अतिमानुषस्तवः

श्रीवत्सचिह्नमिश्रैरनुगृहीतः ।। अतिमानुषस्तवः ॥ श्रीवत्सचिह्नमिश्रेभ्यो नमउक्तिमधीमहे । यदुक्तयस्त्रयीकण्ठे यान्ति मङ्गलसूत्रताम् ॥ अतिमानुषशीलवृत्तवेषैः अतिवृत्तामरविक्रमप्रतापैः । अतिलङ्घितसर्वलोकसाम्यं वरये वैष्णववैभवावतारम् ॥ १ ॥ श्रेयः किरन्तु किरणाश्चरणारविन्दनिष्यन्दमानमकरन्दरसौघदेश्याः । तज्जाः श्रुतेर्मधुन उत्स इति प्रतीताः मङ्गल्यरङ्गनिलयस्य परस्य धाम्नः ॥ २ ॥ श्रीमत्पराङ्कुशमुनीन्द्रमनोनिवासात् तज्जानुरागरसमज्जनं अञ्जसाऽऽप्य । अद्याप्यनारततदुत्थितरागयोगं श्रीरङ्गराजचरणाम्बुजं उन्नयामः ॥ ३ ॥ वज्रध्वजाङ्कुशसुधाकलशातपत्रपङ्केरुहाङ्कपरिकर्मपरीतमन्तः । आपादपङ्कजविशृङ्खलदीप्रमौलेः श्रीरङ्गिणश्चरणयोर्युगं आश्रयामः ॥ ४ ॥ श्रीरङ्गराजचरणौ प्रणुमो […]

सुन्दरबाहुस्तवः

श्रीवत्सचिह्नमिश्रैरनुगृहीतः ॥सुन्दरबाहुस्तवः॥ श्रीवत्सचिह्नमिश्रेभ्यो नम उक्तिमधीमहे । यदुक्तयस्त्रयीकण्ठे यान्ति मङ्गलसूत्रताम् ॥ श्रीमन्तौ हरिचरणौ समाश्रितोऽहं श्रीरामावरजमुनीन्द्रलब्धबोधः । निर्भीकस्तत इह सुन्दरोरुबाहुं स्तोष्ये तच्चरणविलोकनाभिलाषी ॥ १ ॥ सुन्दरायतभुजं भहामहे वृक्षषण्डमयमद्रिं आश्रितम् । यत्र सुप्रथितनूपुरापगातीर्थं अर्थितफलप्रदं विदुः ॥ २ ॥ क्वचित् त्वरितगामिनी क्वचन मन्दमन्दालसा क्वचित् स्खलितविह्वला क्वचन फेनिला सारवा । पतन्त्यपि किल क्वचित् व्रजति नूपुराह्वा नदी सुसुन्दरभुजाह्वयं मधु निपीय मत्ता […]

श्रीवैकुण्ठस्तवः

श्रीवत्सचिह्नमिश्रैरनुगृहीतः ॥ श्रीवैकुण्ठस्तवः ॥ श्रीवत्सचिह्नमिश्रेभ्यो नम उक्तिमधीमहे । यदुक्तयस्त्रयीकण्ठे यान्ति मङ्गलसूत्रताम् ॥ यो नित्यमच्युतपदाम्बुजयुग्मरुक्मव्यामोहतस्तदितराणि तृणाय मेने । अस्मद्गुरोर्भगवतोऽस्य दयैकसिन्धोः रामानुजस्य चरणौ शरणं प्रपद्ये ॥ १ ॥ त्रैविद्यवृद्धजनमूर्धविभूषणं यत् सम्पच्च सात्त्विकजनस्य यदेव नित्यम् । यद्वा शरण्यं अशरण्यजनस्य पुण्यं तत् संश्रयेम वकुलाभरणाङ्घ्रियुग्मम् ॥ २ ॥ भक्तिप्रभावभवदद्भुतभावबन्धसन्धुक्षितप्रणयसाररसौघपूर्णः । वेदार्थरत्ननिधिरच्युतदिव्यधाम जीयात् पराङ्कुशपयोधिरसीमभूमा ॥ ३ ॥ यन्मङ्गलाय महते जगतामुशन्ति त्रैविष्टपान्यपि […]

वरदराजस्तवः

श्रीवत्सचिह्नमिश्रैरनुगृहीतः ॥ वरदराजस्तवः ॥ श्रीवत्सचिह्नमिश्रेभ्यो नमउक्तिमधीमहे । यदुक्तयस्त्रयीकण्ठे यान्ति मङ्गलसूत्रताम् ॥ स्वस्ति हस्तिगिरिमस्तशेखरः सन्तनोतु मयि सन्ततं हरिः । निस्समाभ्यधिकमभ्यधत्त यं देवमौपनिषदी सरस्वती ॥१॥ श्रीनिधिं निधिमपारमर्थिनां अर्थितार्थपरिदानदीक्षितम् । सर्वभूतसुहृदं दयानिधिं देवराजमधिराजमाश्रये ॥२॥ नित्यमिन्द्रियपथातिगं महो योगिनामपि सुदूरगं धियः । अप्यनुश्रवशिरस्सु दुर्ग्रहं प्रादुरस्ति करिशैलमस्तके ॥ ३ ॥ वल्लिका श्रुतिमतल्लिकामयी येन पल्लवितविश्वशाखया । स्वश्रिया करिगिरेरनुक्रियां वष्टि मृष्टवरदं तमाश्रये ॥ ४ […]

श्रीस्तवः

श्रीवत्सचिह्नमिश्रैरनुगृहीतः ॥ श्रीस्तवः ॥ श्रीवत्सचिह्नमिश्रेभ्यो नमउक्तिमधीमहे । यदुक्तयस्त्रयीकण्ठे यान्ति मङ्गलसूत्रताम् ॥ स्वस्ति श्रीर्दिशतादशेषजगतां सर्गोपसर्गस्थितीः स्वर्गं दुर्गतिमापवर्गिकपदं सर्वञ्च कुर्वन् हरिः । यस्या वीक्ष्य मुखं तदिङ्गितपराधीनो विधत्तेऽखिलं क्रीडेयं खलु नान्यथाऽस्य रसदा स्यादैकरस्यात्तया ॥ १ ॥ हे श्रीर्देवि! समस्त लोकजननीं त्वां स्तोतुमीहामहे युक्तां भावय भारतीं प्रगुणय प्रेमप्रधानां धियम् । भक्तिं भन्दय नन्दयाश्रितमिमं दासं जनं तावकं लक्ष्यं लक्ष्मि! कटाक्षवीचिविसृतेस्ते […]

चतुश्श्लोकीभाष्यम्-श्रीमन्निगमान्त महादेशिकैरनुगृहीतं

॥ श्रीरस्तु॥ श्रीमत्प्रणतातिहरवरदपरब्रह्मणे नमः । श्रीमते हयग्रीवाय नमः । श्रीमते रामानुजाय नमः । श्रीमते निगमान्तमहादेशिकाय नमः । श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे सनिधत्तां सदा हृदि ॥ श्रीमन्निगमान्त महादेशिकैरनुगृहीतं ॥ चतुश्श्लोकीभाष्यम् ॥ (भगवद्यामुनमुनिभिरनुगृहीता चतुःश्लोकी) 1स्वशेषाशेषार्थो निरवधिकनिर्वाधमहिमा फलानां दाता यः फलमपि च शारीरकमितः । श्रियं तत्सध्रीची तदुपसदनत्रासशमनीमभिष्टौति स्तुत्यामवितथमतिर्यामुनमुनिः ॥१॥ अत्र समन्वयाविरोधसाधनफलविषयशारीरकचतुरध्यायीसमधिगतस्य भगवतः सर्वप्रकारा–भिमतानुरूपसह(धर्मचारिणी)धर्मिणीविशिष्टतयाऽपि सर्वाधिकत्वं कश्श्रीश्श्रियः (स्तोत्ररत्ने […]

சதுஶ்ஶ்லோகீ வ்யாக்யானம்-பெரியவாச்சான்பிள்ளை

ஶ்ரீ: ஶ்ரீமதே ராமாநுஜாய நம: பரமகாருணிகரான பெரியவாச்சான்பிள்ளை அருளிச்செய்த சதுஶ்ஶ்லோகீ வ்யாக்யானம் श्रीमत्कृष्णसमाह्वाय नमो यामुनसूनवे। यत्कटाक्षैकलक्ष्याणामं सुलभ: श्रीधरस्सदा।। ஸ்ரீமத்க்ருஷ்ணஸமாஹ்வாய நமோ யாமுநஸூநவே | யத்கடாக்ஷைக லக்ஷ்யாணாம் ஸுலப4 : ஸ்ரீத4ரஸ்ஸதா3 || அவதாரிகை:-நம் த3ர்ஶனத்துக்கு ப்ரதா4நம் ரஹஸ்ய த்ரயமென்றும், ஶ்லோகத்3வய மென்றும், சதுஶ்ஶ்லோகீ என்றும் நம் ஆசார்யர்கள் அருளிச்செய்துபோருவர்கள். இதில் திருமந்த்ரத்தாலே ஸ்வரூபமும் ஸ்வரூபா நுரூபமான புருஷார்த்த2மும் ப்ரதிபாதி3க்கப்படுகையாலே, அந்தப் புருஷார்த்த2த்துக்கு உபாயசிந்தை பண்ணுகிறது சதுஶ்ஶ் லோகியாலும், ஶ்லோகத்3வயத்தாலும். இவ்விடத்தில் சதுஶ்ஶ்லோகியால் செய்கிறது என்னென்றால்: […]

चतुःश्लोकी-श्रीभगवद्यामुनमुनि

श्रीभगवद्यामुनमुनिभिरनुगृहीता ॥ चतुःश्लोकी ॥  कान्तस्ते पुरुषोत्तमः फणिपतिः शय्याऽऽसनं वाहनं वेदात्मा विहगेश्वरो जवनिका माया जगन्मोहिनी । ब्रह्मेशादिसुरव्रजस्सदयितः त्वद्दासदासीगणः श्रीरित्येव च नाम ते भगवति ब्रूमः कथं त्वां वयम् ॥ १॥ यस्यास्ते महिमानमात्मन इव त्वद्वल्लभोऽपिप्रभु- र्नालं मातुमियत्तया निरवधिं नित्यानुकूलं स्वतः । तां त्वां दास इति प्रपन्न इति च स्तोष्याम्यहं निर्भयो लोकैकेश्वरि ! लोकनाथदयिते ! दान्ते दयान्ते विदन् ॥ […]

श्रीदेवराजाष्टकम्-श्रीकाञ्चीपूर्णमुनि

श्रीकाञ्चीपूर्णमुनिभिरनुगृहीतम् ॥ श्रीदेवराजाष्टकम् ॥ श्रीमत्काञ्चीमुनिं वन्दे कमलापतिनन्दनम् । वरदांघ्रिसदासङ्गरसायनपरायणम् ॥ देवराजदयापात्रं श्रीकाञ्चीपूर्णमुत्तमम् । रामानुजमुनेर्मान्यं वन्देऽहं सज्जनाश्रयम् ॥ नमस्ते हस्तिशैलेश! श्रीमन्नम्बुजलोचन! । शरणं त्वां प्रपन्नोऽस्मि प्रणतार्तिहराच्युत! ॥ १ ॥ समस्तप्राणिसन्त्राणप्रवीणकरुणोल्बणाः । विलसन्तु कटाक्षास्ते मय्यस्मिन् जगतां पते! ॥ २ ॥ निन्दिताचारकरणं निवृत्तं कृत्यकर्मणः । पापीयांसममर्यादं पाहि मां वरदप्रभो! ॥ ३ ॥ संसारमरुकान्तारे दुर्व्याधिव्याघ्रभीषणे । विषयक्षुद्रगुल्माढ्ये तृषापादपशालिनि ॥ […]

मुकुन्दमाला

मुकुन्दमाला घुष्यते यस्य नगरे रङ्गयात्रा दिनेदिने । तमहंशिरसा वन्दे राजानं कुलशेखरम् ॥ श्रीवल्लभेति वरदेति दयापरेति भक्तप्रियेति भवलुण्ठनकोविदेति । नाथेति नागशयनेति जगन्निवासेति आलापिनं प्रतिपदं कुरु मां मुकुन्द ॥ १ ॥ जयतु जयतु देवो देवकीनन्दनोऽयं जयतु जयतु कृष्णो वृष्णिवंशप्रदीपः । जयतु जयतु मेधश्यामलः कोमलाङ्गो जयतु जयतु पृथ्वीभारनाशो मुकुन्दः ॥ २ ॥ मुकुन्द! मूर्ध्ना प्रणिपत्य याचे भवन्तमेकान्तमियन्तमर्थम् । […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.