श्रीगोदास्तुतिः
श्रीमते निगमान्तमहादेशिकाय नमः श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे संनिधत्तां सदा हृदि । श्रीगोदास्तुतिः श्रीविष्णुचित्तकुलनन्दनकल्पवल्लीं श्रीरङ्गराजहरिचन्दनयोगदृश्याम् । साक्षात् क्षमां करुणया कमलामिवान्यां गोदामनन्यशरणः शरणं प्रपद्ये ॥ 1 ॥ वैदेशिकः श्रुतिगिरामपि भूयसीनां वर्णेषु माति महिमा नहि मादृशां ते । इत्थं विदन्तमपि मां सहसैव गोदे मौनद्रुहो मुखरयन्ति गुणास्त्वदीयाः ॥ 2 ॥ त्वत्प्रेयसः श्रवणयोरमृतायमानां तुल्यां त्वदीयमणिनूपुरशिञ्जितानाम् । गोदे त्वमेव […]
श्री-भूस्तुतिः
श्रीमते निगमान्तमहादेशिकाय नमः श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे संनिधत्तां सदा हृदि । श्री-भूस्तुतिः सङ्कल्प कल्प लतिकामवधिं क्षमायाः स्वेच्छा वराह महिषीं सुलभानुकम्पाम् । विश्वस्य मातरमकिं चन कामधेनुं विश्वं भरामशरणः शरणं प्रपद्ये ॥ 1 ॥ त्वां व्याहृतिः प्रथमतः प्रणवः प्रियं ते सं वेदयत्यखिल मन्त्र गणस्तमेव । इत्थं प्रतीत विभवामितरेष्विदानीं स्तोतुं यथावदवने क इवार्हति त्वाम् ॥ 2 […]
श्रीस्तुतिः
श्रीमते निगमान्तमहादेशिकाय नमः श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे संनिधत्तां सदा हृदि । श्रीस्तुतिः मानातीतप्रथितविभवां मङ्गळं मङ्गळानां वक्षःपीठीं मधुविजयिनो भूषयन्तीं स्वकान्त्या । प्रत्यक्षानुश्रविकमहिमप्रार्थिनीनां प्रजानां श्रेयोमूर्तिं श्रियमशरणस्त्वां शरण्यां प्रपद्ये ॥ आविर्भावः कलशजलधावध्वरे वापि यस्याः स्थानं यस्याः सरसिजवनं विष्णुवक्षःस्थलं वा । भूमा यस्या भूवनमखिलं देवि दिव्यं पदं वा स्तोकप्रज्ञैरनवधिगुणा स्तूयसे सा कथं त्वम् ॥ स्तोतव्यत्वं दिशति भवती […]
श्रीदेहळीशस्तुतिः
श्रीमते निगमान्तमहादेशिकाय नमः श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे संनिधत्तां सदा हृदि । श्रीदेहळीशस्तुतिः विक्रम्य येन विजितानि जगन्ति भूम्ना विश्वस्य यं परम कारणमामनन्ति । विश्राणयन् प्रणयिनां विविधान् पुमर्थान् गोप्ता स मे भवतु गोपपुराधिराजः ॥ 1 ॥ देहळ्यधीश्वर तवेदृशमीश्वरत्वं तुष्टूषतां दिशति गद्गदिकानुबन्धम् । वाचालयत्यथ च मां क्वचन क्षपायां क्षान्तेन दान्त कवि मुख्य विमर्दनेन ॥ 2 ॥ […]
श्रीगोपालविंशतिः
श्रीमते निगमान्तमहादेशिकाय नमः श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे संनिधत्तां सदा हृदि । श्रीगोपालविंशतिः वन्दे बृन्दावनचरं वल्लवीजनवल्लभम् । जयन्तीसंभवं धाम वैजयन्तीविभूषणम् ॥ वाचं निजाङ्करसिकां प्रसमीक्षमाणः वक्त्रारविन्दविनिवेशितपाञ्चजन्यः । वर्णत्रिकोणरुचिरे वरपुण्डरीके बद्धासनो जयति वल्लवचक्रवर्ती ॥ आम्नायगन्धिरुदितस्फुरिताधरोष्ठम् आस्राविलेक्षणमनुक्षणमन्दहासम् । गोपालडिम्भवपुषं कुहनाजनन्याः प्राणस्तनन्धयमवैमि परं पुमांसम् ॥ आविर्भवत्वनिभृताभरणं पुरस्तात् आकुञ्चितैकचरणं निभृतान्यपादम् । दध्ना निमन्थमुखरेण निबद्धताळं नाथस्य नन्दभवने नवनीतनाट्यम् ॥ हर्तुं […]
श्रीमहावीरवैभवम्
श्रीमते निगमान्तमहादेशिकाय नमः श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे संनिधत्तां सदा हृदि । श्रीमहावीरवैभवम् जयत्याश्रितसंत्रासध्वान्तविध्वंसनोदयः । प्रभावान् सीतया देव्या परमव्योमभास्करः ॥ 1 ॥ जय जय महावीर ॥ 2 ॥ महाधीर धौरेय ॥ 3 ॥ देवासुर समर समय समुदित निखिल निर्जर निर्धारित निरवधिक माहात्म्य ॥ 4 ॥ दशवदन दमित दैवत परिषदभ्यर्थित दाशरथिभाव ॥ 5 ॥ दिनकर […]
श्री अच्युतशतकम्
श्रीमते निगमान्तमहादेशिकाय नमः श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे संनिधत्तां सदा हृदि । श्री अच्युतशतकम् णमह ति।असाण णाहं सच्चं दासाण अच्चु।अं ठिरजो।इम् । गलुल ण।इ तड तमालं अहिन्द ण।अरो सहा।अलेक्क ग।इन्दम् ॥ नमत त्रिदशानां नाथं सत्यं दासानामच्युतं स्थिरज्योतिः । गरुड नदी तट तमालं अहीन्द्रनगरौषधाचलैक गजेन्द्रम् ॥ 1 ॥ किं करसच्च थु।ई तुह स।अं भु गेहिणि […]
श्रीदेवनायकपञ्चाशत्
श्रीमते निगमान्तमहादेशिकाय नमः श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे संनिधत्तां सदा हृदि । श्रीदेवनायकपञ्चाशत् प्रणतसुरकिरीटप्रान्तमन्दारमाला- विगळितमकरन्दस्निग्धपादारविन्दः । पशुपतिविधिपूज्यः पद्मपत्रायताक्षः फणिपतिपुरनाथः पातु मां देवनाथः ।। देवाधिनाथकमलापृतनेशपूर्वां दीप्तान्तरां वकुळभूषणनाथमुख्यैः । रामानुजप्रभृतिभिः परिभूषिताग्रां गोप्त्रीं जगन्ति गुरुपक्तिमहं प्रपद्ये ।। दिव्ये दयाजलनिधौ दिविषन्नियन्तुः तीर्थं निदर्शितवतस्त्रिजगन्निषेव्यम् । प्राचः कवीन् निगमसंमितसूनृतोक्तीन् प्राचेतसप्रभृतिकान् प्रणमाम्यभीक्ष्णम् ।। मातस्त्वमम्बुरुहवासिनि किंचिदेतत् विज्ञाप्यते मयि कुरुष्व तथा प्रसादम् । […]
श्रीपरमार्थस्तुतिः
श्रीमते निगमान्तमहादेशिकाय नमः श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे संनिधत्तां सदा हृदि । श्रीपरमार्थस्तुतिः श्रीमद्गृध्रसरस्तीरपारिजातमुपास्महे । यत्र तुङ्गैरतुङ्गैश्च प्रणतैर्गृह्यते फलम् ॥ 1 ॥ गुरुभिः त्वदनन्यसर्वभावैः गुणसिन्धौ कृतसंप्लवस्त्वदीये । रणपुङ्गव वन्दिभावमिच्छन् अहमस्म्येकमनुग्रहास्पदं ते ॥ 2 ॥ भुवनाश्रयभूषणास्त्रवर्गं मनसि त्वन्मयतां ममातनोतु । वपुराहवपुङ्गव त्वदीयं महिषीणामनिमेषदर्शनीयम् ॥ 3 ॥ अभिरक्षितुमग्रतः स्थितं त्वां प्रणवे पार्थरथे च भावयन्तः । अहितप्रशमैरयत्नलभ्यैः […]
श्रीकामासिकाष्टकम्
श्रीमते निगमान्तमहादेशिकाय नमः श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे संनिधत्तां सदा हृदि । श्रीकामासिकाष्टकम् श्रुतीनामुत्तरं भागं वेगवत्याश्च दक्षिणम् । कामादधिवसन् जीयात् कश्चिदद्भुतकेसरी ॥ तपनेन्द्वग्निनयनः तापानपचिनोतु नः । तापनीयरहस्यानां सारः कामासिकाहरिः ॥ आकण्ठमादिपुरुषं कण्ठीरवमुपरि कुण्ठितारातिम् । वेगोपकण्ठसङ्गात् विमुक्तवैकुण्ठबहुमतिमुपासे ॥ बन्धुमखिलस्य जन्तोः बन्धुरपर्यङ्कबन्धरमणीयम् । विषमविलोचनमीडे वेगवतीपुळिनकेळिनरसिंहम् ॥ स्वस्थानेषु मरुद्गणान् नियमयन् स्वाधीनसर्वेन्द्रियः पर्यङ्कस्थिरधारणाप्रकटितप्रत्यङ्मुखावस्थितिः । प्रायेण प्रणिपेदुषां प्रभुरसौ योगं […]