39 Sarga अयोध्याकाण्डम्
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकोनचत्वारिंश: सर्ग: ताश्चापि स तथैवार्ता मातृ़र्दशरथात्मज: । धर्मयुक्तमिदं वाक्यं निजगाद कृताञ्जलि: ।। 2.39.37 ।। ता इति । तथैवार्त्ता: कौसल्येव दु:खिता: ।। 2.39.37 ।। संवासात् परुषं किञ्चिदज्ञानाद्वापि यत्कृतम् । तन्मे समनुजानीत सर्वाश्चामन्त्रयामि व: ।। 2.39.38 ।। संवासादिति । संवासात् एकत्र सहवासात्, चिरपरिचयादित्यर्थ: । समनुजानीत क्षान्तमित्यनुज्ञां कुरुतेत्यर्थ: । आमन्त्रयामि आपृच्छामि ।। 2.39.38 ।। […]
38 Sarga अयोध्याकाण्डम्
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे अष्टत्रिंश: सर्ग: तस्यां चीरं वसानायां नाथवत्यामनाथवत् । प्रचुक्रोश जन: सर्वो धिक् त्वां दशरथं त्विति ।। 2.38.1 ।। तस्यामित्यादि । त्वां धिगिति दशरथं चुक्रोशेत्यर्थ: ।। 2.38.1 ।। तेन तत्र प्रणादेन दु:खित: स महीपति: । चिच्छेद जीविते श्रद्धां धर्मे यशसि चात्मन: ।। 2.38.2 ।। स निश्वस्योष्णमैक्ष्वाकस्तां भार्यामिदमब्रवीत् । कैकेयि कुशचीरेण न सीता गन्तुमर्हति […]
37 Sarga अयोध्याकाण्डम्
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे सप्तत्रिंश: सर्ग: महामात्रवच: श्रुत्वा रामो दशरथं तदा । अभ्यभाषत वाक्यं तु विनयज्ञो विनीतवत् ।। 2.37.1 ।। महामात्रेत्यादि । महामात्रवच: सिद्धार्थवच: । विनीतवत् विनीत इव । अभ्यभाषत सविनयमाहेत्यर्थ: ।। 2.37.1 ।। त्यक्तभोगस्य मे राजन् वने वन्येन जीवत: । किं कार्यमनुयात्रेण त्यक्तसङ्गस्य सर्वत: ।। 2.37.2 ।। त्यक्तभोगस्येति । अनुयात्रेण अनुगतबलेन । भोगत्यागेपि सङ्गो […]
36 Sarga अयोध्याकाण्डम्
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे षङ्त्रिंश: सर्ग: तत: सुमन्त्रमैक्ष्वाक: पीडितो ऽत्र प्रतिज्ञया । स बाष्पमतिनिश्वस्य जगादेदं पुन:पुन: ।। 2.36.1 ।। तत इत्यादि । तत: कैकेयीसम्मत्यभावानन्तरम् । अत्र वरदानविषये ।। 2.36.1 ।। सूत रत्नसुसम्पूर्णा चतुर्विधबला चमू: । राघवस्यानुयात्रार्थं क्षिप्रं प्रतिविधीयताम् ।। 2.36.2 ।। सूतेति । अनुयात्रार्थं प्रतिविधीयतां प्रेष्यताम् ।। 2.36.2 ।। रूपाजीवाश्च वादिन्यो वणिजश्चमहाधना: । शोभयन्तु कुमारस्य […]
35 Sarga अयोध्याकाण्डम्
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे पञ्चत्रिंश: सर्ग: ततो निर्द्धूय सहसा शिरो निश्वस्य चासकृत् । पाणिं पाणौ विनिष्पिष्य दन्तान् कटकटाप्य च ।। 2.35.1 ।। सुमन्त्रस्य कैकेयीविषयकोपानुभावं दर्शयति–तत इत्यादि । कटकटाप्य कटकटाशब्दयुक्तान् कृत्वा । कटकटाश्ाब्दात् “तत्करोति” इति ण्यन्ताल्ल्यप् ।। 2.35.1 ।। लोचने कोपसंरक्ते वर्णं पूर्वोचितं जहत् । कोपाभिभूत: सहसा सन्तापमशुभं गत: ।। 2.35.2 ।। मन: समीक्षमाणश्च सूतो दशरथस्य […]
34 Sarga अयोध्याकाण्डम्
श्रीरामायणे श्रीमदयोध्याकाण्डे चतुस्त्रिंश: सर्ग: तत: कमलपत्राक्ष: श्यामो निरुदरो महान् । उवाच रामस्तं सूतं पितुराख्याहि मामिति ।। 2.34.1 ।। स रामप्रेषित: क्षिप्रं सन्तापकलुषेन्द्रिय: । प्रविश्य नृपतिं सूतो निश्वसन्तं ददर्श ह ।। 2.34.2 ।। पूर्वसर्गान्तोक्तमर्थं वक्ष्यमाणसङ्घटनार्थं सङ्ग्रहेण दर्शयति–तत इति । विशेषणैर्निर्विकारत्वं सूच्यते । निरुदर: तनुमध्य इत्यर्थ: ।। 2.34.12 ।। उपरक्तमिवादित्यं भस्मच्छन्नमिवानलम् । तटाकमिव निस्तोयमपश्यज्जगतीपतिम् ।। 2.34.3 ।। […]
33 Sarga अयोध्याकाण्डम्
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे त्रयस्त्रिंश: सर्ग: दत्त्वा तु सह वैदेह्या ब्राह्मणेभ्यो धनं बहु ।जग्मतु: पितरं द्रष्टुं सीतया सह राघवौ ।। 2.33.1 ।। पूर्वं पित्रानुज्ञातो ऽपि सीतालक्ष्मणयोरनुज्ञापनाय पुन: रामो दशरथसमीपं गच्छति–दत्त्वेत्यादि ।। 2.33.1 ।। ततो गृहीते दुष्प्रेक्षे त्वशोभेतां तदायुधे । मालादामभिराबद्धे सीतया समलङ्कृते ।। 2.33.2 ।। तत इति । तदायुधे तयोरायुधे, धनुषी इति यावत् । खङ्गादीनामप्युपलक्षणमेतत् […]
32 Sarga अयोध्याकाण्डम्
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे द्वात्रिंश: सर्ग: तत: शासनमाज्ञाय भ्रातु: शुभतरं प्रियम् । गत्वा स प्रविवेशाशु सुयज्ञस्य निवेशनम् ।। 2.32.1 ।। एवं निश्चितसीतालक्ष्मणानुयात्रस्य रामस्य यात्रादानं प्रस्तूयते द्वात्रिंशे–तत इत्यादि । आज्ञाय अङ्गीकृत्य । शुभतरं ब्राह्मणोपकारत्वात् । प्रियम् आत्मनोनुगमनाङ्गीकारफलत्वात् ।। 2.32.1 ।। तं विप्रमग्न्यगारस्थं वन्दित्वा लक्ष्मणो ऽब्रवीत् । सखे ऽभ्यागच्छ पश्य त्वं वेश्म दुष्करकारिण: ।। 2.32.2 ।। तमिति […]
31 Sarga अयोध्याकाण्डम्
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकत्रिंश: सर्ग: एवं श्रुत्वा तु संवादं लक्ष्मण: पूर्वमागत: । बाष्पपर्याकुलमुख: शोकं सोढुमशक्नुवन् ।। 2.31.1 ।। स भ्रातुश्चरणौ गाढं निपीड्य रघुनन्दन: । सीतामुवाचातियशा राघवं च महाव्रतम् ।। 2.31.2 ।। एवं रामेण सीतागमने ऽङ्गीकृते लक्ष्मणस्यानुगमनप्रार्थनमुपक्षिपति–एवमित्यादिना । श्लोकद्वयमेकं वाक्यम् । एवं संवादं पूर्वोक्तं सीतारामयोस्संवादम् । पूर्वमागत: कौसल्यागृहाद्रामेण सह पूर्वमेवागत: । शोकम् अर्द्धशरीरभूताया: सीताया अपि […]
30 Sarga अयोध्याकाण्डम्
श्रीरामायणे वाल्मीकीये श्रीमदयोध्याकाण्डे त्रिंश: सर्ग: सान्त्व्यमाना तु रामेण मैथिली जनकात्मजा । वनवासनिमित्ताय भर्तारमिदमब्रवीत् ।। 2.30.1 ।। सान्त्व्यमानेति । जनकात्मजेतिविशेषणं स्वकुलोचिता चारदार्ढ्याय । वनवासनिमित्ताय वनवास एव निमित्तं प्रयोजनं तस्मै ।। 2.30.1 ।। सा तमुत्तमसंविग्ना सीता विपुलवक्षसम् । प्रणयाच्चाभिमानाच्च परिचिक्षेप राघवम् ।। 2.30.2 ।। सेति । उत्तमसंविग्ना उत्तममत्यन्तं कम्पमाना । विपुलवक्षमं शूरमिति यावत् । शूरमपि कथं चिक्षेपेत्यत्राह […]