धाटीपञ्चकम्-श्रीवत्सचिह्नमिश्र

श्रीवत्सचिह्नमिश्रादिभिरनुगृहीतमिति प्रथितं ॥ धाटीपञ्चकम् ॥ पाषण्डद्रुमषण्डदावदहनश्चार्वाकशैलाशनि: बौद्धध्वान्तनिरासवासरपतिः जैनेभकण्ठीरवः ।  मायावादिभुजङ्गभङ्गगरुडस्त्रैविद्यचूडामणिः श्रीरङ्गेशजयध्वजो विजयते रामानुजोsयं मुनिः ॥ १ ॥ पाषण्डषण्डगिरिखण्डनवज्रदण्डाः प्रच्छन्नबौद्धमकरालयमन्थदण्डाः । वेदान्तसारसुखदर्शनदीपदण्डाः रामानुजस्य विलसन्ति मुनेस्त्रिदण्डाः ॥ २ ॥ चारित्रोद्धारदण्डं चतुरनयपथालङ्क्रियाकेतुदण्डं सद्विद्यादीपदण्डं सकलकलिकथासंहते: कालदण्डम् ।  त्रय्यन्तालम्बदण्डं त्रिभुवनविजयच्छत्रसौवर्णदण्डं धत्ते रामानुजार्य: प्रतिकथकशिरो वज्रदण्डं त्रिदण्डम् ॥ ३ ॥ त्रय्या माङ्गल्यसूत्रं त्रियुगपदयुगारोहणालम्बसूत्रं सद्विद्यादीपसूत्रं सकलकलिकथासंहतेः कालसूत्रम् ।  प्रज्ञासूत्रं बुधानां प्रशमधनमनःपद्मिनीनालसूत्रं रक्षासूत्रं मुनीनां […]

परत्वादिपञ्चकम्-श्रीवात्स्यवरदगुरु

श्रीवात्स्यवरदगुरुभिरनुगृहीतं ॥ परत्वादिपञ्चकम् ॥ वन्देऽहं वरदार्यं तं वत्साभिजनभूषणम् । भाष्यामृतप्रदानाद्यः सञ्जीवयति मामपि ॥ उद्यद्भानुसहस्रभास्वरपरव्योमास्पदं निर्मलज्ञानानन्दघनस्वरूपममलज्ञानादिभिष्षड्गुणैः ॥ जुष्टं सूरिजनाधिपं धृतरथाङ्गाब्जं सुभूषोज्ज्वलं श्रीभूसेव्यमनन्तभोगिनिलयं श्रीवासुदेवं भजे ॥ १ ॥ आमोदे भुवने प्रमोद उत्त संमोदे च सङ्कर्षणं प्रद्युम्नं च तथाऽनिरुद्धमपि तान् सृष्टिस्थिती चाप्ययम् कुर्वाणान् मतिमुख्यषड्गुणवरैर्युक्तांस्त्रियुग्मात्मकैः व्यूहाधिष्ठितवासुदेवमपि तं क्षीराब्धिनाथं भजे॥ २ ॥ वेदान्वेषणमन्दराद्रिभरणक्ष्मोद्धारणस्वाश्रितप्रह्लादावनभूमिभिक्षणजगद्विक्रान्तयो यत्क्रियाः ॥ दुष्टक्षत्रनिबर्हणं दशमुखाद्युन्मूलनं कर्षणं कालिन्द्या अतिपापकंसनिधनं […]

परमार्थश्लोकद्वयम्-श्रीवात्स्यवरदगुरु

श्रीवात्स्यवरदगुरुभिरनुगृहीतं ॥ परमार्थश्लोकद्वयम् ॥ वन्देऽहं वरदार्यं तं वत्साभिजनभूषणम् भाष्यामृतपदानाद्यः सज्जीवयति मामपि । सत्सङ्गाद्भवनिःस्पृहो गुरुमुखाच्छ्रीशं प्रपद्यात्मवान् प्रारब्धं परिभुज्य कर्मशकलं प्रक्षीणकर्मान्तरः । न्यासादेव निरङ्कुशेश्वरदयानिर्लूनमायान्वयः हार्दानुग्रहलब्धमध्यधमनिद्वारा बहिर्निर्गतः ॥ १ ॥ मुक्तोऽर्चिर्दिनपूर्वपक्षषडुदङ्मासाब्दवातांशुमद्ग्लौविद्युद्वरुणेन्द्रधातृमहितस्सीमान्तसिन्ध्वाप्लुतः । श्रीवैकुण्ठमुपेत्य नित्यमजडं तस्मिन् परब्रह्मण: सायुज्यं समवाप्य नन्दति समं तेनैव धन्यः पुमान् प्रातर्नित्यानुसन्धेयं परमार्थं मुमुक्षुभिः । श्लोकद्वयेन संक्षिप्तं सुव्यक्तं वरदोऽब्रवीत् ॥ ॥ इति परमार्थश्लोकद्वयं समाप्तम् ।।

प्रार्थनापञ्चकम्

॥ प्रार्थनापञ्चकम् ॥ यतीश्वर शृणु श्रीमन् कृपया परया तव । मम विज्ञापनमिदं विलोक्य वरदं गुरुम् ॥ १ ॥ अनादिपापरचिताम् अन्तःकरणनिष्ठिताम् । यतान्द्र विषये सान्द्रां विनिर्वासय वासनाम ॥ २ ॥ अपि प्रार्थयमानानां पुत्रक्षेत्रादिसंपदाम् । कुरु वैराग्यमेवात्र हितकारिन् यतीन्द्र नः ॥ ३ ॥ यथाऽपराधा न स्युर्मे भक्तेषु भगवत्यपि । तथा लक्ष्मणयोगीन्द्र यावद्देहं प्रवर्तय ॥ ४ ॥ आमोक्षं […]

पराङ्कुशाष्टकम्

  अनेकपूर्वाचार्यैरनुगृहीतम् ॥ पराङ्कुशाष्टकम् ॥ त्रैविद्यवृद्धजनमूर्धविभूषणं यत् सम्पच्च सात्त्विकजनस्य यदेव नित्यम् ।यद्वा शरण्यमशरण्यजनस्य पुण्यं तत्संश्रयेम वकुलाभरणाङ्घ्रियुग्मम् ॥ १ ॥ भक्तिप्रभावभवदद्भुतभावबन्धसन्धुक्षितप्रणयसाररसौघपूर्णः । वेदार्यरत्ननिधिरच्युतदिव्यधाम जीयात् पराङ्कुशपयोधिरसीमभूमा ॥ २ ॥ ऋषिं जुषामहे कृष्णतृष्णातत्त्वमिवोदितम् ।  सहस्रशाखां योऽद्राक्षीत् द्रामिडीं ब्रह्मसंहिताम् ॥ ३ ॥ यद्गोसहस्रमपहन्ति तमांसि पुसां नारायणो वसति यत्र सशङ्खचक्रः ।  यन्मण्डलं श्रुतिगतं प्रणमन्ति विप्राः तस्मै नमो वकुलभूषणभास्कराय ॥ ४ […]

यतिराजविंशतिः-श्रीवरवरमुनि

श्रीवरवरमुनिभिः अनुगृहीता ॥ यतिराजविंशतिः ॥ यः स्तुतिं यतिपतिप्रसादिनीं व्याजहार यतिराजविंशतिम् । तं प्रपन्नजनचातकाम्बुदं नौमि सौम्यवरयोगिपुङ्गवम् ॥ श्रीमाधवाङ्घ्रिजलजद्वयनित्यसेवाप्रेमाविलाशयपराङ्कुशपादभक्तम् । कामादिदोषहरमात्मपदाश्रितानां रामानुजं यतिपतिं प्रणमामि मूर्ध्ना ॥ १ ॥ श्रीरङ्गराजचरणाम्बुजराजहंसं श्रीमत्पराङ्कुशपदाम्बुजभृङ्गराजम् । श्रीभट्टनाथपरकालमुखाब्जमित्रं श्रीवत्सचिह्नशरणं यतिराजमीडे ॥ २ ॥ वाचा यतीन्द्र मनसा वपुषा च युष्मत्पादारविन्दयुगलं भजतां गुरूणाम् । कूराधिनाथकुरुकेशमुखाद्यपुंसां पादानुचिन्तनपरस्सततं भवेयम् ॥ ३ ॥ नित्यं यतीन्द्र तव दिव्यवपुस्मृतौ मे सक्तं […]

उत्तरदिनचर्या-श्रीदेवराजगुरु

  श्रीदेवराजगुरुभिः अनुगृहीता ||  उत्तरदिनचर्या ।। अथ गोष्ठीं गरिष्ठानाम् अधिष्ठाय सुमेधसाम् । वाक्यालङ्कृतिवाक्यानां व्याख्यातारं नमामि तम् ॥ १ ॥ सायन्तनं ततः कृत्वा सम्यगाराधनं हरेः । स्वैरालापैः शुभैः श्रोतृन् नन्दयन्तं नमामि तम् ॥ २ ॥ ततः कनकपर्यङ्के तरुणद्युमणिद्युतौ । विशालविमलश्लक्ष्णतुङ्गतूलासनोज्ज्वले ॥ ३ ॥ समग्रसौरभोद्गारनिरन्तरदिगन्तरे । सोपधाने सुखासीनं सुकुमारे वरासने ॥ ४ ॥ उन्मीलत्पद्मगर्भद्युतितलमुपरि क्षीरसङ्गातगौरं राकाचन्द्रप्रकाशप्रचुरनखमणिद्योतविद्योतमानम् । […]

पूर्वदिनचर्या-श्रीदेवराजगुरु

श्रीदेवराजगुरुभिः अनुगृहीता ॥ पूर्वदिनचर्या ॥ सौम्यजामातृयोगीन्द्रचरणाम्बुजषट्पदम् । देवराजगुरुं वन्दे दिव्यज्ञानप्रदं शुभम्  ॥ अङ्के कवेरकन्यायाः तुङ्गे भुवनमङ्गले । रङ्गे धाम्नि सुखासीनं वन्दे वरवरं मुनिम् ॥ १ ॥ मयि प्रविशति श्रीमन्मन्दिरं रङ्गशायिनः । पत्युः पदाम्बुजं द्रष्टुम् आयान्तमविदूरतः ॥ २ ॥ सुधानिधिमिव  स्वैरस्वीकृतोदग्रविग्रहम् । प्रसन्नार्कप्रतीकाशप्रकाशपरिवेष्टितम् ॥ ३ ॥ पार्श्वतः पाणिपद्माभ्यां परिगृह्य भवत्प्रियौ । विन्यस्यन्तं शनैरङ्घ्री मृदुलौ मेदिनीतले ॥ […]

श्री भगवद् गुण दर्पण: 901-1000

श्री भगवद् गुण दर्पण: 901-1000(Concluded)   96.901   स्वस्तिदः                 *901 दशमं शतकम् एवं महन्मङ्गलं ददाति इति स्वस्तिदः ।। [नि-901. भक्तेभ्यो मङ्गलं स्वस्ति ददातः स्मृतः ।।] 96.902   स्वस्तिकृत्                 *902 स्वगुणैः स्वभोगाशिषं करोति इति स्वस्तिकृत् ।। [नि-902. स्वस्ति भेगाशिषं यस्तु करोति स्वस्तिकृत् च सः ।।] 96.903   स्वस्ति                 *903 स्वयमेव महन्मङ्गलम् स्वस्ति । “स्वस्ति शिवाशिषोः ।।” […]

श्री भगवद् गुण दर्पण: 801-900

श्री भगवद् गुण दर्पण: 801-900   85.801   अर्कः                 *801 नवमं शतकम् ‘अहो! महात्माऽतिधार्मिकः’ इति तैः स्तुतः अर्कः । “अर्क स्तुतौ” ।। [नि-801. अत्यन्तधार्मिक इति स्तुतः अर्क ईरितः ।] 85.802   वाजसनिः                 *802 नास्तिक्यवादेन नास्तिक्यवादेन एहिकमन्नादिकमेव संभजतीति वाजसनिः । “वन पण संभक्तौ” “इन् सर्वधातुभ्यः ।” (उणा.पा.-4.119) “क्षपणकव्रतं हीदं यत् प्रातः प्रातः दध्योदनकबलान् गृह्णते इति ।।” […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.