अनुभूयमानाः चतस्रःभगवद्रामानुजार्चाः

अनुभूयमानाः चतस्रःभगवद्रामानुजार्चाः १. भविष्यदाचार्यः–श्रीशठारि–सन्दृष्टः दक्षिणकुरुकापुर्याम्‌ श्रीरामानुजचतुर्वेदिमङ्गलाग्रहारस्थः शठारि-नाथ-दृष्टाय मेषार्द्रा-भव्य-मूर्तये। महाभूतपुरीशाय स्व-पूर्वार्चा-भुवे नमः॥ २. तानुहन्द–तिरुमेनि, श्रीयादवाद्रि यतिराजः उत्सवार्चा–विजयदशमी द्विपञ्चाशद्‌ वैष्णवाग्रे स्वार्थे सम्पत्सुताय यः। विजयाश्वयुजेऽर्चाभूद्‌-यतिराजाय मङ्गलम्‌॥ – इळैयविल्लिगुरोः ३. तमरुहन्द–तिुरमेनि, श्रीमन्महाभूतपुरस्था उत्सवार्चा – तै पुष्यम्‌ स्वावतारस्थलेऽर्चाभून्‌+मकरे गुरुपुष्यके। यन्मुदे तु यतीन्द्रस्‌ तं वारणाधीशमाश्रये॥ – तिरुमुडि अहैवु (रामानुजगुरुं भजे) ४. तानान–तिरुमेनि श्रीरङ्गबृन्दावनस्था सुधालिप्ता मूर्तिः माघशुद्‌ध-दशम्यां तु मध्यान्हे मन्दवासरे। योगिराजस्‌ स्व-भोगीश-भावं […]

श्रीभाष्यकारप्रपत्तिः

श्रीः श्रीभाष्यकार–प्रपत्तिः श्रीमते रामानुजाय नमः श्रीवैष्णवागमपयोदधि पूर्णचन्द्र श्रीशाङ्घ्रिपद्म मकरन्दरसज्ञभृङ्ग। गोविन्दवर्यकरसारसपूजितौ ते श्रीभाष्यकारचरणौ शरणं प्रपद्ये ॥ (१) श्रीशैलपूर्णमुखदेशिकलब्धबोध तुर्याश्रमप्रथित मौनिकुल प्रदीप। भट्टार्यवर्यकरनीरजपूजितौ ते श्रीभाष्यकारचरणौ शरणं प्रपद्ये ॥ (२) काञ्चीपुरीवरदराजकृपैकपात्र रङ्गेश पूर्णकरुणा परिणामरूप। वेदान्तदेशिककराम्बुज पूजितौ ते श्रीभाष्यकारचरणौ शरणं प्रपद्ये ॥ (३) श्रीयादवाद्रि पतिपादसरोजहंस श्रीभूतपट्टणरमेश कटाक्ष धन्य। शेषावतार कलिवैरिकरार्चितौ ते श्रीभाष्यकारचरणौ शरणं प्रपद्ये॥ (४) श्रीवेङ्कटाचलपति प्रियलक्ष्मणार्य सर्वज्ञभव्य यतिशेखर […]

श्रीरामानुज-षट्-त्रिंशत्

श्रीरामानुज–षट्–त्रिंशत् श्रीमते रामानुजाय नमः भजयति राजं भजयति राजं भजयति राजं भवभीरो ।। श्रीरङ्गेश जयाश्रयकेतुः श्रितजन-संरक्षणजीवातुः । भवभयजलधेः एष हि हेतुः पद्मानेतुः प्रणतौ हेतुः ।। (१) भज… आदौ जगदाधारश्शेषस्तदनुसुमित्रादनवेषः । तदुपरि धृतहलमुसलविशेष-स्तदनंतरमभवद्गुरुरेषः ।। (२) भज… भुङ्क्ते वैषयि किं सुखमन्यः प्रचकास्त्येवानश्नन्नन्यः । इतीयस्तत्वं प्रहवदान्यस्तस्माधीकः को नु वदान्यः ।। (३) भज… गुणगुणिनोर्भेदः किल नित्यश्पडि विद्द्वय परभेदस्सत्यः । तद्वयदे […]

श्रीभगवद्रामानुज सुप्रभातम्

श्रीमते रामानुजाय नमः श्रीरामानुज–सुप्रभातम्  (Version 01) जय जय यति सार्व भौमामलस्वान्त ! तुभ्यं नमः जय जय जनिसिन्धुमग्नात्मसन्तारकग्रामणीः!। जय जय भजनीय ! कूरेशमुख्यैः प्रसीद प्रभो ! जय जय विदुषां निधे! जागृहि श्रीनिधे! जागृहि॥ १ पूर्णायपूर्णकरुणापरिलब्धबोध ! वैराग्यभक्तिमुखदिव्यगुणामृताब्धे !। श्रीयामुनार्यपदपङ्कजराजहंस ! रामानुजार्य! भगवन् ! तव सुप्रभातम् ॥ २ आनेतुमद्य वरदस्य गजाद्रिभर्तुः पानीयमच्छमतिशीतमगाधकूपात्। ध्वान्तं निरस्तमरुणस्य करैस्समन्तात् रामानुजार्य ! […]

श्री रामानुजाष्टकम्

श्री रामानुजाष्टकम् रामानुजाय मुनये नम उक्तिमात्रं कामातुरोऽपि कुमतिः कलयन्नभीष्टम् । यामामनन्ति यमिनां भगवज्जनानां तामेव विन्दति गतिं तमसः परस्तात् ॥ (१) सोमावचूड सुरशेखर-दुष्करेण कामातिगोऽपि तपसा क्षपयन्नघानि । रामानुजाय मुनये नम इत्यनुक्त्वा को वा महीसहचरे कुरुतेऽनुरागम् ॥ (२) रामानुजाय नम इत्यसकृद्गृणीते यो मान-मात्सर-मदस्मर-दूषितोऽपि । प्रेमातुरः प्रियतमामपहाय पद्मां भूमा भुजङ्ग-शयनस्तमनुप्रयाति ॥ (३) वामालका-नयनवागुरिका-गृहीतं क्षेमाय किञ्चिदपि कर्तुमनीहमानम् । रामानुजो […]

श्रीरामानुज अष्टोत्तरशतनामावळी

श्रीरामानुज अष्टोत्तरशतनामावळी(ळिः) ओं श्रीरामानुजाय नमः ओं पुष्कराक्षाय नमः ओं यतीन्द्राय नमः ओं करुणाकराय नमः ओं कान्तिमत्यात्मजाय नमः ओं श्रीमते नमः ओं लीलामानुषविग्रहाय नमः ओं सर्वशास्त्रार्थतत्वज्ञाय नमः ओं सर्वज्ञाय नमः ओं सज्जनप्रियाय नमः                                     १० ओं नारायणकृपापात्राय नमः ओं श्रीभूतपुरनायकाय नमः ओं अनघाय नमः ओं भक्तमन्दाराय नमः ओं केशवानन्दवर्धनाय नमः ओं काञ्चीपूर्णप्रियसखाय नमः ओं प्रणतार्तिविनाशकाय नमः ओं […]

धाटीपञ्चकम्-श्रीवत्सचिह्नमिश्र

श्रीवत्सचिह्नमिश्रादिभिरनुगृहीतमिति प्रथितं ॥ धाटीपञ्चकम् ॥ पाषण्डद्रुमषण्डदावदहनश्चार्वाकशैलाशनि: बौद्धध्वान्तनिरासवासरपतिः जैनेभकण्ठीरवः ।  मायावादिभुजङ्गभङ्गगरुडस्त्रैविद्यचूडामणिः श्रीरङ्गेशजयध्वजो विजयते रामानुजोsयं मुनिः ॥ १ ॥ पाषण्डषण्डगिरिखण्डनवज्रदण्डाः प्रच्छन्नबौद्धमकरालयमन्थदण्डाः । वेदान्तसारसुखदर्शनदीपदण्डाः रामानुजस्य विलसन्ति मुनेस्त्रिदण्डाः ॥ २ ॥ चारित्रोद्धारदण्डं चतुरनयपथालङ्क्रियाकेतुदण्डं सद्विद्यादीपदण्डं सकलकलिकथासंहते: कालदण्डम् ।  त्रय्यन्तालम्बदण्डं त्रिभुवनविजयच्छत्रसौवर्णदण्डं धत्ते रामानुजार्य: प्रतिकथकशिरो वज्रदण्डं त्रिदण्डम् ॥ ३ ॥ त्रय्या माङ्गल्यसूत्रं त्रियुगपदयुगारोहणालम्बसूत्रं सद्विद्यादीपसूत्रं सकलकलिकथासंहतेः कालसूत्रम् ।  प्रज्ञासूत्रं बुधानां प्रशमधनमनःपद्मिनीनालसूत्रं रक्षासूत्रं मुनीनां […]

प्रार्थनापञ्चकम्

॥ प्रार्थनापञ्चकम् ॥ यतीश्वर शृणु श्रीमन् कृपया परया तव । मम विज्ञापनमिदं विलोक्य वरदं गुरुम् ॥ १ ॥ अनादिपापरचिताम् अन्तःकरणनिष्ठिताम् । यतान्द्र विषये सान्द्रां विनिर्वासय वासनाम ॥ २ ॥ अपि प्रार्थयमानानां पुत्रक्षेत्रादिसंपदाम् । कुरु वैराग्यमेवात्र हितकारिन् यतीन्द्र नः ॥ ३ ॥ यथाऽपराधा न स्युर्मे भक्तेषु भगवत्यपि । तथा लक्ष्मणयोगीन्द्र यावद्देहं प्रवर्तय ॥ ४ ॥ आमोक्षं […]

श्रीवैकुण्ठगद्यम्

भगवरामानुजाचार्यविरचितं गद्य त्रयम् ॥ श्रीवैकुण्ठगद्यम् ॥ यामुनार्यसुधाम्भोधिमवगाह्य यथामति । आदाय भक्तियोगाख्यं रत्नं सन्दर्शयाम्यहम् ॥                     स्वाधीनत्रिविधचेतनाचेतनस्वरूपस्थितिप्रवृत्तिभेदं, क्लेशकर्माद्यशेषदोषासंस्पृष्टं, स्वाभाविकानवधिकातिशयज्ञानबलैश्वर्यवीर्यशक्तितेज:प्रभृत्यसङ्ख्येयकल्याणगुणगणौघमहार्णवं, परमपुरुषं, भगवन्तं, नारायणं, स्वामित्वेन सुहृत्त्वेन गुरुत्वेन च परिगृह्य ऐकान्तिकात्यन्तिक-तत्पादाम्बुजद्वयपरिचर्यैकमनोरथ:,  तत्प्राप्तये च तत्पादाम्बुजद्वय-प्रपत्तेरन्यन्न मे कल्पकोटिसहस्रेणापि  साधनमस्तीति मन्वान:, तस्यैव भगवतो नारायणस्याखिल-सत्त्वदयैक-सागरस्य, अनालोचितगुणगणाखण्डजनानुकूलमर्यादशीलवत:, स्वाभाविकानवधिका-तिशयगुणवत्तया देवतिर्यङ्मनुष्याद्यखिलजनहृदयानन्दनस्य आश्रितवात्सल्यैकजलधे: भक्तजनसंश्लेषैकभोगस्य, नित्यज्ञानक्रियैश्वर्यभोगसामग्रीसमृद्धस्य महाविभूते: श्रीमच्चरणारविन्दयुगलमनन्यात्म-सञ्जीवनेन तद्गतसर्वभावेन शरणमनुव्रजेत् ॥ । ॥                     ततश्च प्रत्यहमात्मोज्जीवनायैवमनुस्मरेत् ॥२॥                     […]

श्रीरङ्गगद्यम्

भगवरामानुजाचार्यविरचितं गद्य त्रयम् श्रीरङ्गगद्यम् चिदचित्परतत्त्वानां तत्त्वयाथात्म्यवेदिने । रामानुजाय मुनये नमो मम गरीयसे ॥        स्वाधीनत्रिविधचेतनाचेतनस्वरूपस्थितिप्रवृत्तिभेदं, क्लेशकर्माद्यशेषदोषासंस्पृष्टं, स्वाभाविक-अनवधिकातिशयज्ञानबलैश्वर्यवीर्यशक्तितेजस्सौशील्यवात्सल्यमार्दवार्जवसौहार्द-साम्यकारुण्य-माधुर्यगाम्भीर्यौदार्यचातुर्यस्थैर्य-धैर्य शौर्यपराक्रम सत्यकामसत्यसङ्कल्पकृतित्वकृतज्ञताद्यसंख्येय-कल्याणगुणगणौघमहार्णवं, परब्रह्मभूतं, पुरुषोत्तमं, श्रीरंगशायिनं अस्मत्स्वामिनं, प्रबुद्धनित्यनियाम्यनित्यदास्यैकरसात्मस्वभावोऽहं, तदेकानुभव: तदेकप्रिय: परिपूर्णं भगवन्तं विशदतमानुभवेन निरन्तरमनुभूय, तदनुभवजनितानवधिकातिशयप्रीतिकारिताशेषावस्थोचित – अशेषशेषतैकरतिरूपनित्यकिङ्करो भवानि ॥            स्वात्म नित्यनियाम्य नित्यदास्यैकरसात्म स्वभावानुसन्धान पूर्वकभगवदनवधिकातिशय – स्वाम्याद्यखिलगुणगणानुभवजनितानवधिकातिशयप्रीतिकारिताशेषावस्थोचिताशेषशेषतैकरतिरूपनित्यकैङ्कर्य प्राप्त्युपायभक्ति तदुपायसम्यग् ज्ञान – तदुपाय समीचीनक्रियातदनुगुणसात्त्विकता, आस्तिक्यादि समस्तात्मगुण विहीन:, दुरुत्तरानन्त तद्विपर्ययज्ञानक्रियानुगुणानादि-पापवासनामहार्णवान्तर्निमग्न:, तिलतैलवद्दारुवह्निवत् […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.