पादुकासहस्रम् वैताळिकपद्धतिः
पादुकासहस्रम् वैताळिकपद्धतिः नमस्ते पादुके ! पुं सां सं सारार्णवसेतवे । यदारोहस्य वेदान्ता वन्दिवैतालिकाः स्वयम्।। 9.1 उचितमुपचरिष्यन् रङ्गनाथ ! प्रभाते विधिशिवसनकाद्यान् बाह्यकक्ष्यानिरुद्धान् । चरणकमलसेवासौख्यसाम्राज्यभाजां प्रथमविहितभागां पादुकाम् आद्रियेथाः।। 9.2 पद्माजुष्टं भजतु चरणं पादुका लब्धवारा प्रत्यासन्नास्तव परिजनाः प्रातरास्थानयोग्याः । अर्धोन्मेषादधिकसुभगाम् अर्धनिद्रानुषङ्गां नाभीपद्मे तव नयनयोर्नाथ ! पश्यन्तु शोभाम्।। 9.3 उपनमति मुहूर्तं शेषसिद्धान्तसिद्धं तदिह चरणरक्षा रङ्गनाथ त्वयैषा । मृदुपदमधिरूढा मञ्जुभिः […]
पादुकासहस्रम् निर्यातनापद्धतिः
पादुकासहस्रम् निर्यातनापद्धतिः अभिषेकोत्सवात् तस्मात् यस्या निर्यातनोत्सवः । अत्यरिच्यत तां वन्दे भव्यां भरतदेवताम्।। 8.1 उपास्य वर्षाणि चतुर्दश त्वाम् उत्तारिकामुत्तरकोसलस्थाः । सनन्दनाद्यैरपि दुर्विगाहं सान्तानिकं लोकमवापुरग्र्यम्।। 8.2 पादावनि ! प्रत्ययितो हनूमान् सीतामिव त्वां चिरविप्रयुक्ताम् । प्रणम्य पौलस्त्यरिपोरुदन्तं विज्ञापयामास विनीतवेषः।। 8.3 तवाभिषेकान्मणिपादरक्षे ! मूले निषेकादिव वृद्धियोग्यात् । जहुस्तदैव त्रिदशाङ्गनानां प्रम्लानतां पत्रलताङ्कुराणि।। 8.4 सर्वतस्त्वदभिषेकवासरे सम्यगुद्धृतसमस्तकण्टके । राघवस्य विपिनेषु पादुके ! […]
पादुकासहस्रम् अभिषेकपद्धतिः
पादुकासहस्रम् अभिषेकपद्धतिः पाहि नः पादुके ! यस्याः विधास्यन् अभिषेचनम् । आभिषेचनिकं भाण्डं चक्रे रामः प्रदक्षिणम्।। 7.1 राघवस्य चरणौ पदावनि ! प्रेक्षितुं त्वदभिषेकमीषतुः । आभिषेचनिकभाण्डसन्निधौ यत् प्रदक्षिणगतिः शनैर्ययौ।। 7.2 मूर्धाभिषिक्तैर्नियमेन वाह्यौ विचिन्त्य नूनं रघुनाथपादौ । रत्नासनस्थां मणिपादुके ! त्वां रामानुजन्मा भरतोऽभ्यषिञ्चत्।। 7.3 भ्रातुर्नियोगेऽप्यनिवर्तमानं राज्याभिषेकं च परित्यजन्तम् । रामानुजौ तौ ननु पारतन्त्र्यात् उभावुभाभ्यां भवती जिगाय।। 7.4 निवेश्य […]
पादुकासहस्रम् अधिकारपरिग्रहपद्धतिः
पादुकासहस्रम् अधिकारपरिग्रहपद्धतिः अधीष्टे पादुका सा मे यस्याः साकेतवासिभिः । अन्वयव्यतिरेकाभ्यामन्वमीयत वैभवम्।। 6.1 मोचितस्थिरचरान् अयत्नतः कोसलान् जनपदान् उपास्महे । येषु कां श्चन बभूव वत्सरान् दैवतं दनुजवैरिपादुका।। 6.2 साम्राज्यसम्पदिव दासजनोचिता त्वं रामेण सत्यवचसा भरताय दत्ता । स त्वां निवेश्य चरणावनि ! भद्रपीठे पृथ्वीं बुभोज बुभुजे च यशोविभूतिम्।। 6.3 भोगान् अनन्यमनसां मणिपादुके ! त्वं पुष्णासि हन्त भजतामनुषङ्गसिद्धान् । […]
पादुकासहस्रम् प्रतिप्रस्थानपद्धतिः
पादुकासहस्रम् प्रतिप्रस्थानपद्धतिः प्रशस्ते रामपादाभ्यां पादुके पर्युपास्महे । आनृशं स्यं ययोरासीदाश्रितेष्वनवग्रहम्।। 5.1 भृशातुरसहोदरप्रणयखण्डनस्वैरिणा पदेन किमनेन मे वनमिहावनादिच्छता । इतीव परिहाय तन्निववृते स्वयं यत् पुरा पदत्रमिदमाद्रिये धृतजगत्त्रयं रङ्गिणः।। 5.2 दशवदनविनाशं वाञ्छतो यस्य चक्रे दशरथमनघोक्तिं दण्डकारण्ययात्रा । स च भरतविमर्दे सत्यसन्धस्त्वयासीत् रघुपतिपदरक्षे ! राजधानीं प्रयान्त्या।। 5.3 अभ्युपेतविनिवृत्तिसाहसा देवि ! रङ्गपतिरत्नपादुके । अत्यशेत भवती महीयसा पारतन्त्र्यविभवेन मैथिलीम्।। 5.4 अव्याहतां […]
पादुकासहस्रम् समर्पणपद्धतिः
पादुकासहस्रम् समर्पणपद्धतिः भजामः पादुके ! याभ्यां भरतस्याग्रजस्तदा । प्रायः प्रतिप्रयाणाय प्रास्थानिकमकल्पयत्।। 4.1 राज्यं विहाय रघुवं शमहीपतीनां पौरां श्च पादरसिकान् पृथिवीं च रक्ताम् । त्वामेव हन्त चरणावनि ! सम्प्रयास्यन् आलम्बत प्रथममुत्तरकोसलेन्द्रः।। 4.2 प्राप्ते प्रयाणसमये मणिपादरक्षे ! पौरानवेक्ष्य भवती करुणप्रलापान् । मञ्जुप्रणादमुखरा विनिवर्तनार्थं रामं पदग्रहणपूर्वमयाचतेव।। 4.3 मत्वा तृणाय भरतो मणिपादरक्षे ! रामेण तां विरहितां रघुराजधानीम् । त्वामेव […]
पादुकासहस्रम् प्रभावपद्धतिः
पादुकासहस्रम् प्रभावपद्धतिः वन्दे तद्रङ्गनाथस्य मान्यं पादुकयोर्युगम् । उन्नतानामवनतिः नतानां यत्र चोन्नतिः।। 3.1 निश्शेषमम्बरतलं यदि पत्रिका स्यात् सप्तार्णवी यदि समेत्य मषी भवित्री । वक्ता सहस्रवदनः पुरुषः स्वयं चेत् लिख्येत रङ्गपतिपादुकयोः प्रभावः।। 3.2 वेदोपबृं ह्मणकुतूहलिना निबद्धं विश्वम्भराश्रुतिभवेन महर्षिणा यत् । व्यासेन यच्च मधुसूदनपादरक्षे ! द्वे चक्षुषी त्वदनुभावमवेक्षितुं नः।। 3.3 प्रत्यक्षयन्ति परिशुद्धधियो यथावत् रामायणे रघुपुरन्दरपादरक्षे ! । शश्वत्प्रपञ्चितमिदम् […]
पादुकासहस्रम् समाख्यापद्धतिः
पादुका-सहस्रम् समाख्यापद्धतिः वन्दे विष्णुपदासक्तं तमृषिं ताञ्च पादुकाम् । यथार्था शठजित्सं ज्ञा मच्चित्तविजयाद्ययोः।। 2.1 द्रमिडोपनिषन्निवेशशून्यान् अपि लक्ष्मीरमणाय रोचयिष्यन् । ध्रुवमाविशति स्म पादुकात्मा शठकोपः स्वयमेव माननीयः।। 2.2 नियतं मणिपादुके ! दधानः स मुनिस्ते शठकोप इत्यभिख्याम् । त्वदुपाश्रितपादजातवंश- प्रतिपत्त्यै परमाततान रूपम्।। 2.3 मुनिना मणिपादुके ! त्वया च प्रथिताभ्यां शठकोपसं ज्ञयैव । द्वितयं सकलोपजीव्यमासीत् प्रथमेन श्रुतिरन्यतस्तदर्थः।। 2.4 आकर्ण्य कर्णामृतमात्मवन्तो […]
पादुकासहस्रम् प्रस्तावपद्धतिः
श्रीमद्वेङ्कटनाथवेदान्तदेशिकस्वामिविरचितं श्रीरङ्गनाथ पादुकासहस्रम् । प्रस्तावपद्धतिः 1.1 सन्तः श्रीरङ्गपृथ्वीशचरणत्राणशेखराः । जयन्ति भुवनत्राणपदपङ्कजरेणवः ॥ 1.2 भरताय परं नमोऽस्तु तस्मै प्रथमोदाहरणाय भक्तिभाजाम् । यदुपज्ञमशेषतः पृथिव्यां प्रथितो राघवपादुकाप्रभावः ॥ 1.3 वर्णस्तोमैर्वकुलसुमनोवासनामुद्वहन्तीम् आम्नायानां प्रकृतिमपरां संहितां दृष्टवन्तम् । पादे नित्यप्रणिहितधियं पादुके रङ्गभर्तुः त्वन्नामानं मुनिमिह भजे त्वामहं स्तोतुकामः ॥ 1.4 दिव्यस्थानात् त्वमिव जगतीं पादुके गाहमाना पादन्यासं प्रथममनघा भारती यत्र चक्रे । योगक्षेमं […]
श्रीयतिराजसप्ततिः
श्रीमते निगमान्तमहादेशिकाय नमः श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे संनिधत्तां सदा हृदि । श्रीयतिराजसप्ततिः 1 कमप्याद्यं गुरुं वन्दे कमलागृहमेधिनम् । प्रवक्ता च्छन्दसां वक्ता पञ्चरात्रस्य यः स्वयम् ॥ 2 सहधर्मचरीं शौरेः संमन्त्रितजगद्धिताम् । अनुग्रहमयीं वन्दे नित्यमज्ञातनिग्रहाम् ॥ 3 वन्दे वैकुण्ठसेनान्यं देवं सूत्रवतीसखम् । यद्वेत्रशिखरस्पन्दे विश्वमेतद्व्यवस्थितम् ॥ 4 यस्य सारस्वतं स्रोतो वकुलामोदवासितम् । श्रुतीनां विश्रमायालं शठारिं तमुपास्महे […]