श्रीपादतीर्थश्लोकाः
श्रीमते रामानुजाय नमः श्रीमद्रामानुजाचार्याणां श्रीपादतीर्थश्लोकाः १. कृपामूर्तिस्स्वयं श्रीशकृपाकाङ्क्षी जगद्गुरुः। अस्मान्रामानुजश्श्रीमान्पुनातु स्वाङ्घ्रिवारिभिः॥ २. तमो विवस्वानिव मानसं तमो यः कालयत्यार्द्रमनाश्रितानाम्। जगद्गुरोस्तस्य यतीश्वरस्य पुनातु नः पादसरोरुहोदकम्॥ ३. यत्पादस्मरणान्मर्त्या स्त्यजन्ति भवसाध्वसम्। रामानुजस्य तस्य श्रीपादतीर्थं पुनातु नः॥ ४. यन्नामस्मरणान्नॄणां सर्वसिद्धिर्भवेदिह। पुनातु लक्ष्मणार्यस्य तस्य पादोदकं तु नः॥ ५. रामानुजमहीभृ छ्छ्रीपादप्रस्रुतनिर्झरः। स्नापयन्नात्मनः पापान्पुनातु जगतीतले॥ ६. विशिष्टाद्वैतसिद्धान्तदर्शनेन जनेक्षणम्। उन्मीलितवतस्तस्य पादतीर्थं पुनातु नः॥ ७. […]
यतिपतिदिनचर्या
श्रीमते रामानुजायनमः श्रीमद्रम्यजामातृगुरवे नमः यतिपतिदिनचर्या यतिपतिदिनचर्यां यश्चकारातिभोग्यां वरवरमुनिपौत्र स्सौम्य जामातृनामा। गुरुरमलगुणानां वैष्णवानां मुदे तं गुरुजनवर मीडे गोमठाख्यान्ववायम्।। १. श्रीमद्रङ्गे दिव्यधाम्नि श्रीश्रीकान्तमनोहरे। वसन्तं गुरुमार्याणां वन्दे रामानुजं मुनिम्।। २. ब्राह्मे मुहूर्तेचोत्थाय ध्यात्वा गुरुपरंपराम्। रहस्यत्रितयं रम्यं परव्यूहादिकांस्तथा।। ३. पञ्चप्रकारांश्च हरे रर्चिरादिगतेः क्रमम्। ध्यायन्तं कूरनाधाद्यै स्सेव्यमानं गरूत्तमैः।। ४. चतुःश्लोकीं स्तोत्ररत्नं स्तोत्रं यामुनवक्तृकम्। भक्ताङ्घ्रिरेणु श्रीसूक्तीः प्रबोधनपराश्शुभाः।। ५. प्राबोधिकीश्च गोदाया स्सूक्ती […]
यतिराज दण्डकः
यतिराज दण्डकः नमस्त्रय्यन्तपर्यन्त चर्यापर्याय वेधसे। नरवेषाय शेषाय गुरवे परवेदिने।। जय यतिकुलनाथ नाथादिवाचासनाथागमान्तानुरो- धामितागाध बोधावधान प्रधान प्रथानून मेधासमाधानमाधाय बाधावरोधौ विधूयावधूयाद्वयध्वान्तमध्वान्तरं शुद्धमुद्धृत्य भास्वत्प्रभावं स्वभावं विभाव्य त्रयीदिव्य धेनूदितानवृ गव्यायित व्याससूत्राणि चित्राणि सन्मार्गमित्राणि बुद्ध्वा दुरध्वोद्धताबद्ध नानाविरुद्ध प्रमाण प्रसिद्धापसिद्धान्त निर्धारणौद्धत्य पद्धत्यनुच्छेद्य सद्यस्समिद्धाग्नि तप्तानि लुप्तानि मा सन्त्विति प्रेक्ष्य साक्षात्सरोजाक्ष वीक्षामृत स्यन्दि बिन्दूपसंदानिता मन्दसंदर्भ गर्भस्फुरद्यामुनेय प्रबन्धानुसन्धान संजात शीतानिल व्रातजातेन गीतेन सर्वाविगीतेन चैतानि […]
श्रीयतिराजमङ्गलानुशानम्
अथ श्रीयतिराजमङ्गलानुशानम् श्रीमन्महाभूतपुरे श्रीमत्केशवयज्वनः । कान्तिमत्यां प्रसूताय यतिराजाय मङ्गलम् ॥ (१) वरवरमुनेः शेषो वा सैन्यनाथो वा श्रीपति वेति सात्विकैः । वितर्क्याय महाप्राज्ञैः यतिराजाय मङ्गलम् ।। (२) अनन्ताल्वारु-कृतिः नाथपद्माक्षरामार्यपादपङ्कज सेविने । सेव्याय सर्वयमिनां यतिराजाय मङ्गळम् ॥ (३) श्रीकाञ्चीपूर्णमिश्रोक्त रहस्यार्थविदे सदा । देवराजप्रियायास्तु यतिराजाय मङ्गळम् ॥ (४) आचार्याणाम् सन्यासं कुर्वते काञ्च्यां अनन्तसरसीतटे । वरदे न्यस्तभाराय भाष्यकाराय मङ्गळम् ॥ […]
ஶ்ரீஸ்வாமி வடிவழகுக் கட்டியம்
ஶ்ரீமதே ராமானுஜாய நம: ஶ்ரீஸ்வாமி வடிவழகுக் கட்டியம் நாயிந்தே, நாயிந்தே! காஷாயஶோபி கமநீய ஶிகாநிவேஶம் தண்டத்ரயோஜ் ஜ்வலகரம் விமலோபவீதம் । உத்யத்திநேஶ நிபம் உல்லஸதூர்த்த்வ புண்ட்ரம் ரூபம் தவாஸ்து யதிராஜ த்ருஶோர்மமாக்ரே ।। அப்பனுக்குச் சங்காழி அளித்தருளும் பெருமாள்! அறமிகு நற்பெரும்பூதூர் அவதரித்த பெருமாள்! அறுசமயச் செடியதனை அடியறுத்த பெருமாள்! அருளாழி வரிவண்டே என்று ஆழ்வார் அழைக்கும் பெருமாள்! அருள்மாரி அடியிணைக்கீழ் அன்புபூண்ட பெருமாள்! அஞ்சுகுடிக்கொரு சந்ததியாம் ஆண்டாள் தமக்கும் அண்ணரான பெருமாள்! அரங்கர் மௌலி சூழ்கின்ற […]
रामानुज चतुश्लोकी
रामानुज चतुश्लोकी श्रीमद्रामानुजाचार्यश्रीपादांभोरुहद्वयम् । सदुत्तमाङ्गसन्धार्यम् अनन्तार्यमहं भजे ।। अनिशं भजतामनन्यभाजां चरणांभोरुहमादरेण पुंसाम् । वितरन्निभृतं विभूतियुग्मं जय रामानुज रङ्गधाम्नि नित्यम् ।। (१) श्रुतिषु स्मृतिषु प्रमाणतत्त्वं कृपयालोक्य विशुद्धया हि बुद्ध्या । आकरोः किल दिव्यभाष्यरत्नं जय रामानुज शेषशैलशृङ्गे ।। (२) मलिनान् विमतांस्त्वदीयसूक्तिः कुलिशीभूय कुदृष्टिभिस्समेतान् । शकलीकुरुते विपक्षवृत्तान् जय रामानुज हस्तिधाम्नि नित्यम् ।। (३) जय मायिमतान्धकारभानो जय बाह्य प्रमुखाटवीकृशानो […]
अनुभूयमानाः चतस्रःभगवद्रामानुजार्चाः
अनुभूयमानाः चतस्रःभगवद्रामानुजार्चाः १. भविष्यदाचार्यः–श्रीशठारि–सन्दृष्टः दक्षिणकुरुकापुर्याम् श्रीरामानुजचतुर्वेदिमङ्गलाग्रहारस्थः शठारि-नाथ-दृष्टाय मेषार्द्रा-भव्य-मूर्तये। महाभूतपुरीशाय स्व-पूर्वार्चा-भुवे नमः॥ २. तानुहन्द–तिरुमेनि, श्रीयादवाद्रि यतिराजः उत्सवार्चा–विजयदशमी द्विपञ्चाशद् वैष्णवाग्रे स्वार्थे सम्पत्सुताय यः। विजयाश्वयुजेऽर्चाभूद्-यतिराजाय मङ्गलम्॥ – इळैयविल्लिगुरोः ३. तमरुहन्द–तिुरमेनि, श्रीमन्महाभूतपुरस्था उत्सवार्चा – तै पुष्यम् स्वावतारस्थलेऽर्चाभून्+मकरे गुरुपुष्यके। यन्मुदे तु यतीन्द्रस् तं वारणाधीशमाश्रये॥ – तिरुमुडि अहैवु (रामानुजगुरुं भजे) ४. तानान–तिरुमेनि श्रीरङ्गबृन्दावनस्था सुधालिप्ता मूर्तिः माघशुद्ध-दशम्यां तु मध्यान्हे मन्दवासरे। योगिराजस् स्व-भोगीश-भावं […]
श्रीभाष्यकारप्रपत्तिः
श्रीः श्रीभाष्यकार–प्रपत्तिः श्रीमते रामानुजाय नमः श्रीवैष्णवागमपयोदधि पूर्णचन्द्र श्रीशाङ्घ्रिपद्म मकरन्दरसज्ञभृङ्ग। गोविन्दवर्यकरसारसपूजितौ ते श्रीभाष्यकारचरणौ शरणं प्रपद्ये ॥ (१) श्रीशैलपूर्णमुखदेशिकलब्धबोध तुर्याश्रमप्रथित मौनिकुल प्रदीप। भट्टार्यवर्यकरनीरजपूजितौ ते श्रीभाष्यकारचरणौ शरणं प्रपद्ये ॥ (२) काञ्चीपुरीवरदराजकृपैकपात्र रङ्गेश पूर्णकरुणा परिणामरूप। वेदान्तदेशिककराम्बुज पूजितौ ते श्रीभाष्यकारचरणौ शरणं प्रपद्ये ॥ (३) श्रीयादवाद्रि पतिपादसरोजहंस श्रीभूतपट्टणरमेश कटाक्ष धन्य। शेषावतार कलिवैरिकरार्चितौ ते श्रीभाष्यकारचरणौ शरणं प्रपद्ये॥ (४) श्रीवेङ्कटाचलपति प्रियलक्ष्मणार्य सर्वज्ञभव्य यतिशेखर […]
श्रीरामानुज-षट्-त्रिंशत्
श्रीरामानुज–षट्–त्रिंशत् श्रीमते रामानुजाय नमः भजयति राजं भजयति राजं भजयति राजं भवभीरो ।। श्रीरङ्गेश जयाश्रयकेतुः श्रितजन-संरक्षणजीवातुः । भवभयजलधेः एष हि हेतुः पद्मानेतुः प्रणतौ हेतुः ।। (१) भज… आदौ जगदाधारश्शेषस्तदनुसुमित्रादनवेषः । तदुपरि धृतहलमुसलविशेष-स्तदनंतरमभवद्गुरुरेषः ।। (२) भज… भुङ्क्ते वैषयि किं सुखमन्यः प्रचकास्त्येवानश्नन्नन्यः । इतीयस्तत्वं प्रहवदान्यस्तस्माधीकः को नु वदान्यः ।। (३) भज… गुणगुणिनोर्भेदः किल नित्यश्पडि विद्द्वय परभेदस्सत्यः । तद्वयदे […]
श्रीभगवद्रामानुज सुप्रभातम्
श्रीमते रामानुजाय नमः श्रीरामानुज–सुप्रभातम् (Version 01) जय जय यति सार्व भौमामलस्वान्त ! तुभ्यं नमः जय जय जनिसिन्धुमग्नात्मसन्तारकग्रामणीः!। जय जय भजनीय ! कूरेशमुख्यैः प्रसीद प्रभो ! जय जय विदुषां निधे! जागृहि श्रीनिधे! जागृहि॥ १ पूर्णायपूर्णकरुणापरिलब्धबोध ! वैराग्यभक्तिमुखदिव्यगुणामृताब्धे !। श्रीयामुनार्यपदपङ्कजराजहंस ! रामानुजार्य! भगवन् ! तव सुप्रभातम् ॥ २ आनेतुमद्य वरदस्य गजाद्रिभर्तुः पानीयमच्छमतिशीतमगाधकूपात्। ध्वान्तं निरस्तमरुणस्य करैस्समन्तात् रामानुजार्य ! […]