श्री अष्टभुजाष्टकम्
श्रीमते निगमान्तमहादेशिकाय नमः श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे संनिधत्तां सदा हृदि । श्री अष्टभुजाष्टकम् गजेन्द्ररक्षात्वरितं भवन्तं ग्राहैरिवाहं विषयैर्विकृष्टः । अपारविज्ञानदयानुभावम् आप्तं सतामष्टभुजं प्रपद्ये ॥ त्वेदेकशेषोऽहमनात्मतन्त्रः त्वत्पादलिप्सां दिशता त्वयैव । असत्समोऽप्यष्टभुजास्पदेश सत्तामिदानीमुपलम्भितोऽस्मि ॥ स्वरूपरूपास्त्रविभूषणाद्यैः परत्वचिन्तां त्वयि दुर्निवाराम् । भोगे मृदूपक्रमतामभीप्सन् शीलादिभिर्वारयसीव पुंसाम् ॥ शक्तिं शरण्यान्तरशब्दभाजां सारं च सन्तोल्य फलान्तराणाम् । त्वद्दास्यहेतोस्त्वयि निर्विशङ्कं न्यस्तात्मनां नाथ बिभर्षि […]
श्रीवेगासेतुस्तोत्रम्
श्रीमते निगमान्तमहादेशिकाय नमः श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे संनिधत्तां सदा हृदि । श्रीवेगासेतुस्तोत्रम् एकं वेगवतीमध्ये हस्तिशैले च दृश्यते । उपायफलभावेन स्वयं व्यक्तं परं महः ॥ ईष्टे गमयितुं पारम् एष सेतुरभङ्गुरः । यत्र सारस्वतं स्रोतो विश्राम्यति विशृङ्खलम् ॥ जयति जगदेकसेतुः वेगवतीमध्यलक्षितो देवः । प्रशमयति यः प्रजानां प्रथितान् संसारजलधिकल्लोलान् ॥ विभातु मे चेतसि विष्णुसेतुः वेगापगावेगविघातहेतुः । […]
श्रीशरनागतिदीपिका
श्रीमते निगमान्तमहादेशिकाय नमः श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे संनिधत्तां सदा हृदि । श्रीशरनागतिदीपिका पद्मा पतेः स्तुति पदेन विपच्यमानं पश्यन्त्विह प्रपदन प्रवणा महान्तः । मद्वाक्य सं वलितमप्यजहत्स्वभावं मान्यं यतीश्वर महानस सं प्रदायम् ॥ 1 ॥ नित्यं श्रिया वसुधया च निषेव्यमाणं निर्व्याज निर्भर दया भरितं विभाति । वेदान्त वेद्यमिह वेगवती समीपे दीप प्रकाश इति दैवतमद्वितीयम् ॥ […]
श्रीवैराग्यपञ्चकम्
श्रीमते निगमान्तमहादेशिकाय नमः श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे संनिधत्तां सदा हृदि । श्रीवैराग्यपञ्चकम् क्षोणीकोणशतांशपालनकलादुर्वारगर्वानल क्षुभ्यत्क्षुद्रनरेन्द्रचाटुरचनाधन्यान् न मन्यामहे । देवं सेवितुमेव निश्चिनुमहे योऽसौ दयाळुः पुरा धानामुष्टिमुचे कुचेलमुनये दत्ते स्म वित्तेशताम् ॥ सिलं किमनलं भवेदनलमौदरं बाधितुं पयः प्रसृतिपूरकं किमु न धारकं सारसम् । अयत्नमलमल्लकं पथि पटच्चरं कच्चरं भजन्ति विबुधा मुधा ह्यहह कुक्षितः कुक्षितः ॥ ज्वलतु जलधिक्रोडक्रीडत्कृपीडभवप्रभा […]
श्रीवरदराजपञ्चाशत्
श्रीमते निगमान्तमहादेशिकाय नमः श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे संनिधत्तां सदा हृदि । श्रीवरदराजपञ्चाशत् द्विरद शिखरि सीम्ना सद्मवान् पद्म योनेः तुरग सवन वेद्यां श्यामळो हव्यवाहः । कलश जलधि कन्या वल्लरी कल्पशाखी कलयतु कुशलं नः कोऽपि कारुण्य राशिः ॥ यस्यानुभावमधिगन्तुमशक्नुवन्तो मुह्मन्त्यभङ्गुरधियो मुनि सार्वभौमाः । तस्यैव ते स्तुतिषु साहसमश्नुवानः क्षन्तव्य एष भवता करि शैल नाथ ॥ जानन्ननादिविहितान् […]
श्रीदयाशतकम्
श्रीमते निगमान्तमहादेशिकाय नमः श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे संनिधत्तां सदा हृदि । श्रीदयाशतकम् प्रपद्ये तं गिरिं प्रायः श्रीनिवासानुकम्पया । इक्षु सार स्रवन्त्येव यन्मूर्त्या शर्करायितम् ॥ 1 ॥ विगाहे तीर्थ बहुळां शीतळां गुरु सन्ततिम् । श्रीनिवास दयाम्भोधि परीवाह परम्पराम् ॥ 2 ॥ कृतिनः कमलावास कारुण्यैकान्तिनो भजे । धत्ते यत्सूक्ति रूपेण त्रिवेदी सर्वयोग्यताम् ॥ 3 ॥ […]
श्री अभीतिस्तवः
श्रीमते निगमान्तमहादेशिकाय नमः श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे संनिधत्तां सदा हृदि । श्री अभीतिस्तवः अभीतिरिह यज्जुषां यदवधीरितानां भयं भयाभयविधायिनो जगति यन्निदेशे स्थिताः । तदेतदतिलङ्घितद्रुहिणशम्भुशक्रादिकं रमासखमधीमहे किमपि रङ्गधुर्यं महः ॥ 1॥ दयाशिशिरिताशया मनसि मे सदा जागृयुः श्रियाऽध्युषितवक्षसः श्रितमरुद्वृधासैकताः । जगद्दुरितघस्मरा जलधिडिम्भडम्भस्पृशः सकृत्प्रणतरक्षणप्रथितसंविदः संविदः ॥ 2॥ यदद्य मितबुद्धिना बहुळमोहभाजा मया गुणग्रथितकायवाङ्मनसवृत्तिवैचित्र्यतः । अतर्कितहिताहितक्रमविशेषमारभ्यते तदप्युचितमर्चनं परिगृहाण रङ्गेश्वर […]
श्रीभगवद्ध्यानसोपानम्
श्रीमते निगमान्तमहादेशिकाय नमः श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे संनिधत्तां सदा हृदि । श्रीभगवद्ध्यानसोपानम् अन्तर्ज्योतिः किमपि यमिनामञ्जनं योगदृष्टेः चिन्तारत्नं सुलभमिह नः सिद्धिमोक्षानुरूपम् । दीनानाथव्यसनशमनं दैवतं दैवतानां दिव्यं चक्षुः श्रुतिपरिषदां दृश्यते रङ्गमध्ये ॥ वेलातीतश्रुतिपरिमळं वेधसां मौलिसेव्यं प्रादुर्भूतं कनकसरितः सैकते हंसजुष्टे । लक्ष्मीभूम्योः करसरसिजैर्लालितं रङ्गभर्तुः पादाम्भोजं प्रतिफलति मे भावनादीर्घिकायाम् ॥ चित्राकारां कटकरुचिभिश्चारुवृत्तानुपूर्वां काले दूत्यद्रुततरगतिं कान्तिलीलाकलाचीम् । जानुच्छायाद्विगुणसुभगां […]
श्रीदशावतारस्तोत्रम्
श्रीमते निगमान्तमहादेशिकाय नमः श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे संनिधत्तां सदा हृदि । श्रीदशावतारस्तोत्रम् देवो नः शुभमातनोतु दशधा निर्वर्तयन् भूमिकां रङ्गे धामनि लब्धनिर्भररसैरध्यक्षितो भावुकैः । यद्भावेषु पृथग्विधेष्वनुगुणान् भावान् स्वयं बिभ्रती यद्धर्मैरिह धर्मिणी विहरते नानाकृतिर्नायिका ॥ 1 ॥ निर्मग्न श्रुति जाल मार्गण दशा दत्त क्षणैर्वीक्षणैः अन्तस्तन्वदिवारविन्द गहनान् यौदन्वतीनामपाम् । निष्प्रत्यूह तरङ्ग रिङ्गण मिथः प्रत्यूढ पाथश्छटा- डोलारोह […]
श्रीहयग्रीवस्तोत्रम्
श्रीमते निगमान्तमहादेशिकाय नमः श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे संनिधत्तां सदा हृदि । श्रीहयग्रीवस्तोत्रम् ज्ञानानन्दमयं देवं निर्मलस्फटिकाकृतिम् । आधारं सर्वविद्यानां हयग्रीवमुपास्महे ।। स्वतः सिद्धं शुद्धस्फटिकमणिभूभृत्प्रतिभटं सुधासध्रीचीभिर्द्युतिभिरवदातत्रिभुवनम् । अनन्तैस्त्रय्यन्तैऱऩुविहितहेषाहलहलं हताशेषावद्यं हयवदनमीडीमहि महः ।। समाहारः साम्नां प्रतिपदमृचां धाम यजुषां लयः प्रत्यूहानां लहरिविततिर्बोधजलधेः । कथादर्पक्षुभ्यत्कथककुलकोलाहलभवं हरत्वन्तर्ध्वान्तं हयवदनहेषाहलहलः ।। प्राची सन्ध्या काचिदन्तर्निशायाः प्रज्ञादृष्टेरञ्जनश्रीरपूर्वा । वक्त्री वेदान् भातु मे वाजिवक्त्रा […]