श्रीनारसिंह-पञ्चकम्
श्रीनारसिंह–पञ्चकम् श्री नारसिंहवपुषे निगृहीतभक्त सर्वां ह से व्रतजुषे प्रणतावनाय । प्रख्यातदिव्य-महसे कमलोरसे- ऽस्मत्सर्वार्थसंचयपुषेस्तु नमः परस्मै ।। (१) सन्तु प्रत्यर्थि-गर्वप्रकरतिमिर-सन्दोहसंहारकारि प्रादुर्भाव प्रकारानरहरिमुखदंष्ट्रा प्रभासारधाराः। धीरा हैरण्यवक्षो-विदळनसमयोऽद्भूतघोरासृगाक्त श्वेताश्वेतस्वरोचिः नखरुचिभिदुरा श्श्रेयसे भूयसेनः ।। (२) नरहरिमहमीडे यादवक्ष्माधरेन्द्रं पुरहरसुरबृंदाधीश्वराद्यर्चिताङ्घ्रिम् । वरपरमपुमर्थप्रापणैकान्तमेकं परमरिकुलमालोन्मूलनं साधनं नः ।। (३) हर्ता दुर्वारगर्व-प्रचुरतरधियां संविहर्ता मुनीनां हार्दाम्भोजान्तरन्तः स्फुरदखिलजगदिभ्रदार्तार्तिहन्ता । भर्ता सर्वेश्वराणां जगदुदयलयस्थेमकर्ता प्रहर्ता दुर्दान्तक्रूरकृत्या सुरपति विततेः पातु […]
श्री पराङ्कुशपञ्चविंशतिः
श्रीः श्रीमते रामानुजाय नमः श्री पराङ्कुशपञ्चविंशतिः श्रीपराङ्कुशनुतिं य आतनोत् तत्पदाब्जपरभक्तिचोदितः। तं वधूलकुलभूषणं दया-वारिधिं वरददेशिकं भजे ॥ श्रीमन् पराङ्कुशनिरङ्कुशतत्त्वबोध वात्सल्यपूर्णकरुणापरिणामरूप। सौशील्यसागरमनन्तगुणाकरं त्वां संसारतापहरणं शरणं वृणेहम्॥ (१) कासारसंयमिमुखाः कमलासहाय – भक्ताः प्रपत्तिपदवीनियता महान्तः। यस्याभवन्नवयवा इव पारतन्त्र्यात् तस्मै नमो वकुळभूषणदेशिकाय॥ (२) श्रीरङ्गराजपदपङ्कजसङ्गशीलं श्रेयःपरं मधुरपूर्वकवेरपूर्वम्। नाथार्ययामुनयतीश्वरभागधेयं नाथं कुलस्य मम नौमि पराङ्कुशार्यम् ॥ (३) पापक्रियासु निरताः शृणुतास्मदुक्तिं तापत्रयेण भविनः परितप्यमानाः। […]
श्री रामानुजाष्टकम्
श्री रामानुजाष्टकम् रामानुजाय मुनये नम उक्तिमात्रं कामातुरोऽपि कुमतिः कलयन्नभीष्टम् । यामामनन्ति यमिनां भगवज्जनानां तामेव विन्दति गतिं तमसः परस्तात् ॥ (१) सोमावचूड सुरशेखर-दुष्करेण कामातिगोऽपि तपसा क्षपयन्नघानि । रामानुजाय मुनये नम इत्यनुक्त्वा को वा महीसहचरे कुरुतेऽनुरागम् ॥ (२) रामानुजाय नम इत्यसकृद्गृणीते यो मान-मात्सर-मदस्मर-दूषितोऽपि । प्रेमातुरः प्रियतमामपहाय पद्मां भूमा भुजङ्ग-शयनस्तमनुप्रयाति ॥ (३) वामालका-नयनवागुरिका-गृहीतं क्षेमाय किञ्चिदपि कर्तुमनीहमानम् । रामानुजो […]
श्रीगरुडपञ्चाशत्
श्रीमते निगमान्तमहादेशिकाय नमः श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे संनिधत्तां सदा हृदि । श्रीगरुडपञ्चाशत् अङ्गेष्वानन्दमुख्यश्रुतिशिखरमिलद्दण्डकं गण्डपूर्वं प्रागेवाभ्यस्य षट्सु प्रतिदिशमनघं न्यस्यशुद्धास्त्रबन्धाः । पक्षिव्यत्यस्तपक्षिद्वितयमुखपुटप्रस्फुटोदारतारं मन्त्रं गारुत्मतं तं हुतवहदयिताशेखरं शीलयामः ।। वेदः स्वार्थाधिरूढो बहिरबहिरभिव्यक्तिमभ्येति यस्यां सिद्धिः सांकर्षणी सा परिणमति यया सापवर्गत्रिवर्गा । प्राणस्य प्राणमन्यं प्रणिहितमनसो यत्र निर्धारयन्ति प्राची सा ब्रह्मविद्या परिचितगहना पातु गारुत्मती नः ।। नेत्रं गायत्रमूचे त्रिवृदिति […]
श्रीगरुडदण्डकः
श्रीमते निगमान्तमहादेशिकाय नमः श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे संनिधत्तां सदा हृदि । श्रीगरुडदण्डकः नमः पन्नगनद्धाय वैकुण्ठवशवर्तिने । श्रुतिसिन्धुसुधोत्पादमन्दराय गरुत्मते ॥ 1 ॥ गरुडमखिल-वेद-नीडाधिरूढं द्विषत्पीडनोत्कण्ठिताकुण्ठ-वैकुण्ठपीठीकृतस्कन्धमीडे स्वनीडागति-प्रीत-रुद्रा-सुकीर्तिस्तनाभोग-गाढोपगूढस्फुरत्कण्टकव्रात-वेध-व्यथा-वेपमान-द्विजिह्वाधिपाकल्प-विष्फार्यमाण-स्फटावाटिका-रत्नरोचिश्छटा-राजि-नीराजितं कान्ति-कल्लोलिनी-राजितम् ॥ 2 ॥ जय गरुड सुपर्ण दर्वीकराहार देवाधिपाहारहारिन् दिवौकस्पति-क्षिप्त-दम्भोळिधारा-किणाकल्प कल्पान्तवातूलकल्पोदयानल्पवीरायितोद्यच्चमत्कार दैत्यारि-जैत्रध्वजारोह-निर्धारितोत्कर्ष संकर्षणात्मन् गरुत्मन् मरुत्पञ्चकाधीश सत्यादिमूर्ते न कश्चित् समस्ते नमस्ते पुनस्ते नमः ॥ 3 ॥ नम इदमजहत्सपर्याय पर्याय-निर्यात-पक्षानिलास्फालनोद्वेल-पाथोधिवीची-चपेटाहतागाध-पाताळ-भांकार-संक्रुद्ध-नागेन्द्रपीडासृणीभाव-भास्वन्नखश्रेणये चण्डतुण्डाय […]
श्रीषोडशायुधस्तोत्रम्
श्रीमते निगमान्तमहादेशिकाय नमः श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे संनिधत्तां सदा हृदि । श्रीषोडशायुधस्तोत्रम् स्वसङ्कल्पकलाकल्पैरायुधैरायुधेश्वरः । जुष्टः षोडशभिर्दिव्यैर्जुषतां वः परः पुमान् ॥ 1 ॥ यदायत्तं जगच्चक्रं कालचक्रं च शाश्वतम् । पातु वस्तत्परं चक्रं चक्ररूपस्य चक्रिणः ॥ 2 ॥ यत्प्रसूतिशतैरासन् रुद्राः परशुलाञ्छनाः । स दिव्यो हेतिराजस्य परशुः परिपातु वः ॥ 3 ॥ हेलया हेतिराजेन यस्मिन् दैत्याः […]
श्रीसुदर्शनाष्टकम्
श्रीमते निगमान्तमहादेशिकाय नमः श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे संनिधत्तां सदा हृदि । श्रीसुदर्शनाष्टकम् प्रतिभटश्रेणिभीषण वरगुणस्तोमभूषण जनिभयस्थानतारण जगदवस्थानकारण । निखिलदुष्कर्मकर्शन निगमसद्धर्मदर्शन जय जय श्रीसुदर्शन जय जय श्रीसुदर्शन ॥ शुभजगद्रूपमण्डन सुरगणत्रासखण्डन शतमखब्रह्मवन्दित शतपथब्रह्मनन्दित । प्रथितविद्वत्सपक्षित भजदहिर्बुध्न्यलक्षित जय जय श्रीसुदर्शन जय जय श्रीसुदर्शन ॥ स्फुटतटिज्जालपिञ्जर पृथुतरज्वालपञ्जर परिगतप्रत्नविग्रह पटुतरप्रज्ञदुर्ग्रह । प्रहरणग्राममण्डित परिजनत्राणपण्डित जय जय श्रीसुदर्शन जय जय श्रीसुदर्शन […]
श्रीन्यासतिलकम्
श्रीमते निगमान्तमहादेशिकाय नमः श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे संनिधत्तां सदा हृदि । श्रीन्यासतिलकम् गुरुभ्यस्तद्गुरुभ्यश्च नमोवाकमधीमहे । वृणीमहे च तत्राद्यौ दंपती जगतां पती ॥ 1 ॥ प्रायः प्रपदने पुंसां पौनःपुन्यं निवारयन् । हस्तः श्रीरङ्गभर्तुर्माम् अव्यादभयमुद्रितः ॥ 2 ॥ अनादेर्निःसीम्नो दुरित जलधेर्यन्निरुपमं विदुः प्रायश्चित्तं यदु रघुधुरीणाशय विदः । तदारम्भे तस्या गिरमवदधानेन मनसा प्रपद्ये तामेकां श्रियमखिल नाथस्य […]
श्रीन्यासविंशतिः
श्रीमते निगमान्तमहादेशिकाय नमः श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे संनिधत्तां सदा हृदि । श्रीन्यासविंशतिः सिद्धं सत्संप्रदाये स्थिरधियमनघं श्रोत्रियं ब्रह्मनिष्ठं सत्वस्थं सत्यवाचं समयनियतया साधुवृत्त्या समेतम् । डम्भासूयादिमुक्तं जितविषयिगणं दीर्घबन्धुं दयाळुं स्खालित्ये शासितारं स्वपरहितपरं देशिकं भूष्णुरीप्सेत् ॥ 1 ॥ अज्ञानध्वान्तरोधादघपरिहरणादात्मसाम्यावहत्वात् जन्मप्रध्वंसिजन्मप्रदगरिमतया दिव्यदृष्टिप्रभावात् । निष्प्रत्यूहानृशंस्यान्नियतरसतया नित्यशेषित्वयोगात् आचार्यः सद्भिरप्रत्युपकरणधिया देववत् स्यादुपास्यः ॥ 2 ॥ सद्बुद्धिः साधुसेवी समुचितचरितस्तत्त्वबोधाभिलाषी शुश्रूषुस्त्यक्तमानः प्रणिपतनपरः […]
श्रीन्यासदशकम्
श्रीमते निगमान्तमहादेशिकाय नमः श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे संनिधत्तां सदा हृदि । श्रीन्यासदशकम् अहं मद्रक्षणभरो मद्रक्षणफलं तथा । न मम श्रीपतेरेवेत्यात्मानं निक्षिपेत् बुधः ॥ न्यस्याम्यकिञ्चनः श्रीमन् अनुकूलोऽन्यवर्जितः । विश्वासप्रार्थनापूर्वम् आत्मरक्षाभरं त्वयि ॥ स्वामी स्वशेषं स्ववशं स्वभरत्वेन निर्भरम् । स्वदत्तस्वधिया स्वार्थं स्वस्मिन् न्यस्यति मां स्वयम् ॥ श्रीमन्नभीष्टवरद त्वामस्मि शरणं गतः । एतद्देहावसाने […]