श्रीगुणरत्नकोशः-श्रीपराशरभट्ट
श्रीपराशरभट्टाचैरनुगृहीतः ॥ श्रीगुणरत्नकोशः || श्रीपराशरभट्टार्यः श्रीरङ्गेशपुरोहितः । श्रीवत्साङ्कसुतः श्रीमान् श्रेयसे मेऽस्तु भूयसे ॥ श्रियै समस्तचिदचिद्विधानव्यसनं हरेः । अङ्गीकारिभिरालोकैः सार्थयन्त्यै कृतोऽञ्जलिः ॥ १ ॥ उल्लासपल्लवितपालितसप्तलोकीनिर्वाहकोरकितनेमकटाक्षलीलाम् । श्रीरङ्गहर्म्यतलमङ्गलदीपरेखां श्रीरङ्गराजमहिषीं श्रियमाश्रयामः ॥ २ ॥ अनुकलतनुकाण्डालिङ्गनारम्भशुम्भत्प्रतिदिशभुजशाखश्रीसखानोकहर्द्धिः । स्तननयनगुलुच्छस्फारपूष्पद्विरेफा रचयतु मयि लक्ष्मीकल्पवल्ली कटाक्षान् ॥ ३ ॥ यद्भ्रूभङ्गाः प्रमाणं स्थिरचररचनातारतम्ये मुरारेः वेदान्तास्तत्त्वचिन्तां मुरभिदुरसि यत्पादचिह्नैस्तरन्ति । भोगोपोद्घातकेलीचुलकितभगवद्वैश्वरूप्यानुभावा सा नः श्रीरास्तृणीताममृतलहरिधीलङ्घनीयैरपाङ्गैः ॥ ४ […]
स्तोत्ररत्नम्-श्रीभगवद्यामुनमुनि
श्रीभगवद्यामुनमुनिभिरनुगृहीतम् ॥ स्तोत्ररत्नम् ।। स्वादयन्निह सर्वेषां त्रय्यन्तार्थं सुदुर्ग्रहम् । स्तोत्रयामास योगीन्द्रस्तं वन्दे यामुनाह्वयम् ॥ नमो नमो यामुनाय यामुनाय नमो नमः । नमो नमो यामुनाय यामुनाय नमो नमः ॥ नमो यामुनपादाब्जरेणुभिः पावितात्मने । विदिताखिलवेद्याय गुरवे विदितात्मने ॥ नमोऽचिन्त्याद्भुताक्लिष्टज्ञानवैराग्यराशये । नाथाय मुनयेऽगाधभगवद्भक्तिसिन्धवे ॥ १॥ तस्मै नमो मधुजिदङ्घ्रिसरोजतत्त्वज्ञानानुरागमहिमातिशयान्तसीम्ने । नाथाय नाथमुनयेऽत्र परत्र चापि नित्यं यदीयचरणौ शरणं मदीयम् […]
श्रीवैकुण्ठगद्यम् – Moolam
भगवरामानुजाचार्यविरचितं गद्य त्रयम् ॥ श्रीवैकुण्ठगद्यम् ॥ यामुनार्यसुधाम्भोधिमवगाह्य यथामति । आदाय भक्तियोगाख्यं रत्नं सन्दर्शयाम्यहम् ॥ स्वाधीनत्रिविधचेतनाचेतनस्वरूपस्थितिप्रवृत्तिभेदं, क्लेशकर्माद्यशेषदोषासंस्पृष्टं, स्वाभाविकानवधिकातिशयज्ञानबलैश्वर्यवीर्यशक्तितेज:प्रभृत्यसङ्ख्येयकल्याणगुणगणौघमहार्णवं, परमपुरुषं, भगवन्तं, नारायणं, स्वामित्वेन सुहृत्त्वेन गुरुत्वेन च परिगृह्य ऐकान्तिकात्यन्तिक-तत्पादाम्बुजद्वयपरिचर्यैकमनोरथ:, तत्प्राप्तये च तत्पादाम्बुजद्वय-प्रपत्तेरन्यन्न मे कल्पकोटिसहस्रेणापि साधनमस्तीति मन्वान:, तस्यैव भगवतो नारायणस्याखिल-सत्त्वदयैक-सागरस्य, अनालोचितगुणगणाखण्डजनानुकूलमर्यादशीलवत:, स्वाभाविकानवधिका-तिशयगुणवत्तया देवतिर्यङ्मनुष्याद्यखिलजनहृदयानन्दनस्य आश्रितवात्सल्यैकजलधे: भक्तजनसंश्लेषैकभोगस्य, नित्यज्ञानक्रियैश्वर्यभोगसामग्रीसमृद्धस्य महाविभूते: श्रीमच्चरणारविन्दयुगलमनन्यात्म-सञ्जीवनेन तद्गतसर्वभावेन शरणमनुव्रजेत् ॥ । ॥ ततश्च प्रत्यहमात्मोज्जीवनायैवमनुस्मरेत् ॥२॥ […]
श्रीरङ्गगद्यम् – Moolam
भगवरामानुजाचार्यविरचितं गद्य त्रयम् श्रीरङ्गगद्यम् चिदचित्परतत्त्वानां तत्त्वयाथात्म्यवेदिने । रामानुजाय मुनये नमो मम गरीयसे ॥ स्वाधीनत्रिविधचेतनाचेतनस्वरूपस्थितिप्रवृत्तिभेदं, क्लेशकर्माद्यशेषदोषासंस्पृष्टं, स्वाभाविक-अनवधिकातिशयज्ञानबलैश्वर्यवीर्यशक्तितेजस्सौशील्यवात्सल्यमार्दवार्जवसौहार्द-साम्यकारुण्य-माधुर्यगाम्भीर्यौदार्यचातुर्यस्थैर्य-धैर्य शौर्यपराक्रम सत्यकामसत्यसङ्कल्पकृतित्वकृतज्ञताद्यसंख्येय-कल्याणगुणगणौघमहार्णवं, परब्रह्मभूतं, पुरुषोत्तमं, श्रीरंगशायिनं अस्मत्स्वामिनं, प्रबुद्धनित्यनियाम्यनित्यदास्यैकरसात्मस्वभावोऽहं, तदेकानुभव: तदेकप्रिय: परिपूर्णं भगवन्तं विशदतमानुभवेन निरन्तरमनुभूय, तदनुभवजनितानवधिकातिशयप्रीतिकारिताशेषावस्थोचित – अशेषशेषतैकरतिरूपनित्यकिङ्करो भवानि ॥ स्वात्म नित्यनियाम्य नित्यदास्यैकरसात्म स्वभावानुसन्धान पूर्वकभगवदनवधिकातिशय – स्वाम्याद्यखिलगुणगणानुभवजनितानवधिकातिशयप्रीतिकारिताशेषावस्थोचिताशेषशेषतैकरतिरूपनित्यकैङ्कर्य प्राप्त्युपायभक्ति तदुपायसम्यग् ज्ञान – तदुपाय समीचीनक्रियातदनुगुणसात्त्विकता, आस्तिक्यादि समस्तात्मगुण विहीन:, दुरुत्तरानन्त तद्विपर्ययज्ञानक्रियानुगुणानादि-पापवासनामहार्णवान्तर्निमग्न:, तिलतैलवद्दारुवह्निवत् […]
शरणागतिगद्यम् – Moolam
भगवरामानुजाचार्यविरचितं गद्य त्रयम् यो नित्यमच्युतपदाम्बुजयुग्मरुक्मव्यामोहतस्तदितराणि तृणाय मेने । अस्मद्गुरोर्भगवतोऽस्य दयैकसिन्धोः रामानुजस्य चरणौ शरणं प्रपद्ये ।। शरणागतिगद्यम् वन्दे वेदान्तकर्पूरचामीकरकरण्डकम् । रामानुजार्यमार्याणां चूडामणिमहर्निशम् ।। ओम् भगवन्नारायणाभिमातानुरूपस्वरूपरूपगुणविभवैश्वर्यशीलाद्यनवधिकातिशयासङ्ख्येय- कल्याणगुणगणां, पद्म वनालयां, भगवतीं, श्रियं, देवीं, नित्यानपायिनीं, निरवद्यां, देवदेवदिव्यमहिषीं, अखिलजगन्मातरं, अस्मन्मातरं, अशरण्यशरण्यां, अनन्यशरण: शरणमहं प्रपद्ये॥ पारमार्थिक भगवच्चरणारविन्द, युगळैकान्तिकात्यन्तिक, परभक्ति परज्ञान परमभक्तिकृत-परिपूर्णानवरत-नित्य विशदतमानन्यप्रयोजनानवधिकातिशय प्रिय भगवदनुभवजनित-अनवधिक-अतिशय-प्रीतिकारिताशेषावस्थोचिताशेषाशेषतैकरतिरूप नित्यकैङ्कर्यप्राप्त्यपेक्षया, पारमार्थिकी […]