67 Sarga किष्किन्धाकाण्डः

श्रीरामायणे श्रीमद्वाल्मीकीये आदिकाव्ये चतुर्विंशत्सहस्रिकायां संहितायां श्रीमत्किष्किन्धाकाण्डे सप्तषष्टितमः सर्गः।।67।। तं दृष्ट्वा जृम्भमाणं ते क्रमितुं शतयोजनम् । वीर्येणापूर्यमाणं च सहसा वानरोत्तमम् ।। 4.67.1 ।। सहसा शोकमुत्सृज्य प्रहेर्षेण समन्वताः । विनेदुस्तुष्टुवुश्चापि हनुमन्तं महाबलम् ।। 4.67.2 ।। प्रहृष्टा विस्मिताश्चैव वीक्षन्ते स्म समन्ततः । त्रिविक्रमकृतोत्साहं नारायणमिव प्रजाः ।। 4.67.3 ।। संस्तूयमानो हनुमान् व्यवर्धत महाबलः । समाविध्य च लाङ्गूलं हर्षाच्च बलमोयिवान् […]

66 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे षट्षष्ठितमः सर्गः अनेकशतसाहस्रीं विषण्णां हरिवाहिनीम् । जाम्बवान् समुदीक्ष्यैवं हनुमन्तमथाब्रवीत् ।। 4.66.1 ।। वीर वानरलोकस्य सर्वशास्त्रविशारद । तूष्णीमेकान्तमाश्रित्य हनुमान् किं न जल्पसि ।। 4.66.2 ।। हनुमन् हरिराजस्य सुग्रीवस्य समो ह्यसि । रामलक्ष्मणयोश्चापि तेजसा च बलेन च ।। 4.66.3 ।। अनेकेत्यादि ।। 4.66.13 ।। अरिष्टनेमिनः पुत्रो वैनतेयो महाबलः । गरुत्मानिति विख्यात उत्तमः सर्वपक्षिणाम् […]

65 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे पञ्चषष्टितमः सर्गः ततो ऽङ्गदवचः श्रुत्वा सर्वे ते वानरोत्तमाः । स्वं स्वं गतौ समुत्साहमाहुस्तत्र यथाक्रमम् ।। 4.65.1 ।। गजो गवाक्षो गवयः शरभो गन्धमादनः । मैन्दश्च द्विविदश्चैव सुषेणो जाम्बवांस्तथा ।। 4.65.2 ।। आबभाषे गजस्तत्र प्लवेयं दशयोजनम् । गवाक्षो योजनान्याह गमिष्यामीति विंशतिम् ।। 4.65.3 ।। गवयो वानरस्तत्र वानरांस्तानुवाच ह । त्रिंशतं तु गमिष्यामि योजनानां […]

64 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे चतुःषष्टितमः सर्गः आख्याता गृध्रराजेन समुत्पत्य प्लवङ्गमाः । सङ्गम्य प्रीतिसंयुक्ताः विनेदुः सिंहविक्रमाः ।। 4.64.1 ।। एवं प्रक्षिप्ताः पञ्च सर्गाः गताः ।। एवं कृतोदकं सम्पातिं स्वस्थानमानीय प्रकृतकार्याय वानरा गता इत्याह आख्याता इति । समुत्पत्य हर्षेण तत्र लङ्घनं कृत्वा सङ्गम्य पुनरन्योन्यं समेत्य विनेदुः ।। 4.64.1 ।। सम्पातेर्वचनं श्रुत्वा हरयो रावणक्षयम् । हृष्टाः सागरमाजग्मुः सीतादर्शनकाङ्क्षिणः […]

63 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे त्रिषष्टितमः सर्गः एतैरन्यैश्च बहुभिर्वाक्यैर्वाक्यविदां वरः । मां प्रशस्याभ्यनुज्ञाप्य प्रविष्टाः स स्वमाश्रमम् ।। 4.63.1 ।। कन्दरात्तु विसर्पित्वा पर्वतस्य शनैःशनैः । अहं विन्ध्यं समारुह्य भवतः प्रतिपालये ।। 4.63.2 ।। एतैरित्यादि ।। 4.63.1,2 ।। अद्य त्वेतस्य कालस्य साग्रं वर्षशतं गतम् । देशकालप्रतीक्षो ऽस्मि हृदि कृत्वा मुनेर्वचः ।। 4.63.3 ।। अद्य त्विति । पूर्वं निशाकरमुनिप्रयाणानन्तरम् […]

62 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे द्विषष्टितमः सर्गः एवमुक्त्वा मुनिश्रेष्ठमरुदं दुःखितो भृशम् । अथ ध्यात्वा मुहूर्तं तु भगवानिदमब्रवीत् ।। 4.62.1 ।। पक्षौ च ते प्रपक्षौ च पुनरन्यौ भविष्यतः । प्राणाश्च चक्षुषी चैव विक्रमश्च बलं च ते ।। 4.62.2 ।। पुराणे सुमहत्कार्यं भविष्यति मया श्रुतम् । दृष्टं मे तपसा चैव श्रुत्वा च विदितं मम ।। 4.62.3 ।। राजा […]

61 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे एकषष्टितमः सर्गः ततस्तद्दारुणं कर्म दुष्करं साहसात्कृतम् । आचचक्षे मुनेः सर्वं सूर्यानुगमनं तदा ।। 4.61.1 ।। भगवन् व्रणयुक्तत्वाल्लज्जया व्यकुलोन्द्रियः । परिश्रान्तो न शक्नोमि वचनं प्रतिभाषितुम् ।। 4.61.2 ।। ततस्तदित्यादि ।। 4.61.1,2 ।। अहं चैव जटायुश्च सङ्घर्षाद्दर्पमोहितौ । आकाशं पतितौ वीरौ जिज्ञासन्तौ पराक्रमम् ।। 4.61.3 ।। कैलासशिखरे बध्वा मुनीनामग्रतः पणम् । रविः स्यादनुयातव्यो […]

60 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे षष्टितमः सर्गः ततः कृतोदकं स्नातं तं गृध्रं हरियूथपाः । उपविष्टा गिरौ दुर्गे परिवार्य समन्ततः ।। 4.60.1 ।। ततः कृतोदकमित्यादि ।। 4.60.1 ।। तमङ्गदमुपासीनं तैः सर्वैर्हरिभिर्वृतम् । जनितप्रत्ययो हर्षात्सम्पातिः पुनरब्रवीत् ।। 4.60.2 ।। कृत्वा निःशब्दमेकाग्राः शृण्वन्तु हरयो मम । तत्त्वं सङ्कीर्तयिष्यामि यथा जानामि मैथिलीम् ।। 4.60.3 ।। अस्य विन्ध्यस्य शिखरे पतितो ऽस्मि […]

59 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे एकोनषष्टितमः सर्गः ततस्तदमृतास्वादं गृध्रराजेन भाषितम् । निशम्य मुदिता हृष्टास्ते वचः प्लवगर्षभाः ।। 4.59.1 ।। जाम्बवान् वानरश्रेष्ठः सह सर्वैः प्लवङ्गमैः । भूतलात्सहसोत्थाय गृध्रराजमथाभ्रवीत् ।। 4.59.2 ।। क्क सीता केन वा दृष्टा को वा हरति मैथिलीम् । तदाख्यातु भवान् सर्वं गतिर्भव वनौकसाम् ।। 4.59.3 ।। को दाशरथिबाणानां वज्रवेगनिपातिनाम् । स्वयं लक्ष्मणमुक्तानां न चिन्तयति […]

58 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे अष्टपञ्चाशः सर्गः इत्युक्तः करुणं वाक्यं वानरैस्त्यक्तजीवितैः । सबाष्पो वानरान् गृध्रः प्रत्युवाच महास्वनः ।। 4.58.1 ।। अथ सम्पातिना सीतास्थानकथनमष्टपञ्चाशे इत्युक्त इत्यादि ।। 4.58.1 ।। यवीयान् मम स भ्राता जटायुर्नाम वानराः । यमाख्यात हतं युद्धे रावणेन बलीयसा ।। 4.58.2 ।। वृद्धभावादपक्षत्वाच्छृण्वंस्तदपि मर्षये । नहि मे शक्तिरस्त्यद्य भ्रातुर्वैरविमोक्षणे ।। 4.58.3 ।। यवीयानिति । आख्यात […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.