श्री वेदान्तदेशिकस्तोत्रम्

श्री वेदान्तदेशिकस्तोत्रम् श्रीमान् वेङ्कटनाथार्यः कवि-तार्किक-केसरी । वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ।। गुरुतरगर्वशर्वपरपर्वतपर्वभिदा- भिदुरविधानुधावि विविधाकृतयः कृतयः । श्रितजनताहिताय महिता इह यद्विहिताः कथमधुना नुमस्तमथ वेङ्कटनाथगुरुम् ।। (१) स्थिरतरवैनतेय-करुणापरिणामवता हयवदनप्रमोद-सदनायित दिव्यहृदा । विदितनिजापदानविलसत् बिरुदावलिना कविकथकाळि-मौळिमकुटेन जगद्विजितम् ।। (२) वकुळभृदाततान पृतनापतिरेकतरो यतिपतिरेवमेव निगमान्तमनन्ततनुः । तदुभयपक्षरक्षण-विलक्षणपक्षयुगः श्रुतिमय एष विश्रुतगतिर्निगमान्तगुरुः ।। (३) सरसवसन्तदान्त दिवसान्त सितान्तलसत्- विसृमरमल्लिकाकुसुमतल्लजगन्धपुषः । वचनसरास्सतां परिपचेळिमपुण्यचयोः मनसि […]

श्री वेदान्तदेशिक सुप्रभातम्

श्रीमते रामानुजाय नमः श्री वेदान्तदेशिक सुप्रभातम् (श्रीकृष्ण ब्रह्मतन्त्रमुनिवर्यकृतिः) श्रीमान् वेङ्कटनाथार्यः कवि-तार्किक-केसरी । वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ।। पादारविन्दयुगळीनतचेतनौघ- खेदापहारिकरुणादि-गुणामृताब्धे । मोदाय सर्वजगतां भवतान्नितान्तं वेदान्तदेशिकमणे! तव सुप्रभातं ।। (१) निद्रानुभूतिशबलैरमलैः कटाक्षैः विद्रावितार्तिभिरुपाश्रितलोकरक्षैः । भद्राणि सर्वजगतां भगवन् विधातुं निद्रां विमुञ्च निगमाञ्चलदेशिकेन्द्र ।। (२) अन्तर्हरौ लसति धामनिधौ प्रकाशम् अत्यन्तमेत्य जगतां जनयन् प्रबोधम् । प्राचीप्रदेश इव भाति भवान् […]

रामानुज चतुश्लोकी

रामानुज चतुश्लोकी श्रीमद्रामानुजाचार्यश्रीपादांभोरुहद्वयम् । सदुत्तमाङ्गसन्धार्यम् अनन्तार्यमहं भजे ।। अनिशं भजतामनन्यभाजां चरणांभोरुहमादरेण पुंसाम् । वितरन्निभृतं विभूतियुग्मं जय रामानुज रङ्गधाम्नि नित्यम् ।। (१) श्रुतिषु स्मृतिषु प्रमाणतत्त्वं कृपयालोक्य विशुद्धया हि बुद्ध्या । आकरोः किल दिव्यभाष्यरत्नं जय रामानुज शेषशैलशृङ्गे ।। (२) मलिनान् विमतांस्त्वदीयसूक्तिः कुलिशीभूय कुदृष्टिभिस्समेतान् । शकलीकुरुते विपक्षवृत्तान् जय रामानुज हस्तिधाम्नि नित्यम् ।। (३) जय मायिमतान्धकारभानो जय बाह्य प्रमुखाटवीकृशानो […]

अनुभूयमानाः चतस्रःभगवद्रामानुजार्चाः

अनुभूयमानाः चतस्रःभगवद्रामानुजार्चाः १. भविष्यदाचार्यः–श्रीशठारि–सन्दृष्टः दक्षिणकुरुकापुर्याम्‌ श्रीरामानुजचतुर्वेदिमङ्गलाग्रहारस्थः शठारि-नाथ-दृष्टाय मेषार्द्रा-भव्य-मूर्तये। महाभूतपुरीशाय स्व-पूर्वार्चा-भुवे नमः॥ २. तानुहन्द–तिरुमेनि, श्रीयादवाद्रि यतिराजः उत्सवार्चा–विजयदशमी द्विपञ्चाशद्‌ वैष्णवाग्रे स्वार्थे सम्पत्सुताय यः। विजयाश्वयुजेऽर्चाभूद्‌-यतिराजाय मङ्गलम्‌॥ – इळैयविल्लिगुरोः ३. तमरुहन्द–तिुरमेनि, श्रीमन्महाभूतपुरस्था उत्सवार्चा – तै पुष्यम्‌ स्वावतारस्थलेऽर्चाभून्‌+मकरे गुरुपुष्यके। यन्मुदे तु यतीन्द्रस्‌ तं वारणाधीशमाश्रये॥ – तिरुमुडि अहैवु (रामानुजगुरुं भजे) ४. तानान–तिरुमेनि श्रीरङ्गबृन्दावनस्था सुधालिप्ता मूर्तिः माघशुद्‌ध-दशम्यां तु मध्यान्हे मन्दवासरे। योगिराजस्‌ स्व-भोगीश-भावं […]

श्रीभाष्यकारप्रपत्तिः

श्रीः श्रीभाष्यकार–प्रपत्तिः श्रीमते रामानुजाय नमः श्रीवैष्णवागमपयोदधि पूर्णचन्द्र श्रीशाङ्घ्रिपद्म मकरन्दरसज्ञभृङ्ग। गोविन्दवर्यकरसारसपूजितौ ते श्रीभाष्यकारचरणौ शरणं प्रपद्ये ॥ (१) श्रीशैलपूर्णमुखदेशिकलब्धबोध तुर्याश्रमप्रथित मौनिकुल प्रदीप। भट्टार्यवर्यकरनीरजपूजितौ ते श्रीभाष्यकारचरणौ शरणं प्रपद्ये ॥ (२) काञ्चीपुरीवरदराजकृपैकपात्र रङ्गेश पूर्णकरुणा परिणामरूप। वेदान्तदेशिककराम्बुज पूजितौ ते श्रीभाष्यकारचरणौ शरणं प्रपद्ये ॥ (३) श्रीयादवाद्रि पतिपादसरोजहंस श्रीभूतपट्टणरमेश कटाक्ष धन्य। शेषावतार कलिवैरिकरार्चितौ ते श्रीभाष्यकारचरणौ शरणं प्रपद्ये॥ (४) श्रीवेङ्कटाचलपति प्रियलक्ष्मणार्य सर्वज्ञभव्य यतिशेखर […]

श्रीरामानुज-षट्-त्रिंशत्

श्रीरामानुज–षट्–त्रिंशत् श्रीमते रामानुजाय नमः भजयति राजं भजयति राजं भजयति राजं भवभीरो ।। श्रीरङ्गेश जयाश्रयकेतुः श्रितजन-संरक्षणजीवातुः । भवभयजलधेः एष हि हेतुः पद्मानेतुः प्रणतौ हेतुः ।। (१) भज… आदौ जगदाधारश्शेषस्तदनुसुमित्रादनवेषः । तदुपरि धृतहलमुसलविशेष-स्तदनंतरमभवद्गुरुरेषः ।। (२) भज… भुङ्क्ते वैषयि किं सुखमन्यः प्रचकास्त्येवानश्नन्नन्यः । इतीयस्तत्वं प्रहवदान्यस्तस्माधीकः को नु वदान्यः ।। (३) भज… गुणगुणिनोर्भेदः किल नित्यश्पडि विद्द्वय परभेदस्सत्यः । तद्वयदे […]

श्री वरवरमुनिसुप्रभातम्

श्री वरवरमुनिसुप्रभातम् रविरुदयत्यथापि न विनश्यति मे तिमिरं विकसति पङ्कजं हृदयपङ्कजमेव न मे । वरवरयोगिवर्य वरणीयदयैकनिधे जय जय देव जागृहि जनेषु निधेहि धियम् ।। (१) स्वपनमिदं तव स्वमहिमानुभवैकरसं तदपि तथाविधं तदिति जातु न वेत्ति जनः । वरवरदेवदेव तदिदं विजहातु भवान् अपरिमितं हितं त्रिजगतामनुचिन्तयितुम् ।। (२) अवतरणं च देव जगतामविवेकभृतां विविध-हितावबोधन-कृते हि कृतं भवता । तत इत […]

श्रीभगवद्रामानुज सुप्रभातम्

श्रीमते रामानुजाय नमः श्रीरामानुज–सुप्रभातम्  (Version 01) जय जय यति सार्व भौमामलस्वान्त ! तुभ्यं नमः जय जय जनिसिन्धुमग्नात्मसन्तारकग्रामणीः!। जय जय भजनीय ! कूरेशमुख्यैः प्रसीद प्रभो ! जय जय विदुषां निधे! जागृहि श्रीनिधे! जागृहि॥ १ पूर्णायपूर्णकरुणापरिलब्धबोध ! वैराग्यभक्तिमुखदिव्यगुणामृताब्धे !। श्रीयामुनार्यपदपङ्कजराजहंस ! रामानुजार्य! भगवन् ! तव सुप्रभातम् ॥ २ आनेतुमद्य वरदस्य गजाद्रिभर्तुः पानीयमच्छमतिशीतमगाधकूपात्। ध्वान्तं निरस्तमरुणस्य करैस्समन्तात् रामानुजार्य ! […]

श्रीपराङ्कुश-सुप्रभातम्

श्रीपराङ्कुश–सुप्रभातम् गाथा सरस्रकिरण-क्षपितात्मगूढ गाढान्धकारमरविन्दविलोचनाङ्गम् । श्रीवैष्णवद्विजनिषेवित-मण्डलेशं प्राप्यं भजामि वकुलाभरणज्बबन्धुम् ।। (१) श्रीतिन्त्रिणीतरुवरातिफणीन्द्रभोग- पूर्णे तरोरुहरिहभक्तिगृहाधिपवासिन् । हंसध्वजद्रविडवेदशिरःप्रवक्तः श्रीमन्पराङ्कुशमुने तव सुप्रभातम् ।। (२) नाथार्यदेशिकवरो मधुरः कविश्व- गाथामयी द्रविडदशिरः परार्थान् । श्रीमन्त्ररत्नमनुराट् परमाग्धसारान् श्रोतुं स्थिताश्छठरिपो तव सुप्रभातम् ।। (३) वाणिं मरन्दशुभगां श्रुतिमार्गसौख्या नन्दप्रदां नवनवान्तवनाथवल्ली । आकर्णितुं स्वतनयप्रणुतां निशान्ते प्रत्यागताध्यशठजित् तव सुप्रभातम् ।। (४) नन्तुं नतार्तिहरमुत्तममादिनाथं नीळामही-कमलपाणिसमेतमेतम् । स्तोतुं […]

श्रीलोकाचार्य पञ्चाशत्

श्रीलोकाचार्य पञ्चाशत् कावेरी पुळिनान्तराळ लहरी लावण्यमालालसत् पर्यङ्कीकृतपन्नगेश्वरतनौ निद्रानिबद्धादरम् । कस्तूरी-तिलकाञ्चितं कमलजेनाराधितं श्रीसखं वस्तु-स्वीकृतकौस्तुभं दिशतु नः स्वस्ति प्रशस्तं स्वत: ॥ (१) नतलोकपालनधिया मरुद्वृधा पुलिनं जगाम नलिनं विहाय या । मयि सा तरङ्गयतु रङ्गिणः प्रिया- करुणातरङ्गविततीरपाङ्गजाः ॥ (२) यत्पाणिपद्मधृतकाञ्चनवेत्रवल्ली स्पन्दस्सुरेन्द्र भयभञ्जन लम्पटात्मा । वैकुण्ठसूरिपरिषत्प्रभुरत्र शर्म सोऽयं विकासयतु सूत्रवतीपतिर्मे ॥ (३) मुहुर्नत्वा मूर्ध्ना विनतविविधापत्प्रशमने शठारेः पादाब्जे मधुरकविविदेवस्य शरणे […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.