19 Sarga अयोध्याकाण्डम्
श्रीमद्वाल्मीकीयरामायणम् अयोध्याकाण्डे एकोनविंश:सर्ग: तदप्रियममित्रघ्नो वचनं मरणोपमम् । श्रुत्वा न विव्यथे राम: कैकेयीं चेदमब्रवीत् ।। 2.19.1 ।। तदिति । मरणोपममिति लोकदृष्ट्या ।। 2.19.1 ।। एवमस्तु गमिष्यामि वनं वस्तुमहं त्वित: । जटाजिनधरो राज्ञ: प्रतिज्ञामनुपालयन् ।। 2.19.2 ।। एवमिति । इत: अस्मान्नगरात् ।। 2.19.2 ।। इदं तु ज्ञातुमिच्छामि किमर्थं मां महीपति: । नाभिनन्दति दुर्द्धर्षो यथापुरमरिन्दम: ।। 2.19.3 ।। […]
18 Sarga अयोध्याकाण्डम्
श्रीमद्वाल्मीकीयरामायणम् अयोध्याकाण्डे अष्टादश: सर्ग: स ददर्शासने रामो निषण्णं पितरं शुभे । कैकेयीसहितं दीनं मुखेन परिशुष्यता ।। 2.18.1 ।। स पितुश्चरणौ पूर्वमभिवाद्य विनीतवत् । ततो ववन्दे चरणौ कैकेय्या: सुसमाहित: ।। 2.18.2 ।। स इति । आसने पर्यङ्के । ‘मूर्च्छितो न्यपतत्तस्मिन् पर्यङ्के हेमभूषिते’ इत्युत्तरत्र वक्ष्यमाणत्वात् । मुखेनेत्युपलक्षणे तृतीया ।। 2.18.12 ।। रामेत्युक्त्वा च वचनं बाष्पपर्याकुलेक्षण: । शशाक […]
17 Sarga अयोध्याकाण्डम्
श्रीमद्वाल्मीकीयरामायणम् अयोध्याकाण्डे सप्तदश: सर्ग: स रामो रथमास्थाय सम्प्रहृष्टसुहृज्जन: । पताकाध्वजसम्पन्नं महार्हागरुधूपितम् । अपश्यन्नगरं श्रीमान्नानाजनसमाकुलम् ।। 2.17.1 ।। अथ रामस्य राजसमीपगमनं सप्तदशे–स राम इत्यादि । पताकाध्वजसम्पन्नं पताका: अनामाङ्किता:, तदङ्कितानि ध्वजानि ।। 2.17.1 ।। स गृहैरभ्रसङ्काशै: पाण्डरैरुपशोभितम् । राजमार्गं ययौ रामो मध्येनागरुधूपितम् ।। 2.17.2 ।। सगृहैरिति । मध्येन वीथीमध्येन । प्रकृत्यादित्वात्तृतीया ।। 2.17.2 ।। चन्दनानां च मुख्यानामगरूणां […]
16 Sarga अयोध्याकाण्डम्
श्रीमद्वाल्मीकीयरामायणम् अयोध्याकाण्डे षोडश: सर्ग: स तदन्त:पुरद्वारं समतीत्य जनाकुलम् । प्रविविक्तां तत: कक्ष्यामाससाद पुराणवित् ।। 2.16.1 ।। प्रासकार्मुकबिभ्रद्भिर्युवभिर्मृष्टकुण्डलै: । अप्रमादिभिरेकाग्रै: स्वनुरक्तैरधिष्ठिताम् ।। 2.16.2 ।। एवं सुमन्त्रस्य रामोपस्थानमुक्त्वा रामस्य दशरथोपस्थानमाह षोडशे–स तदित्यादि ।। 2.16.12 ।। तत्र काषायिणो वृद्धान् वेत्रपाणीन् स्वलंकृतान् । ददर्श विष्ठितान् द्वारि स्त्र्यध्यक्षान् सुसमाहितान् ।। 2.16.3 ।। ते समीक्ष्य समायान्तं रामप्रियचिकीर्षव: । सह सोत्पतिता: सर्वे […]
15 Sarga अयोध्याकाण्डम्
श्रीमद्वाल्मीकीयरामायणम् अयोध्याकाण्डे पञ्चदश: सर्ग: ते तु तां रजनीमुष्य ब्राह्मणा वेदपारगा: । उपतस्थुरुपस्थानं सह राजपुरोहिता: ।। 2.15.1 ।। अथ रामाभिषेकसामग्रीसन्निधानमाह पञ्चदशे–ते त्विति । उष्य उषित्वा । उपस्थानं सद: ।। 2.15.1 ।। अमात्या बलमुख्याश्च मुख्या ये निगमस्य च । राघवस्याभिषेकार्थे प्रीयमाणास्तु सङ्गता: ।। 2.15.2 ।। निगमस्य पुरस्य “निगमो निश्चये वेदे पुरे पथिवणिक्पथे” इति वैजयन्ती ।। 2.15.2 ।। […]
14 Sarga अयोध्याकाण्डम्
श्रीमद्वाल्मीकीयरामायणम् अयोध्याकाण्डे चतुर्दश: सर्ग: पुत्रशोकार्दितं पापा विसंज्ञं पतितं भुवि । विवेष्टमानमुद्वीक्ष्य सैक्ष्वाकमिदमब्रवीत् ।। 2.14.1 ।। अथ रामविवासननिर्द्धारणं दर्शयति चतुर्दशे–पुत्रेत्यादि ।। 2.14.1 ।। पापं कृत्वैव किमिदं मम संश्रुत्य संश्रवम् । शेषे क्षितितले सन्न: स्थित्यां स्थातुं त्वमर्हसि ।। 2.14.2 ।। पापमिति । संश्रवं दास्यामीति प्रतिज्ञाम् । संश्रुत्य कृत्वेत्यर्थ: । पाकं पचतीतिवन्निर्देश: । पापं प्रतिज्ञाताकरणरूपं पापं कृत्वैव क्षितितले […]
13 Sarga अयोध्याकाण्डम्
श्रीमद्वाल्मीकीयरामायणम् अयोध्याकाण्डे त्रयोदश: सर्ग: अतदर्हं महाराजं शयानमतथोचितम् । ययातिमिव पुण्यान्ते देवलोकात्परिच्युतम् ।। 2.13.1 ।। अनर्थरूपा सिद्धार्थाह्यभीता भयदर्शिनी । पुनराकारयामास तमेव वरमङ्गना ।। 2.13.2 ।। ‘न ते करिष्यामि वच:’ इत्युक्त्वापि धर्मपाशबद्धतया पश्चात्तप्त: पुनस्तां सान्त्वयति त्रयोदशेअतदर्हमित्यादि श्लोकद्वयमेकान्वयम् । अतदर्हं तादृश दु:खानर्हम् । अतथोचितम् अध:शयनानुचितम् । अनर्थरूपा पापरूपा । असिद्धार्था अनिष्पन्नप्रयोजनो । अभीता लोकापवादभीतिरहिता । भयदर्शिनी । दशरथस्येति […]
12 Sarga अयोध्याकाण्डम्
श्रीमद्वाल्मीकीयरामायणम् अयोध्याकाण्डे द्वादश: सर्ग: तत: श्रुत्वा महाराज: कैकेय्या दारुणं वच: । चिन्तामभिसमापेदे मुहूर्त्तं प्रतताप च ।। 2.12.1 ।। अथ सत्यपाशबद्धस्य राज्ञ: शोकं वर्णयति–तत इति । प्रतताप मुमूर्च्छेति यावत् ।। 2.12.1 ।। किं नु मे यदि वा स्वप्नश्चित्तमोहो ऽपि वा मम । अनुभूतोपसर्गो वा मनसो वाप्युपद्रव: । इति सञ्चिन्त्य तद्राजा नाभ्यगच्छत्तदा सुखम् ।। 2.12.2 ।। चिन्तां […]
11 Sarga अयोध्याकाण्डम्
श्रीमद्वाल्मीकीयरामायणम् अयोध्याकाण्डे एकादश: सर्ग: तं मन्मथशरैर्विद्धं कामवेगवशानुगम् । उवाच पृथिवीपालं कैकेयी दारुणं वच: ।। 2.11.1 ।। अथ ‘व्यवस्थाप्य महाराजं त्वमिमं वृणुया वरम्’ इति मन्थरयोपदिष्टमनुतिष्ठति–तमित्यादिना ।। 2.11.1 ।। नास्मि विप्रकृता देव केन चिन्नावमानिता । अभिप्रायस्तु मे कश्चित्तमिच्छामि त्वया कृतम् ।। 2.11.2 ।। नास्मीति । विप्रकृता रोगग्रस्ता । नार्थकामा ऽस्मीत्यपि द्रष्टव्यम् । निग्रहानुग्रहपक्षं मनसि कृत्वाह–अभिप्राय: अभिप्रेतोर्थ:, अस्तीति […]
10 Sarga अयोध्याकाण्डम्
श्रीमद्वाल्मीकीयरामायणम् अयोध्याकाण्डे दशम: सर्ग: विदर्शिता यदा देवी कुब्जया पापया भृशम् । तदा शेते स्म सा भूमौ दिग्धविद्धेव किन्नरी ।। 2.10.1 ।। अथ पूर्वोक्तं कैकेयीक्रोधमविचाल्यत्वसूचनायानुवदन् राज्ञ: कैकेयीदर्शनानुनयौ दर्शयति–विदर्शितेति । विदर्शिता विपरीतं बोधिता । दिग्धविद्धा विषलिप्तबाणेन प्रहृता । “विषक्ते दिग्धलिप्तकौ” इत्यमर: ।। 2.10.1 ।। निश्चित्य मनसा कृत्यं सा सम्यगिति भामिनी । मन्थरायै शनै: सर्वमाचचक्षे विचक्षणा ।। 2.10.2 […]