49 Sarga अयोध्याकाण्डम्
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकोनपञ्चाश: रामो ऽपि रात्रिशेषेण तेनैव महदन्तरम् । जगाम पुरुषव्याघ्र: पितुराज्ञामनुस्मरन् ।। 2.49.1 ।। अथ रामवृत्तान्तं प्रस्तौति–रामोपीति । तेनैव रात्रिशेषेण येन रात्रिशेषेण पौरान् विहाय गतस्तेनैव । महदन्तरं महावकाशम् । महहूरमिति यावत् ।। 2.49.1 ।। तथैव गच्छतस्तस्य व्यपायाद्रजनी शिवा । उपास्य स शिवां सन्ध्यां विषयान्तं व्यगाहत ।। 2.49.2 ।। तथेति । गच्छत: गच्छति […]
48 Sarga अयोध्याकाण्डम्
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे अष्टचत्वारिंश: सर्ग: तेषामेवं विषण्णानां पीडितानामतीव च । बाष्पविप्लुतनेत्राणां सशोकानां मुमूर्षया ।। 2.48.1 ।। तेषामित्यादि । मुमूर्षया मर्त्तुमिच्छयोपलक्षितानाम् ।। 2.48.1 ।। अनुगम्य निवृत्तनां रामं नगरवासिनाम् । उद्गतानीव सत्त्वानि बभूबुरमनस्विनाम् ।। 2.48.2 ।। स्वंस्वं निलयमागम्य पुत्रदारै: समावृता: । अश्रूणि मुमुचु: सर्वे बाष्पेण पिहितानना: ।। 2.48.3 ।। सत्त्वानि प्राणा: । “द्रव्यासुव्यवसायेषु सत्त्वम्” इत्यमर: । […]
47 Sarga अयोध्याकाण्डम्
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे सप्तचत्वारिंश: सर्ग: प्रभातायां तु शर्वर्यां पौरास्ते राघवं विना । शोकोपहतनिश्चेष्टा बभूवुर्हतचेतस: ।। 2.47.1 ।। अथ पौरवृत्तान्तं दर्शयति–प्रभातायामित्यादि । शोकोपहतनिश्चेष्टा: शोकोपहतत्वान्निश्चेष्टा: । हतचेतस: मूढा: ।। 2.47.1 ।। शोकजाश्रुपरिद्यूना वीक्षमाणास्ततस्तत: । आलोकमपि रामस्य न पश्यन्ति स्म दु:खिता: ।। 2.47.2 ।। शोकजेति । शोकजाश्रुभि: परिद्यूना: परिक्लान्ता: । आलोकमपि रामस्य रामसम्बन्ध्यालोकमपि । आलोक्यत इत्यालोक: तम् […]
46 Sarga अयोध्याकाण्डम्
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे षट्चत्वारिंश: सर्ग: ततस्तु तमसातीरं रम्यमाश्रित्य राघव: । सीतामुद्वीक्ष्य सौमित्रिमिदं वचनमब्रवीत् ।। 2.46.1 ।। सीतामुद्वीक्ष्य लक्ष्मणं प्रति कथनं वक्ष्यमाणस्यानुत्कण्ठाकारणस्य सीताविषयेपि तुल्यत्वज्ञापनाय ।। 2.46.1 ।। इयमद्य निशा पूर्वा सौमित्रे प्रहिता वनम् । वनवासस्य भद्रं ते स नोत्कण्ठितुमर्हसि ।। 2.46.2 ।। इयमिति । वनवासस्य पूर्वा प्रथमा । अद्येयं निशा इदानीमुपस्थिता रात्रि: । प्रहितागतप्रया । […]
45 Sarga अयोध्याकाण्डम्
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे पञ्चचत्वारिंश: सर्ग: अनुरक्ता महात्मानं रामं सत्यपराक्रमम् । अनुजग्मु: प्रयान्तं तं वनवासाय मानवा: ।। 2.45.1 ।। एवं सुमित्रया कौसल्याश्वासनपर्यन्तं कथासङ्घट्टनं परिसमाप्य सम्प्रति रामगमनवृत्तान्तं प्रस्तौति–अनुरक्ता इत्यादि ।। 2.45.1 ।। निवर्तिते ऽपि च बलात् सुहृद्वर्गे च राजनि । नैव ते संन्यवर्तन्त रामस्यानुगता रथम् ।। 2.45.2 ।। अयोध्यानिलयानां हि पुरुषाणां महा यशा: । बभूव गुणसम्पन्न: […]
44 Sarga अयोध्याकाण्डम्
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे चतुश्चत्वारिंश: सर्ग: विलपन्तीं तथा तां तु कौसल्यां प्रमदोत्तमाम् । इदं धर्म्ये स्थिता धर्म्यं सुमित्रा वाक्यमब्रवीत् ।। 2.44.1 ।। विलपन्तीमित्यादि । इदं वक्ष्यमाणम् ।। 2.44.1 ।। तवार्ये सद्गुणैर्युक्त: स पुत्र: पुरुषोत्तम: । किं ते विलपितेनैवं कृपणं रुदितेन वा ।। 2.44.2 ।। सत्पुरुषाचरितं धर्ममाचरन्तं रामं प्रति सन्तोषे कर्त्तव्ये किमर्थो विषाद: कृत इति कौसल्यां […]
43 Sarga अयोध्याकाण्डम्
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे त्रिचत्वारिंश: सर्ग: तत: समीक्ष्य शयने सन्नं शोकेन पार्थिवम् । कौसल्या पुत्रशोकार्त्ता तमुवाच महीपतिम् ।। 2.43.1 ।। तत इत्यादि ।। 2.43.1 ।। राघवे नरशार्दूले विषमुप्त्वा विजिह्मताम् । विचरिष्यति कैकेयी निर्मुक्तेव हि पन्नगी ।। 2.43.2 ।। विवास्य रामं सुभगा लब्धकामा समाहिता । त्रासयिष्यति मां भूयो दुष्टाहिरिव वेश्मनि ।। 2.43.3 ।। राघव इति । […]
42 Sarga अयोध्याकाण्डम्
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे द्विचत्वारिंश: सर्ग: यावत्तु निर्यतस्तस्य रजोरूपमदृश्यत । नैवेक्ष्वाकुवरस्तावत्सञ्जहारात्मचक्षुषी ।। 2.42.1 ।। यावत्त्वित्यादि । निर्यत: निर्गच्छत: । तस्य रामस्य सम्बन्धि रजोरूपं रजस्स्वरूपं यावददृश्यत तावन्न सञ्जहार न निवर्तितवान् ।। 2.42.1 ।। यावद्राजा प्रियं पुत्रं पश्यत्यत्यन्तधार्मिकम् । तावद्व्यवर्द्धतेवास्य धरण्यां पुत्रदर्शने ।। 2.42.2 ।। यावद्राजेति । पश्यति रजोद्वारेणेति शेष: । पुत्रदर्शने पुत्रदर्शननिमित्तम् । धरण्यां रजो व्यवर्द्धत […]
41 Sarga अयोध्याकाण्डम्
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकचत्वारिंश: तस्मिंस्तु पुरुषव्याघ्रे विनिर्याते कृताञ्जलौ । आर्तशब्दो ऽथ संजज्ञे स्त्रीणामन्त:पुरे महान् ।। 2.41.1 ।। तस्मिन्नित्यादि । कृताञ्जलौ मातृपरिवेष्टितं पितरमुद्दिश्य कृताञ्जलौ । अन्त:पुरे स्त्रीणां दशरथेन समागतानामन्त:पुरवासिनीनां स्त्रीणाम् ।। 2.41.1 ।। अनाथस्य जनस्यास्य दुर्बलस्य तपस्विन: । यो गति: शरणं चासीत् स नाथ: क्वनु गच्छति ।। 2.41.2 ।। अनाथस्येति । तपस्विन: शोच्यस्य । गम्यत […]
40 Sarga अयोध्याकाण्डम्
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे चत्वारिंश: सर्ग: अथ रामश्च सीता च लक्ष्मणश्च कृताञ्जलि: । उपसंगृह्य राजानं चक्रुर्दीना: प्रदक्षिणम् ।। 2.40.1 ।। तं चापि समनुज्ञाप्य धर्मज्ञ: सीतया सह । राघव: शोकसम्मूढो जननीमभ्यवादयत् ।। 2.40.2 ।। अथेति । उपसंगृह्य पादग्रहणपूर्वकं प्रणम्य । दीना: वृद्धयोर्मातापित्रो: शुश्रूषा न लब्धेति दीना: ।। 2.40.12 ।। अन्वक्षं लक्ष्मणो भ्रातु: कौसल्यामभ्यवादयत् । अथ मातु: […]