श्री रामानुजाष्टकम्
श्री रामानुजाष्टकम् रामानुजाय मुनये नम उक्तिमात्रं कामातुरोऽपि कुमतिः कलयन्नभीष्टम् । यामामनन्ति यमिनां भगवज्जनानां तामेव विन्दति गतिं तमसः परस्तात् ॥ (१) सोमावचूड सुरशेखर-दुष्करेण कामातिगोऽपि तपसा क्षपयन्नघानि । रामानुजाय मुनये नम इत्यनुक्त्वा को वा महीसहचरे कुरुतेऽनुरागम् ॥ (२) रामानुजाय नम इत्यसकृद्गृणीते यो मान-मात्सर-मदस्मर-दूषितोऽपि । प्रेमातुरः प्रियतमामपहाय पद्मां भूमा भुजङ्ग-शयनस्तमनुप्रयाति ॥ (३) वामालका-नयनवागुरिका-गृहीतं क्षेमाय किञ्चिदपि कर्तुमनीहमानम् । रामानुजो […]
श्रीरामानुज अष्टोत्तरशतनामावळी
श्रीरामानुज अष्टोत्तरशतनामावळी(ळिः) ओं श्रीरामानुजाय नमः ओं पुष्कराक्षाय नमः ओं यतीन्द्राय नमः ओं करुणाकराय नमः ओं कान्तिमत्यात्मजाय नमः ओं श्रीमते नमः ओं लीलामानुषविग्रहाय नमः ओं सर्वशास्त्रार्थतत्वज्ञाय नमः ओं सर्वज्ञाय नमः ओं सज्जनप्रियाय नमः १० ओं नारायणकृपापात्राय नमः ओं श्रीभूतपुरनायकाय नमः ओं अनघाय नमः ओं भक्तमन्दाराय नमः ओं केशवानन्दवर्धनाय नमः ओं काञ्चीपूर्णप्रियसखाय नमः ओं प्रणतार्तिविनाशकाय नमः ओं […]
धाटीपञ्चकम्-श्रीवत्सचिह्नमिश्र
श्रीवत्सचिह्नमिश्रादिभिरनुगृहीतमिति प्रथितं ॥ धाटीपञ्चकम् ॥ पाषण्डद्रुमषण्डदावदहनश्चार्वाकशैलाशनि: बौद्धध्वान्तनिरासवासरपतिः जैनेभकण्ठीरवः । मायावादिभुजङ्गभङ्गगरुडस्त्रैविद्यचूडामणिः श्रीरङ्गेशजयध्वजो विजयते रामानुजोsयं मुनिः ॥ १ ॥ पाषण्डषण्डगिरिखण्डनवज्रदण्डाः प्रच्छन्नबौद्धमकरालयमन्थदण्डाः । वेदान्तसारसुखदर्शनदीपदण्डाः रामानुजस्य विलसन्ति मुनेस्त्रिदण्डाः ॥ २ ॥ चारित्रोद्धारदण्डं चतुरनयपथालङ्क्रियाकेतुदण्डं सद्विद्यादीपदण्डं सकलकलिकथासंहते: कालदण्डम् । त्रय्यन्तालम्बदण्डं त्रिभुवनविजयच्छत्रसौवर्णदण्डं धत्ते रामानुजार्य: प्रतिकथकशिरो वज्रदण्डं त्रिदण्डम् ॥ ३ ॥ त्रय्या माङ्गल्यसूत्रं त्रियुगपदयुगारोहणालम्बसूत्रं सद्विद्यादीपसूत्रं सकलकलिकथासंहतेः कालसूत्रम् । प्रज्ञासूत्रं बुधानां प्रशमधनमनःपद्मिनीनालसूत्रं रक्षासूत्रं मुनीनां […]
प्रार्थनापञ्चकम्
॥ प्रार्थनापञ्चकम् ॥ यतीश्वर शृणु श्रीमन् कृपया परया तव । मम विज्ञापनमिदं विलोक्य वरदं गुरुम् ॥ १ ॥ अनादिपापरचिताम् अन्तःकरणनिष्ठिताम् । यतान्द्र विषये सान्द्रां विनिर्वासय वासनाम ॥ २ ॥ अपि प्रार्थयमानानां पुत्रक्षेत्रादिसंपदाम् । कुरु वैराग्यमेवात्र हितकारिन् यतीन्द्र नः ॥ ३ ॥ यथाऽपराधा न स्युर्मे भक्तेषु भगवत्यपि । तथा लक्ष्मणयोगीन्द्र यावद्देहं प्रवर्तय ॥ ४ ॥ आमोक्षं […]
श्रीवैकुण्ठगद्यम् – Moolam
भगवरामानुजाचार्यविरचितं गद्य त्रयम् ॥ श्रीवैकुण्ठगद्यम् ॥ यामुनार्यसुधाम्भोधिमवगाह्य यथामति । आदाय भक्तियोगाख्यं रत्नं सन्दर्शयाम्यहम् ॥ स्वाधीनत्रिविधचेतनाचेतनस्वरूपस्थितिप्रवृत्तिभेदं, क्लेशकर्माद्यशेषदोषासंस्पृष्टं, स्वाभाविकानवधिकातिशयज्ञानबलैश्वर्यवीर्यशक्तितेज:प्रभृत्यसङ्ख्येयकल्याणगुणगणौघमहार्णवं, परमपुरुषं, भगवन्तं, नारायणं, स्वामित्वेन सुहृत्त्वेन गुरुत्वेन च परिगृह्य ऐकान्तिकात्यन्तिक-तत्पादाम्बुजद्वयपरिचर्यैकमनोरथ:, तत्प्राप्तये च तत्पादाम्बुजद्वय-प्रपत्तेरन्यन्न मे कल्पकोटिसहस्रेणापि साधनमस्तीति मन्वान:, तस्यैव भगवतो नारायणस्याखिल-सत्त्वदयैक-सागरस्य, अनालोचितगुणगणाखण्डजनानुकूलमर्यादशीलवत:, स्वाभाविकानवधिका-तिशयगुणवत्तया देवतिर्यङ्मनुष्याद्यखिलजनहृदयानन्दनस्य आश्रितवात्सल्यैकजलधे: भक्तजनसंश्लेषैकभोगस्य, नित्यज्ञानक्रियैश्वर्यभोगसामग्रीसमृद्धस्य महाविभूते: श्रीमच्चरणारविन्दयुगलमनन्यात्म-सञ्जीवनेन तद्गतसर्वभावेन शरणमनुव्रजेत् ॥ । ॥ ततश्च प्रत्यहमात्मोज्जीवनायैवमनुस्मरेत् ॥२॥ […]
श्रीरङ्गगद्यम् – Moolam
भगवरामानुजाचार्यविरचितं गद्य त्रयम् श्रीरङ्गगद्यम् चिदचित्परतत्त्वानां तत्त्वयाथात्म्यवेदिने । रामानुजाय मुनये नमो मम गरीयसे ॥ स्वाधीनत्रिविधचेतनाचेतनस्वरूपस्थितिप्रवृत्तिभेदं, क्लेशकर्माद्यशेषदोषासंस्पृष्टं, स्वाभाविक-अनवधिकातिशयज्ञानबलैश्वर्यवीर्यशक्तितेजस्सौशील्यवात्सल्यमार्दवार्जवसौहार्द-साम्यकारुण्य-माधुर्यगाम्भीर्यौदार्यचातुर्यस्थैर्य-धैर्य शौर्यपराक्रम सत्यकामसत्यसङ्कल्पकृतित्वकृतज्ञताद्यसंख्येय-कल्याणगुणगणौघमहार्णवं, परब्रह्मभूतं, पुरुषोत्तमं, श्रीरंगशायिनं अस्मत्स्वामिनं, प्रबुद्धनित्यनियाम्यनित्यदास्यैकरसात्मस्वभावोऽहं, तदेकानुभव: तदेकप्रिय: परिपूर्णं भगवन्तं विशदतमानुभवेन निरन्तरमनुभूय, तदनुभवजनितानवधिकातिशयप्रीतिकारिताशेषावस्थोचित – अशेषशेषतैकरतिरूपनित्यकिङ्करो भवानि ॥ स्वात्म नित्यनियाम्य नित्यदास्यैकरसात्म स्वभावानुसन्धान पूर्वकभगवदनवधिकातिशय – स्वाम्याद्यखिलगुणगणानुभवजनितानवधिकातिशयप्रीतिकारिताशेषावस्थोचिताशेषशेषतैकरतिरूपनित्यकैङ्कर्य प्राप्त्युपायभक्ति तदुपायसम्यग् ज्ञान – तदुपाय समीचीनक्रियातदनुगुणसात्त्विकता, आस्तिक्यादि समस्तात्मगुण विहीन:, दुरुत्तरानन्त तद्विपर्ययज्ञानक्रियानुगुणानादि-पापवासनामहार्णवान्तर्निमग्न:, तिलतैलवद्दारुवह्निवत् […]
शरणागतिगद्यम् – Moolam
भगवरामानुजाचार्यविरचितं गद्य त्रयम् यो नित्यमच्युतपदाम्बुजयुग्मरुक्मव्यामोहतस्तदितराणि तृणाय मेने । अस्मद्गुरोर्भगवतोऽस्य दयैकसिन्धोः रामानुजस्य चरणौ शरणं प्रपद्ये ।। शरणागतिगद्यम् वन्दे वेदान्तकर्पूरचामीकरकरण्डकम् । रामानुजार्यमार्याणां चूडामणिमहर्निशम् ।। ओम् भगवन्नारायणाभिमातानुरूपस्वरूपरूपगुणविभवैश्वर्यशीलाद्यनवधिकातिशयासङ्ख्येय- कल्याणगुणगणां, पद्म वनालयां, भगवतीं, श्रियं, देवीं, नित्यानपायिनीं, निरवद्यां, देवदेवदिव्यमहिषीं, अखिलजगन्मातरं, अस्मन्मातरं, अशरण्यशरण्यां, अनन्यशरण: शरणमहं प्रपद्ये॥ पारमार्थिक भगवच्चरणारविन्द, युगळैकान्तिकात्यन्तिक, परभक्ति परज्ञान परमभक्तिकृत-परिपूर्णानवरत-नित्य विशदतमानन्यप्रयोजनानवधिकातिशय प्रिय भगवदनुभवजनित-अनवधिक-अतिशय-प्रीतिकारिताशेषावस्थोचिताशेषाशेषतैकरतिरूप नित्यकैङ्कर्यप्राप्त्यपेक्षया, पारमार्थिकी […]