श्रीदेवराजपञ्चकम्
अथ चोलसिंहपुरं दोड्डय्याचार्य–कृतम् श्रीदेवराजपञ्चकम् प्रत्यूषे वरदः प्रसन्नवदनः प्राप्ताभिमुख्यान्जनान् आबद्धाञ्जलिमस्तकानविरलान् आबालमानन्दयन् । मन्दोड्डायितचामरो मणिमयश्वेतातपत्रश्शनैः अन्तर्गोपुरमाविरास भगवानारूढपक्षीश्वरः ॥ (१) मुक्तातपत्रयुगलोभयचामरान्तः विद्योतमान-विनयातनयाधिरूढम् । भक्ताभयप्रदकराम्बुजमंबुजाक्षं नित्यं नमामि वरदं रमणीयवेषम् ॥ (२) यद्वेदमौलिगणवेद्यमवेद्यमन्यैः यद्ब्रह्मरुद्रसुरनायकमौलिवन्द्यम् । तत्पद्मनाभपदपद्मयुगं मनुष्यैः सेव्यं भवद्भिरिति दर्शयतीव तार्क्ष्यः ॥ (३) केचित्तत्त्वविशोधने पशुपतौ पारम्यमाहुः परे व्याजह्रुः कमलासने नयविदोऽप्यन्ये हरौ सादरम् । इत्येवं चलचेतसां तनुभृतां पादावरिन्दं हरेः तत्सन्दर्शयतीव संप्रति […]