्रतिपाद्यवैलक्षण्यं चेति वैलक्षण्यत्रयं निदिदर्शयिषुर्वक्तृवैलक्षण्यं तावदादौ दर्शयति नारदस्येत्यादिना द्वितीयसर्गेण । वक्तृवैलक्षण्यं तु परमाप्तत्वम् […]
01 Sarga बालकाण्डः
।।।।।।श्रीमद्वाल्मीकीयरामायणम्।।।।बालकाण्डः।।।।श्रीसीतालक्ष्मणहनुमत्समेतश्रीरामचन्द्रपरब्रह्मणेनमः।।।।श्लोकसहितव्याख्यानम्।। श्रीमतेरामानुजायनमः।। ।। गॊविन्दराजप्रणीतरामायण भूषणेति टीका ।। आचार्यंशठकोपदेशिकमथप्राचार्यपारम्परींश्रीमल्लक्ष्मणयोगिवर्य्ययमुनावास्तव्यनाथादिकान्।वाल्मीकिंसहनारदेनमुनिनावाग्देवतावल्लभंसीतालक्ष्मणवायुसूनुसहितंश्रीरामचन्द्रंभजे।। 1 ।। श्रीमत्यञ्जनभूधरस्यशिखरेश्रीमारुतेःसन्निधावग्रेवेङ्कटनायकस्यसदनद्वारेयतिक्ष्माभृतः।नानादेशसमागतैर्बुधगणैरामायणव्याक्रियांविस्तीर्णांरचयेतिसादरमहंस्वप्नेऽस्मिसञ्चोदितः।। 2 ।। क्वाहंमन्दमतिर्गभीरहृदयंरामायणंतत्क्वचव्याख्यानेऽस्यपरिभ्रमन्नहमहोहासास्पदंधीमताम्।कोभारोऽत्रममस्वयंकुलगुरुःकोदण्डपाणिःकृपाकूपारोरचयत्यदःसपदिमज्जिह्वाग्रसिंहासनः।। 3 ।। वैयर्थ्यंपुनरुक्ततामनुचितारम्भंविरोधंमिथोऽसाधुत्वंचपदप्रबन्धरचनावाक्येषुनिःशेषयन्।स्वारस्यंचपदेपदेप्रकटयन्रामायणस्यस्वयंव्याख्यामेषतनोतिसज्जनमुदेगोविन्दराजाह्वयः|| 4 ।। पूर्वाचार्य्यकृतप्रबन्धजलधेस्तात्पर्यरत्नावलीर्ग्राहंग्राहमहंशठारिगुरुणासन्दर्शितेनाध्वना।अन्यव्याकृतिजातरूपशकलैरायोज्यसज्जीकृतैःश्रीरामायणभूषणंविरचयेपश्यन्तुनिर्मत्सराः।। 5 ।। सुस्पष्टमष्टादशकृत्यएत्यश्रीशैलपूर्णाद्यतिशेखरोऽयम्।शुश्रावरामायणसम्प्रदायंवक्ष्येतमाचार्यपरम्परात्तम् ।।6।। क्वचित्पदार्थंक्वचिदन्वयार्थंक्वचित्पदच्छेदसमर्थनानि।क्वचित्क्वचिद्गाढनिगूढभावंवक्ष्येयथापेक्षमवेक्षणीयम् ।। 7 ।। अवतारिका श्रियःपतिरवाप्तसमस्तकामःसमस्तकल्याणगुणात्मकःसर्वेश्वरः “वैकुण्ठेतुपरेलोकेश्रियासार्द्धंजगत्पतिः। आस्तेविष्णुरचिन्त्यात्माभक्तैर्भागवतैःसह।।” इत्युक्तरीत्याश्रीवैकुण्ठाख्येदिव्यलोकेश्रीमहामणिमण्डपेश्रीभूमिनीलाभिःसहरत्नसिंहासनमध्यासीनोनित्यैर्मु क्तैश्चनिरन्तरपरिचर्यमाण- चरणनलिनोऽपितद्वदेवस्वचरणयुगलपरिचरणार्हानपितद्धीनान्प्रलयेप्रकृतिविलीनान्मधूच्छिष्ट- मग्नहेमकणसदृक्षान्क्षीणज्ञानान्जीवानवलोक्य “एवंसंसृतिचक्रस्थेभ्राम्यमाणेस्वकर्मभिः।जीवेदुःखाकुलेविष्णोःकृपाकाप्युपजायते।।” इत्युक्तरीत्यादयमानमनाः “विचित्रादेहसम्पत्तिरीश्वरायनिवेदितुम्।पूर्वमेवकृताब्रह्मन्हस्तपादादिसंयुता।।” इत्युक्तप्रकारेणमहदादिसृष्टिक्रमेणतेषास्वचर -णकमलसमाश्रयणोचितानिकरणकलेवराणिदत्त्वानदीतरणायदत्तैःप्लवैर्नदीरयानुसारेणसागरमवगाह- मानेष्विवतेषुतैर्विषयान्तरप्रवणेषुतेषांसदसद्विवेचनाय ‘शासनाच्छास्त्रम्’ इत्युक्तरीत्यास्वशासनरूपंवेदाख्यंशास्त्रंप्रवर्त्यापितस्मिन्नप्रतिपत्तिविप्रतिपत्त्यन्यथाप्रतिपत्तिभिस्तैरनादृतेस्व शासनातिलङ्घिनंजनपदंस्वयमेवसाधयितुमभियियासुरिववसुधाधिपतिःस्वाचारमुखेनतान्शिक्षयितुंरामादि रूपेणचतुर्द्धावतितीर्षुरन्तराऽमरगणैःसद्रुहिणैरभ्यर्थितःस्वाराधकस्यदशरथस्यमनोरथमपिपूरयितुं चतुर्द्धावततार।तत्ररामरूपेणावतीर्यरावणंनिहत्यपितृवचनपरिपालनादिसामान्यधर्ममन्वतिष्ठत्, लक्ष्मणरूपेणरावणिंनिरस्यभगवच्छेषत्वरूपंविशेषधर्मम्, भरतरूपेणगन्धर्वान्निर्वास्यभगवत्पार–तन्त्र्यरूपम्, शत्रुघ्नरूपेणलवणासुरंध्वंसयित्वाभागवतशेषत्वम्।तानिमान्धर्मान्तानीमानिचापदानानितत्कालमात्रपर्यवसितानिभविष्यन्तीतिमन्वानःसर्वलोकहितपरःपिताम होभगवान्ब्रह्मारामचरित्रपवित्रितंशतकोटिप्रविस्तरंप्रबन्धंनिर्मायतंनारदादीनध्याप्यभूलोकेऽपिसन्ततरामम न्त्रानु- सन्धानसन्धुक्षितहृदयवाल्मीकिमुखेनसङ्ग्रहेणप्रवर्त्तयितुंनारदंप्रेषयामास।तदुक्तंमात्स्ये “वाल्मीकिनाचयत्प्रोक्तंरामोपाख्यानमुत्तमम्।ब्रह्मणाचोदितंतच्चशतकोटिप्रविस्तरम्। आहृत्यनारदेनैववाल्मीकायनिवेदितम्।” इति। […]