57 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे सप्तपञ्चाशः सर्गः शोकाद् भ्रष्टस्वरमपि श्रुत्वा ते हरियूथपाः । श्रद्दधुर्नैव तद्वाक्यं कर्मणा तस्य शङ्किताः ।। 4.57.1 ।। अथ सम्पातिप्रश्नोत्तरं सप्तपञ्चाशे शोकादित्यादि । कर्मणा हिंसाकर्मणा ।। 4.57.1 ।। ते प्रायमुपविष्टास्तु दृष्ट्वा गृध्रं प्लवङ्गमाः । चक्रुर्बुद्धिं तदा रौद्रां सर्वान् नो भक्षयिष्यति ।। 4.57.2 ।। सर्वथा प्रायमासीनान् यदि नो भक्षयिष्यति । कृतकृत्या भविष्यामः क्षिप्रं सिद्धिमितो […]

56 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे षट्पञ्चाशः सर्गः उपविष्टास्तु ते सर्वे यस्मिन् प्रायं गिरिस्थले । हरयो गृध्रराजश्च तं देशमुपचक्रमे ।। 4.56.1 ।। अथ सम्पातिसंवनादः षट्पञ्चाशे उपविष्टा इत्यादि । उपचक्रमे प्राप्तुमुपक्रान्तः ।। 4.56.1 ।। सम्पातिर्नाम नाम्ना तु चिरञ्चीवी विहङ्गमः । भ्राता जटायुषः श्रीमान् प्रख्यातबलपौरुषः ।। 4.56.2 ।। कन्दरादभिनिष्क्रम्य स विन्ध्यस्य महागिरेः । उपविष्टान् हरीन् दृष्ट्वा हृष्टात्मा गिरमब्रवीत् ।। […]

55 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे पञ्चपञ्चाशः सर्गः श्रुत्वा हमुमतो वाक्यं प्रश्रितं धर्मसंहितम् । स्वामिसत्कारसंयुक्तमङ्गदो वाक्यमब्रवीत् ।। 4.55.1 ।। अथ हरीणां प्रायोपवेशः पञ्चपश्चाशे श्रुत्वेत्यादि ।। 4.55.1 ।। स्तैर्यमात्ममनःशौचमानृशंस्यमथार्जवम् । विक्रमश्चैव धैर्यं च सुग्रीवे नोपपद्यते ।। 4.55.2 ।। स्थैर्यं स्थिरबुद्धिता । आत्ममनःशौचम् आत्मशुद्धिः मनसः शैचम्, अन्तःकरणशुद्धिश्चेत्यर्थः । धैर्यं गाम्भीर्यम् ।। 4.55.2 ।। भ्रातुर्ज्येष्ठस्य यो भार्यां जीवतो महिषीं प्रियाम् […]

54 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे चतुष्पञ्चाशः सर्गः तथा ब्रुवति तारे तु ताराधिपतिवर्चसि । अथ मेने हृतं राज्यं हनुमानङ्गदेन तत् ।। 4.54.1 ।। अथ हनुमता अङ्गदमतभेदनपूर्वकमङ्गदस्य सुग्रीवसमीपगमनाय नियोजनं चतुष्पञ्चाशे तथेत्यादि । राज्यं हृतं मेने राज्यं कर्तुं सामर्थ्यमस्तीति मेन इत्यर्थः ।। 4.54.1 ।। बुद्ध्या ह्यष्टाङ्गया युक्तं चतुर्बलसमन्वितम् । चतुर्दशगुणं मेने हनुमान् वालिनः सुतम् ।। 4.54.2 ।। अष्टाङ्गया “ग्रहणं […]

53 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे त्रिपञ्चाशः सर्गः एवमुक्तः शुभं वाक्यं तापस्या धर्मसंहितम् । उवाच हनुमान् वाक्यं तामनिन्दितचेष्टिताम् ।। 4.53.1 ।। अथ बिलादुत्तीर्णानां वानराणां निर्वेदः त्रिपञ्चाशे एवमुक्त इत्यादि ।। 4.53.1 ।। शरणं त्वां प्रपन्नाः स्मः सर्वे वै धर्मचारिणि । यः कृतः समयो ऽस्माकं सुग्रीवेण महात्मना ।। 4.53.2 ।। स च कालो ह्यतिक्रान्तो बिले च परिवर्तताम् । सा […]

52 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे द्विपञ्चाशः सर्गः अथ तानब्रवीत्सर्वान् विक्रान्तात् हरिपुङ्गवान् । इदं वचनमेकाग्रा तापसी धर्मचारिणी ।। 4.52.1 ।। वानरा यदि वः खेदः प्रनष्टः फलभक्षणात् । यदि चैतन्मया श्राव्यं श्रोतुमिच्छामि कथ्यताम् ।। 4.52.2 ।। अथ हनुमता स्वागमनहेतुरुच्यते द्विपञ्चाशे अथेत्यादि ।। 4.52.1,2 ।। तस्यास्तद्वचनं श्रुत्वा हनुमान् मारुतात्मजः । आर्जवेन यथातत्त्वमाख्यातुमुपचक्रमे ।। 4.52.3 ।। राजा सर्वस्य लोकस्य महेन्द्रवरुणोपमः […]

51 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे एकपञ्चाशः सर्गः इत्युक्त्वा हनुमांस्तत्र पुनः कृष्णाजिनाम्बराम् । त्ित्र त्त्र अब्रवीत्तां महाभागां तापसीं धर्मचारिणीम् ।। 4.51.1 ।। अथ स्वयम्प्रभया ऋक्षबिलवृत्तान्तोक्तिरेकपञ्चाशे इत्युक्त्वेत्यादि ।। 4.51.1 ।। इदं प्रविष्टाः सहसा बिलं तिमिरसंवृतम् । क्षुत्पिपासापरिश्रान्ताः परिखिन्नाश्च सर्वशः ।। 4.51.2 ।। परिखिन्नाः अध्वश्रमखिन्नाः ।। 4.51.2 ।। महद्धरण्या विवरं प्रविष्टाः स्म पिपासिताः । इमास्त्वेवंविधान् भावान् विविधानद्भुतोपमान् ।। 4.51.3 […]

50 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे पञ्चाशः सर्गः सह ताराङ्गदाभ्यां तु सङ्गम्य हनुमान् कपिः । विचिनोति स्म विन्ध्यस्य गुहाश्च गहनानि च ।। 4.50.1 ।। सिंहशार्दूलजुष्टेषु शिलाश्च सरितस्तथा । विषमेषु नगेन्द्रस्य महाप्रस्रवणेषु च ।। 4.50.2 ।। अथ ऋक्षबिले स्वयम्प्रभादर्शनं पञ्चाशे सहेत्यादि । नगेन्द्रस्य शार्दूलजुष्टेषु विषमेषु विषमप्रदेशु शिलाः महाप्रस्रवणेषु सरितश्च विचिनोतिस्मेति पूर्वेणान्वयः ।। 4.50.1,2 ।। आसेदुस्तस्य शैलस्य कोटिं दक्षिणपश्चिमाम् […]

49 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे एकोनपञ्चाशः सर्गः अेथाङ्गदस्तदा सर्वान् वानरानिदमब्रवीत् । परिश्रान्तो महाप्राज्ञः समाश्वस्य शनैर्वचः ।। 4.49.1 ।। वनानि गिरयो नद्यो दुर्गाणि गहनानि च । दर्यो गिरिगुहाश्चैव विचितानि समन्ततः ।। 4.49.2 ।। तत्र तत्र सहास्माभिर्जानकी न च दृश्यते । तद्वा रक्षो हृता येन सीता सुरसुतोपमा ।। 4.49.3 ।। कालश्च वो महान् यातः सुग्रीवश्चोग्रशासनः । तस्माद्भवन्तः सहिता […]

48 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे अष्टचत्वारिंशः सर्गः सह ताराङ्गदाभ्यां तु गत्वा स हनुमान् कपिः । सुग्रीवेण यथोद्दिष्टं तं देशमुपचक्रमे ।। 4.48.1 ।। अथ सीतान्वेषणाय दक्षिणां दिशं गतानामसुरनिरसनपर्यन्तो वृत्तान्तो ऽष्टचत्वारिंशे सह ताराङ्गदाभ्यामित्यादि ।। 4.48.1 ।। स तु दूरमुपागम्य सर्वैस्तैः कपिसत्तमैः । विचिनोति स्म विन्ध्यस्य गुहाश्च गहनानि च ।। 4.48.2 ।। पर्वताग्रान्नदीदुर्गान् सरांसि विपुलान् द्रुमान् । वृक्षषण्डांश्च विविधान् […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.