शरणागतिगद्यम्
भगवरामानुजाचार्यविरचितं गद्य त्रयम् यो नित्यमच्युतपदाम्बुजयुग्मरुक्मव्यामोहतस्तदितराणि तृणाय मेने । अस्मद्गुरोर्भगवतोऽस्य दयैकसिन्धोः रामानुजस्य चरणौ शरणं प्रपद्ये ।। शरणागतिगद्यम् वन्दे वेदान्तकर्पूरचामीकरकरण्डकम् । रामानुजार्यमार्याणां चूडामणिमहर्निशम् ।। ओम् भगवन्नारायणाभिमातानुरूपस्वरूपरूपगुणविभवैश्वर्यशीलाद्यनवधिकातिशयासङ्ख्येय- कल्याणगुणगणां, पद्म वनालयां, भगवतीं, श्रियं, देवीं, नित्यानपायिनीं, निरवद्यां, देवदेवदिव्यमहिषीं, अखिलजगन्मातरं, अस्मन्मातरं, अशरण्यशरण्यां, अनन्यशरण: शरणमहं प्रपद्ये॥ पारमार्थिक भगवच्चरणारविन्द, युगळैकान्तिकात्यन्तिक, परभक्ति परज्ञान परमभक्तिकृत-परिपूर्णानवरत-नित्य विशदतमानन्यप्रयोजनानवधिकातिशय प्रिय भगवदनुभवजनित-अनवधिक-अतिशय-प्रीतिकारिताशेषावस्थोचिताशेषाशेषतैकरतिरूप नित्यकैङ्कर्यप्राप्त्यपेक्षया, पारमार्थिकी […]